________________
पीठिका - [भा. ३८८ ]
९९
कजेसु सिंगभूयं, तु सिंगनादिं भवे कजं ॥
वृ-पूर्वं गृहवासे अर्थशास्त्रषु पश्चात् श्रमणभावे स्वसमय-परसमयेषु ये केचित् कोविदाः सा मन्त्रिपर्षद् । कार्येषु शृङ्गभूतं यत् कार्यं तत् शृङ्गनादितं भवति ॥ किं तद् ? इत्याह[ भा. ३८९ ] तं पुन घेइयनासे, तद्दव्वविनासणे दुविहभेदे । भत्तोवहिवोच्छेदे, अभिवायण-बंध-धायादी ||
- 'तत्' पुनः शृङ्गनादितं कार्यं 'चैत्यविनाशः' लोकोत्तमभवन- प्रतिमाविनाशः, 'तद्द्द्रव्यविनाशनं' चैत्यद्रव्यविनाशनं चैत्यद्रव्यविद्रावणम्, तथा द्विविधो भेदः-मरणमुठप्रव्राजनं वा, यो वा 'भक्तं' भिक्षां वारयति उपधिं वा, यथा-मा कोऽप्यमीषां भक्तमुपधिं वा दद्यादिति भक्त व्यवच्छेद उपधिव्यवच्छेदो वा, तथा कोऽपि धिग्जातीयो ब्रूते ब्राह्मणान् भिवादयतवन्दध्वमिति, यो वा बन्धापयति पिट्ट्यति, आदिग्रहणाद् यो निर्विषयानाज्ञापयति आक्रोशयति वा प्रद्विष्ट राजादि, तद् अभिवादन-बन्ध-घातादि च श्रङ्गनादितं कार्यम्, तद्विधिर्यै समनुभूतः सा मन्रिपर्षद् ॥
[भा. ३९० ] वितहं ववहरमाणं, सत्येण वियाणतो निहोडेइ । अम्हं सपक्खदंडो, न चेरिसो दिक्खिए दंडो ॥
बृ-राजादिं वितथंव्यवहरन्तंमन्त्रिपर्षदन्तर्गतो 'विज्ञायकः' स्वसमय-परसमय शास्त्रकुशलः शास्त्रेण 'निठयति' सुखं वारयति, यथा- अस्माकं सपक्षे दण्डो भवति सङ्घो दण्डं करोतीत्यर्थः, न च राजा प्रभवति, वापि प्रपत्रदीक्षाकस्यैताद्दशो दण्डः । एषा मन्त्रिपर्षत् ॥
सम्प्रति राहस्मिक पर्षदमाह
[ भा. ३९१] सल्लुद्धरणे समणस्स चाउकन्ना रहस्सिया परिसा । अजाणं चउकण्णा, छक्कन्ना अट्ठकन्ना वा ॥
वृ-द्विवधं शल्यम्- द्रव्यशल्यं भावशल्यंच । द्रव्यशल्यं कण्टकादि । भावशल्यं मायानिदानमिथ्यात्वानि, अथवा भावशल्यं मूलोत्तरगुणातिचारः । ततः श्रमणस्य भावशल्योद्धरणे आचार्यसमीपे आलोचयत इत्यर्थः राहस्थिकी पर्षद् भवति । कथम्भूता ? इत्यत आह- 'चतुष्कर्णा' द्वावाचार्यस्य द्वौ साधोरिति चत्वारः कर्णा यत्र सा । तथा आर्याणां चतुष्कर्णा षट्कर्णा वा । तत्र यदा निर्ग्रन्थी निर्ग्रन्ध्याः पुरत आलोचयति तदा चतुष्कर्णा, यथा निर्ग्रन्थस्य निर्ग्रन्थपार्श्वे आलोचयतः । यदा त्वद्वतीयस्थविरगुरुसमीपे आलोचयति सद्वितीया भिक्षुकी तदा षट्कर्णा । सद्वितीयतरुणगुरुसमीपे सद्वितीयाभिक्षुक्या आलोचयन्त्या अष्टकर्णा ।
तत्र प्रथमतः संयतस्य चतुष्कर्णां भावयति
[भा.३९२] आलोयणं पउंजइ, गारवपरिवजितो गुरुसगासे । एतणावाए, एगो एस्स निस्साए ॥
वृ-एकान्ते अनापाते ‘एकः' अद्वितीयः 'एकस्य' अद्वितीयस्याचार्यस्य 'निश्रया' तत्पुरत इत्यर्थः 'गौरवपरिवर्जितः ' ऋद्धि-रस-सातगौरवपरित्यक्तः, गौरवाद्धि सम्यगालोचयितव्यं न भवतीति तव्यतिषेधः, 'गुरुसमीपे' आलोचनार्हासमीपे आलोचनां प्रयुङ्क्ते ।। कथम् ? इत्याह[भा. ३९३] विरहम्मि दिसाभिग्गह, उकुडुतो पंजली निसेजा वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org