________________
बृहत्कल्प - छेदसूत्रम् -३-३/९७ षष्टिवर्षजन्मपर्याया इत्यर्थः स्ते 'बालकोऽयम्' इति बुध्या, 'श्रुततश्च' श्रुतमङ्गीकृत्य ये वृद्धास्ते 'अल्पश्रुतोऽयम्' इति कृत्वा, 'जात्यन्विताः' विशिष्टजातिसम्भूताः 'हीनजात्युद्भवोऽयम्' इति मत्या, 'शिष्यसमृद्धिमन्तः' परिवारसम्पदुपेताः 'अल्पपरिवारोऽयम्' इति बुध्या गुरोः 'अवज्ञाम्' अनभ्युत्थानलक्षणां कुर्वन्ति । अथैवमवज्ञाकरणानन्तरं गुरुस्तान् स्वगच्छ्नगराद् निर्यूहति । ये च बहुपाक्षिकत्वादिभि कारणैर्निर्यूहितुं न शक्यन्ते तेषां भोगसंविभागकल्पं 'सूत्र' श्रुतं न प्रयच्छति । एवं तावत् प्राघुणकमाचार्यमङ्गीकृत्याभ्युत्थानाऽनभ्युत्थानयोर्गुण-दोषा उपवर्णिताः । अथ सामान्यतो गच्छमध्यस्थितस्यैवाचार्यस्यानभ्युत्थाने दोषमाह
८
[भा. ४४३७] मज्झत्थ पोरिसीए, लेवे पडिलेह आइयण धम्मे । पयल गिलाणे तह उत्तिमट्ट सव्वेसि उट्ठाणं ॥
बृ- आचार्यमागच्छन्तं दृष्ट्वा गच्छसाधवो मध्यस्थास्तिष्ठन्ति न पुनरभ्युत्तिष्ठन्ति पूर्वोक्तमेव प्रायश्चित्तम् । सूत्राऽर्थपीरुषीं लेपप्रदानं प्रतिलेखनां " आइयणं" ति समुद्देशनं धर्मकथां वा विदधानाः प्रचलायमाना वा नाभ्युत्तिष्ठन्ति अत्रापि 'तदेव' वृषभादिविषयं प्रायश्चित्तम् । ग्लानी वा उत्तमार्थप्रतिपन्नो वा शक्तौ सत्यां यदि नोत्तिष्ठति तदा तस्यापि प्रायश्चित्तम् । यत एवमतः सर्वेषामप्यभ्युत्थानं भवति । इदमत्र हृदयम् - आचार्याणामनभ्युत्थाने सूत्रपौरुषीकरणादीनि कदालम्बनानि नालम्बनीयानि, यथा-ममायमालापकोऽर्धपठितो वर्त्तते, लेपो वा पात्रके नाद्यापि परिपूर्णो दत्तः प्रतिलेखनादिकं वा सम्प्रति कुर्वाणोऽस्मि, ग्लानो वा कृतभक्तप्रत्याख्यानो वा अहमस्मीति; किन्तु सर्वैरपि सूत्राध्ययनादिव्यापारं परिहृत्याभ्युत्थातव्यम् । एवं तावदुपाश्रये विधिरभिहितः, अथान्यत्र गृहादौ रथ्यादिषु वा यत्र दृश्यते तत्रायं विधिः---
[भा. ४४३८]
दूरागयमुट्ठे, अभिनिग्गंतुं नमंति णं सव्वे ।
isani च मत्तुं, दिट्ठे उड्डाणमन्नत्थ ॥
वृ-दूराचार्यमागतं दृष्ट्वा अभि-आभिमुख्येन निर्गत्य सर्वेऽपि साधवः “न” मिति एनमाचार्यं 'नमन्ति' शिरसा वन्दन्ते । यदा च गुरव उपाश्रयं प्रविशन्ति तदा दण्डकग्रहणमपि कर्तव्यम् । 'अन्यत्र तु' गृहादौ ध्टे गुरौ दण्डकग्रहणं मुक्त्वा अभ्युत्थानमेव कर्त्तव्यम् ॥
एवमभ्युत्थाने के गुणाः ? इत्याह
[ भा. ४४३९ ] परपक्खे य सपक्खे, होइ अगम्मत्तणं च उट्ठाणे । सुयपूयणा थिरक्तं, पभावना निजरा चेव ॥
वृ- परपक्षः परपाषण्डिनः स्वपक्षः पार्श्वस्थादिवर्गस्तयोः 'अगम्यत्वम्' अनभिभवनीयता गुरोरभ्युत्थाने भवति । तथा गुरवो बहुश्रुता भवन्तीति श्रुतपूजनमपि कृतं स्यात् । अन्येषामभ्युत्थानादी विनये सीदतां स्थिरत्वमनुष्ठितं भवति । प्रभावना च शासनस्यैवं कृता भवेत् अहो ! शोभनमिदं प्रवचनं यत्रैवंविधो विनयो विधीयते । निर्जरा च कर्मक्षयरूपा विपुला भवति, विनयस्याभ्यन्तरतपोभेदत्वात्, तस्य च निर्जरानिबन्धनतया सुप्रतीत्वात् ॥
आह- यः प्रव्रजितः सर्वपापोरतस्तस्य किं नाम विनयेन कार्यम् ? इति उच्यते[भा. ४४४०] अकारणा नत्थिह कज्रसिद्धी, न यानुवाएण वदेंति तन्ना ! उवायवं कारणसंपत्तो, कज्जाणि साहेइ पयत्तवं च ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org