SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १०० एस सपक्खे परपक्खे मोत्तु छन्नं निसिजं च ॥ वृ- एकान्तेऽपि यत्र कोऽपि न तिष्ठति तत्र 'विरहे' छत्रे प्रदेशे पूर्वं गुरोर्निषद्यां कृत्वा पूर्वामुत्तरां चरन्तिकां वा दिशमभिगृह्य वन्दनकं दत्त्वा उत्कृटुकः प्रबद्धाञ्जलि अथाऽसौ व्याधिमान् प्रभूतं चाऽऽ लोचनीयं ततो निषद्यामनुज्ञाप्यालोचयति । एष सपक्षे आलोचनाविधिः । 'परपक्षे' नाम संयती तत्र च्छन्नं मुक्त्वा आलोचना दातव्या, निषद्या च न कार्यते । इयमत्र भावना-यदा संयती संयतस्य पुरत आलोचयति तदा छन्नं वर्जयति, किन्तु यत्र लोकस्य संलोकस्तत्राऽऽलोचयति, निषद्यां चाऽऽचार्यस्य न करोति, आत्मनाऽप्युत्थिता आलोचयति ॥ श्रमणीमधिकृत्यालोचनाविधैश्चतुष्कर्णत्वमाह बृहत्कल्प-छेदसूत्रम् -१ [ भा. ३९४] आलोयणं पउंजइ, गारवपरिवज्जिया उ गणिणीए । एगतमणावाए, एगा एगाए निस्साए || वृ-श्रमणी गौरवपरिवर्जिता गणिन्याः पुरत आलोचनां प्रयुङ्के । क्व ? इत्याह-एकान्तेऽ नापाते 'एका' अद्वितया 'एकस्याः' अद्वितीयाया गणिन्या निश्रया । ततो गुरुसमीपे श्रमणस्येव श्रमण्या अपि गणिन्याः पुरत आलोचयन्त्याश्चतुष्कर्णा पर्षद् भवति ।। षट्कर्णामाह [भा. ३९५ ] आलोयणं पउंजइ, एगंते बहुजनस्स संलोए । सब्बितियथेरगुरुणो, सबिईया भिक्खुणी निहुया || वृ- अद्वितीयस्थविरगुरुसमीपे सद्वितीया भिक्षुकी 'निभृता' निव्यार्पारा न दिशो नापि विदिश आलोकयति, नापि यत्किञ्चिदुल्लापयतीत्यर्थः । एवम्भूता सती एकान्ते बहुजनस्य संलोके आलोचनां प्रयुङ्क्ते ॥ अथ कीदृशी तस्या द्वितीया भवति ? इत्यत आह [भा. ३९६] नाण- दंसणसंपन्ना, पोढा वयस परिणया । इंगियागारसंपन्ना, भणिया तीसे बिइज्जिया ।। वृ- ज्ञान दर्शनसम्पन्ना 'प्रौढा' समर्था या संयतस्य तस्या वा भावं विज्ञाय न मन्त्रणं कर्तु ददाति, किन्तु वदति यद्यालोचितं तर्हि व्रजामो नो चेदालोचनयाऽपि न प्रयोजनमिति । तथा 'वयसा परिणता' परिणतवयाः । तथा 'इङ्गिताकारसम्पन्ना' इङ्गितेनाऽऽकारेण च यस्य यादृशो भावस्तस्य तं जानातीत्यर्थः । एवम्भूता सा तस्य द्वितीया भणिता । सा पुनः कियद्दूरे तिष्ठति ? उच्यते- एके सूरयो वदन्ति यत्रोभयोराकाराद्दश्यन्ते तावन्मात्रे । अपरे ब्रुवते यत्र श्रवणं शब्दस्येति ।। अष्टकर्णामाह [भा. ३९७] आलोयणं पउंजइ, एगंते बहुजणस्स संलोए । सब्बितियतरुणगुरुणी, सब्बिइया भिक्खुणी निहुया || वृ- एकान्ते बहुजनस्य संलोके सद्वितीयस्य तरुणगुरोः समीपे सद्वितीया भिक्षुकी निभृता आलोचनां प्रयुङ्क्ते । तत्र भिक्षुक्या याशी द्वितीया ताद्दशी प्रागुक्ता ॥ Jain Education International सम्प्रति याश आचार्यस्य द्वितीयस्ताध्शमाह - [भा. ३९८] नाणेण दंसणेण य, चरित-तव- विनय-आलयगुणेहिं । वयपरिणामेण य अभिगमेण इयरो हवइ जुत्तो ॥ वृ- ज्ञानेन दर्शनेन चारित्रेण तपसा विनयेन 'आलयगुणैः' बहिश्चेष्टाभिः प्रतिलेखनादि For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy