________________
बृहत्कल्प-छेदसूत्रम् -१
भवाः न पैतृकेण सम्बन्धेन सम्बद्धा इत्यर्थः 'हिताः' हितान्वेषिणः 'परिणताः' वयसा 'मातृकुलीयाः ' मातृकेण सम्बन्धेन सम्बद्धाः 'वशिकाः' आयत्ताः तैः सह रहसि नृपो मन्त्रयति एषा मन्त्रिपर्षद् ॥ रोहिणीयां पर्षदमाह
९८
[मा. ३८३] कुविया तोसेयव्वा, रयस्सला वारअऽन्नमासत्ता । छन्न पगासे य रहे, मंतयते रोहिणिज्जेहिं ॥
वृ- या देवी राज्ञः कुपिता तां रोहिणीया निवेदयन्ति । ते वा दूतत्वेन प्रसादननिमित्तं प्रेष्यन्ते, यथा- युष्माभि सा देवी तोषयितव्या । तथा या 'रजस्वला' ऋतुस्राता तां रोहिणीयाः कथयन्ति । यस्या वा यस्मिन् दिवसे वारकस्तं राज्ञस्तस्याः कथयन्ति । याऽपि कन्या यौनप्राप्ता तामपि परिणयनाय राज्ञे निवेदयन्ति । 'अन्नमासत्त' त्ति अन्यासक्ता-व्यभिचारिणीत्यर्थः तामपि राज्ञः कथयन्ति, यथा- एषा देवी दुश्चारिणीति । अन्यान्यपि यानि च्छन्नानि प्रकाशानि च 'रहांसि' रतिकार्याणि तानि रोहिणीयैः सह राजा मन्त्रयते । एषा पञ्चमी राहस्यिका पर्षत् ॥
तदेवमुक्ता पञ्चप्रकाराऽपि लौकिकी पर्षत् । सम्प्रति लोकोत्तरे पञ्चविधां पर्षदमाह[भा. ३८४ ] आवासगमादी या, सुत्तकड पुरंतिया भवे परिसा । दसमादि उविमसुया, हवति उ छत्तंतिया परिसा ॥
वृ- आवश्यकमादिं कृत्वा यावत् सूत्रकृतमङ्गं तावदधीत श्रुता पूरयन्ती पर्षत्, न खल्वत्र कश्चनापि साधुः पठन् निरुध्यते । दशाश्रुतस्कन्धमादि कृत्वा येषामुपरितनानि श्रुतानि सा छत्रान्तिका पर्वत्, तत्र हि ये परिणामिकास्तेन निवार्यन्ते, शेषास्त्वपरिणामिका अतिपरिणामिकाश्च निवार्यन्ते ॥ [ भा. ३८५ ] लोइय- वेइय-सामाइएसु सत्थेसु जे समोगाढा । ससमय-परसमयविसारया य कुसला य बुद्धिमती ।।
वृ-ये च लौकिकेषु वैदिकेषु सामायिकेषुच शास्त्रेषु समवगाढाः स्वसमय-परसमयविशारदाः कुशलाः सा बुद्धिमती पर्षत् ।। आह किं प्रयोजनं बुद्धपर्षदा ? तत आह
[भा. ३८६ ] आन्नपतीभत्तं, खेयपरिस्समजतो तहा सत्थे । कहमुत्तरं च दाहिसि, अमुगो किर आगतो वादी ||
वृ- बुद्धिपर्षदा सह श्रमं कुर्वत आसन्नप्रतिभत्सुपजायते । तथा यः शास्त्रे निरन्तरव्याख्याकरणतः खेदपरिश्रमस्तस्य जयो भवति । कदाचित् परिश्रमे जातेऽपि व्याख्याकरणतस्तं परिश्रममपनयति । तथा सा बद्धिपर्षद् एवं शिक्षयते-अमुकः किल आगतो वादी ततः कथं त्वमुत्तरं दास्यसि ? । एवं बुद्धिपर्षदा सह कृताभ्यासः सुखं परप्रवादिनं निगृह्णाति ।। उक्ता बुद्धिपर्षद् ! मन्त्रिपर्षदमाह
[भा. ३८७] पुव्वं पच्छा जेहिं, सिंगणादितविही समनुभूतो । लोए वेदे समए, कयागमा मंतिपरिसा उ ।।
वृ-यैः पूर्वं गृहवासे पश्चात् श्रमणभावे 'शृङ्गनादितविधि' सर्वेषु कार्येषु मध्ये शृङ्गभूतं यत् कार्यं तत् शृङ्गनादितमुच्यते तद्विधि समनुभूतः सा लोके वेदे समये च कृतागमा मन्त्रिपर्षद् ।। एतदेव व्याचिख्यासुराह
[ भा. ३८८ ] गिहवासे अत्थसत्थेहि कोविया केइ समणभावम्मि ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org