________________
उद्देशक : ३ मूलं-९७ [भा. ४४३१]
वृ- ‘आराधितः’ केनापि गुणविशेषेण परितोषं प्रापितः सन् राजा द्व्यक्षरकस्य सपट्टबन्धं राज्यमकार्षीत्, पट्टबन्धनृपतिं तं विहितवानिति भावः । ततस्तं द्व्यक्षरकराजं राज्यं प्रशासतं 'कुली नादयो नाद्रियन्ते' 'वयं कुलीनाः, अयं तु हीनकुलोत्नः, आदिशब्दाद् वयं प्रधानपुरुषाः, अयं पुनः कर्मकरः' इत्यादिपरिभवबुध्धा नाभ्युत्थानादिकमादरं तस्य कुर्वन्ति । ततस्ते तेन राज्ञा ‘विनीताः’ शिक्षां प्रापिताः, ‘‘विनयः शिक्षा-प्रणत्योः” इति वचनात् । कथं शिक्षिताः ? इत्याह[भा. ४४३२] सव्वस्सं हाऊणं, निज्जूढा मारिया य विवदंता । भोगेहिं संविभत्ता, अनुकूल अनुव्वणा जे उ ॥
वृ- सर्वस्वमपहृत्य ते स्वनगराद् “निज्जूढा” निष्काशिताः । ये च तत्र निष्काश्यमाना विवदन्ते'किमस्माभिरपराद्धम् ? यो यो दुव्यक्षरो भविष्यति तस्य तस्य किं वयमभ्युत्थानं करिष्यामः ?' इत्यादि कलहायन्ते ते विवदमाना मारिताः । ये त तत्र 'अनुकूलाः' अभ्युत्थानादिकारिणः 'अनुल्बणाः' अगर्वितास्ते भोगैः 'संविभक्ताः' राज्यभोगसंविभागस्तेषां कृतः ॥
७
एष ध्ष्टान्तः, अयमर्थोपनयः
[भा. ४४३३] अहिराया तित्थयरो, इयरो उ गुरू उ होइ नायव्वो ।
साहू जहा व दंडिय, पसत्थमपसत्थगा होंति !!
वृ-यथा 'अधिराजः' मौलः पृथिवीपति तथा तीर्थकरः । यथा 'इंतरः' द्व्यक्षरकराजः तथा तीर्थकराधिराजेनैवानुज्ञाताचार्यपदपट्टबन्धसहितगणाधिपत्यराज्यः 'गुरु' आचार्योज्ञातव्यो भवति । यथा च ते प्रशस्ता प्रशस्तरूपा दण्डिकास्तथा साधवोऽप्युभयस्वभावा भवन्ति ॥ तत्र[भा. ४४३४] जह ते अनुट्ठिहंता, हियसव्वस्सा उ दुक्खमाभागी । इय नाणे आयरियं, अनुट्ठिहंताण वोच्छेदो ॥
वृ- यथा ते दण्ड-भट भोजिकादयो द्व्यक्षरकनृपतिमनुत्तिष्ठन्तो हृतसर्वस्वा ऐहिकस्य दुःखस्याभागिनः सञ्जाताः 'इति' एवमाचार्यमप्यनुत्तिष्ठतां दुर्विनीतसाधूनां ज्ञाने उपलक्षणत्वाद् दर्शनचारित्रयोश्च व्यवच्छेदो भवति । ततश्चानेकेषां जन्म-जरा-मरणादिदुःखानामाभागिनस्ते सञ्जायन्ते । एषोऽप्रशस्तोपनयः, अथ प्रशस्तोपनयः
[ भा. ४४३५ ] उद्वाण- सेज्जा - SS सनमाइएहिं, गुरुप्स जे होंति सयाऽनुकूला। नाउं विनीए अह ते गुरू उ, संगिण्हई देइ य तेसि सुत्तं ॥
वृ- उत्थानं - गुरुमागच्छन्तं दृष्ट्वा ऊर्ध्वभवनम् शय्या-सम- सुन्दरावकाशे गुरूणां संस्तारकरचनम्, आसनम् - उपवेशनयोग्यनिषद्यादिरचनम्, यद्वा "सेज्जा - SSसणं "ति गुरूणां शय्याया आसनाच्च नीचतरशय्या ऽऽ सनयोराश्रयणम्, आदिशब्दादञ्जलिप्रग्रहादिपरिग्रहः । एवमादिभिर्विनयभेदैर्ये शिष्याः सदैव गुरोरनुकूला भवन्ति तान् विनीतान् ज्ञात्वा 'अथ' अनन्तरं गुरु 'संगृह्णाति' 'मयैते सम्यक् पालनीयाः' इत्येवं सङ्ग्रहबुध्धा स्वीकरोति सूत्रं च तेषां प्रयच्छति । ततश्च ते इह परत्र च कल्याणपरम्पराभाजनं जायन्ते ।। अथाप्रशस्तोपनयं विशेषतो भावयन्नाह[भा. ४४३६ ] पज्जाय जाई - सुततो य वुड्डा, जञ्च्चत्रिया सीससमिद्धिमंता ।
कुव्वंतऽवन्नं अह ते गणाओ, निज्जूहई नो य ददाइ सुत्तं ॥
वृ- पर्यायतो ये वृद्धास्ते 'अवमरात्निकोऽयम्' इति बुध्या, जातिमधिकृत्य ये वृद्धाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org