________________
४९४
बृहत्कल्प-छेदसूत्रम् -२-३/९६ वृ-श्लेष्मलो ब्रूयात्-मम तावदेषः स्थायः' अवकाशो मध्ये सातः, मम च खेलः' श्लेष्मा नित्यंप्रस्पन्दते, अत्रचोभयतोऽपिपार्श्ववर्तिसंस्तारकाकीर्णे'शरावस्य' खेलमल्लकस्यन्त्यवकाशः, अत्रच संस्तारयन्नहं प्रत्यासन्नसुप्तान् शेषसाधूनपि मा श्लेष्मणा सिञ्चेयमिति। ततो तस्य विविक्ते प्रदेशे संस्तारकः स तस्यात्मीयमवकाशं प्रयच्छति ।।
प्रवातनिवातद्वारमाह[मा..०९] निईन विंदामिह उव्वरेणं, को मे पवायम्मिदएज भूमिं ।
सीएण वाएण य मन्झ बाहिं, न पचए अनमहऽन्न आह॥ वृ-पित्तलो ब्रूयात्-अहम् ‘इह' निवाते संस्तारयन् 'उद्वरेण' धर्मोपतापेन निद्रां न विन्दामि' न लभे, अतः को नाम मे प्रवाते भूमिकां दद्यात् ?; अथ' अनन्तरम् 'अन्यः' वातलः सः 'आह' ब्रूयात्-शीतेन वातेन च पीड्यमानस्य मम बहि प्रसुप्तस्यान्नं 'न पच्यते' नी जीर्यते; तत एती परस्परं संस्तारकं परिवर्तयतः ।। इह सङ्गगाथायां खेल-प्रवात-निवातग्रहणमुपलक्षणं तेनदमभिधीयते[भा.४१०] जोइंति पक्कंन उ पक्कलेणं, ठावेति तं सूरहगस्स पासे।
एकम्मिखंभम्मिन मत्तहत्थी, बज्झंति वग्घा नयपंजरे दो। - यः 'पक्वः' असडिकः कलहनशील इत्यर्थः तं पक्केन सह न योजयन्ति, किन्तु यः 'शूरहकः' कलहादिकुर्वतां शिक्षा कर्तु समर्थस्तस्य पार्वे तं स्थापयन्ति । यत एकस्मिन्नालान स्तम्भे द्वौ मत्तहस्तिनौ न बध्येते, परस्परं भण्डनसम्भवात्; एवमेकस्मन् पञ्चरे द्वौ व्याघ्रौ न प्रक्षिप्येते॥
अथ “पाहुणए जं विहिग्गहणं" ति पदं व्याख्यातुमाह[भा..११] रायणिओ आयरिओ, आयरियस्सेव अक्कमइ ठागं ।
इतरो वसमठ्ठाए, ठायइ जेते व दो ठागा। - यदि प्राधूर्णक आचार्य रलाधिकस्ततोऽसावाचार्यस्यैव ‘स्थानम्’ अवकाशमाक्रामति, वास्तव्याचार्यस्थाने संस्तारयतीत्यर्थः ।
'इतरः' वास्तव्याचार्य 'वृषभस्य' उपाध्यायस्य 'स्थाने' अवकाशे 'तिछति' संस्तारयति; अथवा यद् आचार्यसत्कं संस्तारकत्रयं तन्मध्यादेकस्मिन् प्राधुणकाचार्य प्रसुप्तः, “जे ते वदो ठाग"त्ति ततो यौ तौ द्वावशिष्यमाण संस्तारको तयोरेकस्मिन् वास्तव्याचार्य संस्तारयति ।। [मा.४१२] ओमो पुन आयरिओ, वसभोगासे अनंतरे वसभो।
संछोभपरंपरओ, चरिमं सेहं च मोत्तूणं ।। -अथासौ प्राघुणक आचार्य 'अवमः' पर्यायलघुस्ततोऽसौ वृषभस्यावकाशे संस्तारयति । वृषभस्तु तदनन्तरे-अवमरालिकस्थाने स्वपिति। एवंसंस्तारकाणां संछोभपरम्परकः' परम्परया स्थानान्तरसक्रमणरूपः तावद् मन्तव्यो यावद् द्विचरमः साधुः । यस्तु चरमः-सर्वपाश्चात्यावकाशशायी तं शैक्षं च मुक्त्वा, तयोः संस्तारको नान्यत्र सङ्कामयितव्य इति भावः ।।
इदमेवव्याचष्टे[भा.४१३] चरिमो बहिं न कीरइ, सेहं न सहायगा विजुयलेंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org