________________
१०२
दोष इति ॥ सम्प्रति कल्पिकद्वारमाह[ भा. ४०५ ]
बृहत्कल्प-छेदसूत्रम् -9
सुत्ते अत्थे तदुभय, उव्वट्ठ विचार लेव पिंडेय । सिज्जा वत्थे पाए, उग्गहण विहारकप्पे य ॥
वृ- कल्पिको द्वादशविधः, तद्यथा-सूत्रे १ अर्थे २ तदुभयस्मिन्' सूत्रार्थोभयलक्षणे ३ उपस्थापनायां ४ विचारे ५ पात्रलेपे ६ पिण्डे ७ तथा शय्यायां ८ वस्त्र ९ पात्रे १० अवग्रहणे ११ विहारकल्पे च १२ । एष प्रतिद्वारगाथासमासार्थः ॥
साम्प्रतमेनामेव विवरीषुः प्रथमतः सूत्रकल्पिकमाह
[भा. ४०६] सुत्तस्स कप्पितो खलु, आवस्सगमादि जाव आयारी । तेन पर तिवरिसादी, पकप्पमादी य भावेणं ॥
वृ- आवश्यकमादिं कृत्वा यावदाचारस्तावत् सर्वोऽपि सूत्रस्य कल्पिको भवति, न खल्वे तावत् सूत्रं यावत् कोऽपि पठन् विनियार्थते । ततः परं त्रिवरषप्रव्रजितमादिं कृत्वा यद् यद् व्यवहारेदशमोद्देशकपर्यन्ते यथा भणितं तत् तथोपदिश्यते यावद्विशतिवर्षपर्यायः सर्वश्रुततानुपाती भवति । नवरमाचारप्रकल्पमादिं कृत्वा यान्यपवादबहुलान्यध्ययनानि यानि चातिशायीन्यरुणोपपातप्रभृतीनि तानि यदा भावे परिणतो भवति तदोद्दिश्यन्ते ।
आह त्रिषु वर्षेष्वपरिपूर्णष्वाचारे पठिते किं कुर्यात् ? अत आह[मा. ४०७] सुत्तं कुणति परिजितं, तदत्थगहणं पइन्नगाई वा । इति अंग-ऽज्झयणेसुं, होति कमो जाहगो नायं ॥
वृ- यत् पठितं सूत्रं तत् परिजितं कुर्यात् । यदि वा तस्य सूत्रस्यार्थग्रहणं विदध्यात्, प्रकीर्णकादि वा सूत्रतोऽर्थतश्चाधीते । एवमङ्गानामध्ययनानां चातिशायिनां यावत् कल्पिकोभवति तावदेष क्रमो ज्ञातव्यः । जाहकज्ञातं चात्र पूर्वोपन्यस्तमुपन्यसनीयम्, जाहक इव परिजिती सूत्रा - ऽर्थी कुर्यादिति भावार्थः ।। अर्थकल्पिकमाह
[भा.४०८] अत्थस्स कप्पितो खलु, आवासगमादि जाव सूयगडं । मोत्तूणं छेयसुयं, जं जेनऽ हियं तदट्ठस्स ॥
वृ- आवश्यकमादिं कृत्वा यावत् सूत्रकृतमङ्गं तावद् यद् येनाधीतं स तस्यार्थस्य कल्पिको भवति । सूत्रकृताङ्गस्योपर्यपि च्छेदश्रुतं मुक्त्वा यद्येनाधीतं सूत्रं स तस्य - सूत्रस्य समस्तस्याप्यर्थस्य कल्पिको भवति । छेदसूत्राणि पुनः पठितान्यपि यावदपरिणतस्तावन्न श्राव्यते, यदा तु परिश्रतो भवति तदा कल्पिकः । अधुना तदुभयकल्पिकमाह
[भा. ४०९ ] तदुभयकप्पिय जुत्तो, तिगम्मि एगाहिएसु ठाणेसु । पियधम्मsaजमीरू, ओवम्मं अज्जवइरेहिं ॥
वृ- तदुभयं सूत्रमर्थश्च तस्मिन् कल्पिको युक्तः । किमुक्तं भवति ? -यो द्वावपि सूत्राSr युगपद् ग्रहीतुं समर्थ स तदुभयकल्पिकः । अथवा तदुभयकल्पिकः 'त्रिक एकाधिकयोः स्थानयोर्युक्तः' त्रिकं नाम सूत्रमर्थस्तदुभयं च तत्र सूत्रादर्थोऽधिकः, अर्थादधिकमुभयम्, एवमेकस्मादर्थादधिके ये उभे स्थाने सूत्रा ऽर्थरूपे तत्र युक्तः योग्यः स तदुभयकल्पिकः । अथवा प्रियधर्मा इति चत्वारो भङ्गाः सूचित्ताः प्रियधर्मा नामैको न ढधर्मा १ ढधर्मा नामैको न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org