________________
पीठिका - [भा. ३९८ ]
भिरुपशमगुणेन च तथा वयः परिणामेन 'अभिगमेन' सम्यकशास्त्रार्थकौशलेन युक्तो भवति आचार्यस्य 'इतरः' द्वितीयः । उक्ता पञ्चप्रकाराऽपि पर्षद् । सम्प्रति 'कयाऽधिकारः ? ' इति प्रतिपादयति
१०१
[ भा. ३९९] छत्तंतियाए पगयं, जइ पुण सा होजिमेहि उववेया । तो देंति जेहि परायं, तदभावे ठाणमादीणि ।।
वृ- अत्र च्छत्रान्तिकया पर्षदा 'प्रकृतम्' अधिकारः । शेषाः पर्षद उच्चरितसध्शा इति प्ररूपिताः । तत्र यदि सा छत्रान्तिका पर्षद् 'एभिः ' वक्ष्यमाणैर्गुणैरुपेता भवति तदा यकाभ्यामत्र प्रकृतं तौ कल्प व्यवहारौ सूरयो ददति । 'तदभावे' वक्ष्यमाणगुणाभावे स्थानादीनि आदिग्रहणेन प्रकीर्णकानां परिग्रहः ददति ।। अथ के ते गुणाः ? इत्यत आह
[ भा. ४०० ]
बहुस्सुए चिरपव्वइए, कप्पिए य अचंचले । अवट्ठिए य मेहावी, अपरिस्सावी य जे विऊ || पत्ते य अणुन्नाते, भावतो परिणामगे । एयारिसे महाभागे, अनुओगं सोउमरिहइ ||
[भा. ४०१]
वृ- बहुश्रुतश्चिरप्रव्रजितः कल्पिकोऽचञ्चलः अवस्थितो मेघावी अपरिश्रावी यश्च 'विद्' विद्वान् प्रभूताशेषशास्त्रपरिमलितबुद्धि | 'पत्ति' त्ति पात्रं प्राप्तो वा, तथा अनुज्ञातः सन् भावतः परिणामकः, एताध्शो महाभागोऽनुयोगं श्रोतुमर्हति, सामर्थ्यात् कल्प- व्यवहारयोः । एष द्वारगाथाद्वयसङ्क्षेपार्थः । विस्तरार्थः प्रतिद्वारं वक्ष्यते । तत्र प्रथमं बहुश्रुतद्वारमाह
[भा. ४०२ ]तिविहो बहुस्सुओ खलु, जहण्णओ मज्झिमो उ उक्कोसो । आयारपकप्पे कप्प वम-दसमे य उक्कोसो ॥
वृ- त्रिविधः खलु बहुश्रुतः, तद्यथा जघन्यो मध्यम उत्कृष्टश्च । तत्र 'आचारप्रकल्पः' निशीथं तद्धारी जघन्यो बहुश्रुतः । मध्यमः 'कप्प'त्तिकल्प-व्यवहारघरः । उत्कृष्टो नवमदशमपूर्वधरः ॥ सम्प्रति चिरप्रव्रजितद्वारमाह
[भा.४०३] चिरपव्वइओ तिविहो, जहन्नओ मज्झिमो य उक्कोसी ।
तिवरिस पंचग मज्झो, वीसतिवरिसो य उक्कोसो ॥
वृ- चिरप्रव्रजितस्त्रिविधः, तद्यथा- जघन्यो मध्यम उत्कृष्टश्च । तत्र त्रिवर्षप्रव्रजितो जघन्यश्चिरप्रव्रजितः । पञ्चवर्षप्रव्रजितो मध्यमः । विंशतिवर्षप्रव्रजित उत्कृष्टः ॥
अथ केन बहुश्रुतेन चिरप्रव्रजितेन चाधिकारः ? इत्यत आह
[भा. ४०४] बहुसुय चिरपव्वइओ, उ एत्थ मज्झेसु होति अहिगारो । एत्थ उ कमे विभासा, कम्हा उ बहुस्सुओ पढमं ।।
वृ- अत्र बहुश्रुतश्चिरप्रव्रजितश्च यो मध्यस्ताभ्यामधिकारः । गाथायां सप्तभी तृतीयार्थे । अत्र 'क्रमे' क्रमविषये विभाषा कर्त्तव्या, सा चैवम् कस्मात् प्रथमं बहुश्रुत उक्तः ? यतः प्रथमं प्रव्रज्या बवति, ततः श्रुतम्, ततः प्रथमं चिरप्रव्रजितस्योपादानं युज्यते; नैष दोषः, नियमविशेषप्रदर्शनार्थं ह्येवमुपादानम्- यो बहुश्रुतः स नियमाचिरप्रव्रजितः, येन त्रिवर्षप्रव्रजितस्य निशीथमुद्दिश्यते, पञ्चवर्षप्रव्रजितस्य कल्प-व्यवहारी, विंशतिवर्षप्रव्रजितस्य दृष्टिवाद:, तेन न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org