________________
उद्देशकः३,मूलं-९६, [भा.४४०३]
४९३
शिक्षाग्राहयति 'उभयंच' संज्ञा-कायिकीलक्षणं तदीयं यः 'नयति' परिठापयति तस्यैव पार्श्वेतं कुर्वन्ति॥ [भा.४४०४] संथारगंजो इतरं व मतं, उव्वत्तमादी व करेइ तस्स ।
गाहेइ सेहं खलु जो व मेरं, करेंति तस्सेव उतं सगासे ।। -ग्लानस्य संस्तारकं यः करोति, 'इतरद्वा' संज्ञाद्युत्सर्जनां यो ग्लानं कारयति, मात्रकं वा परिष्ठापयति, उद्वर्तन-परावर्तनादीनि वा 'तस्य' ग्लानस्य यः करोति तं वैयावृत्यकरं तस्यैव पार्श्वे स्थापयन्ति।यो वा शैक्षं मेरां' सामाचारी ग्राहयति तं तस्यैव सकाशे कुर्वन्ति ।
एवं विस्तीर्णायां वसती तावद् विधिरुक्तः, अथ सङ्कीर्णायां विधिमभिधित्सुराह[भा.४४०५] सम-विसमा थेराणं, आवलिया तत्थ अप्पणो इच्छा।
खेल पवाय निवाए, पाहुणए जं विहिग्गहणं ।। वृ-सङ्कीर्णायां वसती सर्वत्रापि संस्तारणीयम्, न पुनर्विषम इति कृत्वा कश्चिदप्यवकाशः शून्यो मोक्तव्यः । ततः 'आवलिकया' पङ्क्त्या यथारलाधिकं विभज्यमाना संस्तारकभूमि 'स्थविराणां वृद्धानां समा वा समागच्छेद विषमा वा । 'तत्र' विषमाया तेषामात्मीया इच्छा, कोऽर्थः ? यदि सहिष्णुतया विषमेऽपि संस्तारयितुं शक्नुवन्ति ततस्तत्रैव संस्तारयन्ति, अथासहिष्णवस्ततस्तरुणान् समां भूमिमनुज्ञापयन्ति । “खेल"ति यस्य केलः स्पन्दते तस्य मध्येऽवकाशः समायातः, ततस्तेन विविक्तेऽवकाशे यस्य संस्तारकः सोऽनुज्ञापनीयः । यः पित्तलः स प्रवाते स्थातुमभिलषति, यस्तु वातलः सनिवाते, एतयोः परस्परं संस्तारकपरावर्तो भवति । 'प्राधुणकः' आचार्यादि समागतस्तस्यापि यद् विधिना वक्ष्यमाणेन संस्तारकग्रहणं तदनुज्ञातमिति पुरातनगाथासमासार्थः।।
अथैनामेव बिभावयिषुराह{भा.४४०६] विसमो मे संथारो, गाढं पासा मि एस्थ भजंति ।
को देज मज्झ ठाणं, समं ति तरुणा सयं बेति॥ . दृ-संस्तारकभूमि स्थविराणां विषमा तरुणानां समा समायाता, ततो यः स्थविरोऽसहिष्णुः सब्रूयात्-विषमः 'मे' मदीयः संस्तारकः, पाश्र्वाणिच 'अत्र' विषमे शयानस्य गाढं मम भज्यन्ते, अतः को नाम मह्यं समं स्थानं दद्यात् ? इति । ततो ये तरुणास्ते स्वयमेव गुरुभिरनुक्ता ब्रुक्तेअस्माकमवकाशे यूयं संस्तारयतेति॥ [भा.४०७] जइ पुन अत्थिजंता, न देंति ठाणं बला न दावेंति ।
देति तहि पुंछणादी, बहिभावाऽसंखडंमा वा ।। वृ- यदि पुनस्तरुणाः समं भूमागमर्यमाना अपि न प्रयच्छन्ति ततो वृषभाः सूरयो वा न तैर्बलाद् दापयन्ति, मा बलाद् दाप्यमानास्ते बहिर्भावं गच्छेयुः असझाडं वा कुर्युः । स्थविराश्च 'तत्र' विषमेऽवकाशे पादप्रोञ्छनादिकं ददति येन सुखेनैव संस्तारयितुं शक्यते ॥ .
खेलद्वारमाह[भा.४०८]मज्झम्मि ठाओ मम एस जातो, पासंदए निच्च ममं च खेलो ।
ठाओ सरावस्स य नत्थि एत्थं, सिंचिज्ज खेलेण य मा हु सुत्ते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org