SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ३७६] ९७ एष दृष्टान्तः ॥उपनयमाह[भा.३७७] कारणनिसेवि लहुसग, अगीयपञ्चय विसोहि दह्ण। सव्वत्थ एव पच्चंतगमण गीयागते दंडो ।। वृ-आचार्येणान्यस्य कस्यापि साधोः कारणनिषेविणोऽगीतप्रत्ययनिमित्तं किञ्चिद्यथालधु प्रायश्चित्तं दत्तम्, विशोधि प्रायश्चित्तमित्यनर्थान्तरम्, तद् दृष्ट्वा चिन्तयति-सर्वत्रैवं प्रायश्चित्तं दातव्यम् । ततःप्रत्यन्तेनामेनगरेवातस्य गमनम्।तत्र गतः सब्रूते-अहमपिजानामिप्रायश्चित्तम्। तत्र निष्कारणं प्रतिसेविते भणति-भण 'मया कारणे प्रतिसेवितम् तत एवमुक्ते स ब्रूते-त्वं शुद्धस्तथापि किञ्चिदगीतार्थत्वप्रत्ययं ग्रायश्चित्तंददामि। एवंकुर्वन् पश्चादन्येषां गीतार्थानामागमनम् एतैरन्यैर्गीतार्थेष्टः । तैर्द्रावितो दिक् च तस्यापह्वता । ईशा ये पुरुषाः सा दुर्विदग्ध पर्षत् । एतस्या यो ददाति सूत्रमर्थं वा तस्मै प्रायश्चित्तं चतुर्गुरु । जानत्या अजानत्याश्च सूत्रा-ऽर्थाप्रदाने चतुर्लघु ।। अथवा द्विविधा पर्षत् लौकिकी लोकोत्तराच । तत्र लौकिकी पञ्चविधा, तामेवाह[भा.३७८] पूरंती छत्तंतिय, बुद्धी मंती रहस्सिया चेव । पंचविहा खलु परिसा, लोइय लोउत्तरा चेव ।। वृ-पूरयन्ती छत्रवती बुद्धिमन्त्री राहस्थिकी च एवं लौकिकी लोकोत्तराच खलु पञ्चविधा पर्षत् ।। तत्र लौकिकीं पञ्चप्रकारामपि दर्शयति[भा.३७९] पूरंतिया महाणो, छत्तविदिन्ना उईसरा बितिया । समयकुसला उ मंती, लोइय तह रोहिणिज्जा या ।। वृ-महाजनः पूरयन्तिकापर्षत। वितीर्णच्छत्राईश्वरा द्वितीयाछत्रान्तिका। स्वसमयकुशला तृतीया बुद्धिपर्षत्। चतुर्थी मन्त्री । पञ्चमी राहस्यिकी रोहिणीयानाम' वर्धिका-अन्तःपुरमहत्तरिका। एषा लौकिकी पञ्चप्रकारा पर्षत् ।। तत्र पूरयन्तिकामाह[भा.३८०] नीहम्मियम्मि पूरति, रन्नो परिसा न जा घरमतीति। जे पुन छत्तविदिन्ना, अयंति ते बाहिरं सालं ।। वृ-यदा राजा निर्गच्छति तस्मिन् निर्गते यः कोऽपिमहान् जनः स सर्वोऽपि राज्ञो ढौकते यावग्रहं नायातिसापर्षत परयन्तिका।ये पुनः 'छत्रवितीर्णा प्रदत्तच्छत्रा राजानो भटभोजिकाश्च ते बाह्यां शालां यावदागच्छन्ति शेषा वार्यन्ते एषा छत्रान्तिका छत्रवती पर्षत् ।। बुद्धिपर्षदमाह[भा.३८१] जे लोग-वेय-समएहि कोविया तेहि पत्थिवो सहिओ। समयमतीतो परिच्छइ, परप्पवायागमे चेव ।। वृ-ये लोकं-वेद-समयेषु लोके वेदे समये चेत्यर्थः 'कोविदाः' कुशलास्तैः सहितः पार्थिवः 'समयम्' अवसरम् ‘अतीतः' प्राप्तः सन् परप्रवादानामागमाः परप्रवादागमास्तान् परीक्षते एषा बुद्धिपर्षत् ।। मन्त्रिपर्षदमाह[भा.३८२] जे रायसत्थकुसला, अतक्कुलीया हिता परिणया य। मइकुलीया वसिया, मंतेति निवो रहे तेहिं । वृ-ये राजशास्त्रेषु कौटिल्यप्रभृतिषु कुशला राजशास्त्रकुशलाः अतत्कुलीयाः' न राजकुले [1871 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy