________________
४९२
बृहत्कल्प-छेदसूत्रम् -२-३/९६ तेन परं विच्छिन्ने, परियाए मोत्तिमे तिन्नि ।। वृ-प्रथमतो गुरूणां संस्तारकत्रयं दत्त्वा ततो यो ज्ञानाद्यर्थमुपसम्पदंप्रतिपन्नस्तस्य संस्तारको दातव्यः । ततो ग्लानस्य, ततः परीत्तोपधेः, ततः क्षपकस्य, ततो 'अपावृतिकस्य' 'अपावृतेन मया सकलाऽपिरजनी गमनीया' इत्येवं प्रतिपन्नाभिग्रहस्य, तदनन्तरं स्थविरस्य' श्रुतेन वयसा वा वृद्धस्य, ततः परं विस्तीर्णे प्रतिश्रय पर्यायरत्नाधिकक्रमेण संस्तारका ग्रहीतव्याः, परं मुक्त्वा 'अमून त्रीन् क्षुल्लक-शैक्ष-वैयावृत्यकरान् वक्ष्यमाणगाथायामभिधास्यमानान् ॥
आह उपसम्पन्न-ग्लानादीनां क्रियतां प्रथमं संस्तारकप्रदानेनानुग्रहः, यस्तु तपस्वी विपुलां निर्जरामभिलषन् स्वयमेव 'अपावृतेन मया स्थातव्यम्' इत्येवमभिग्रहं गृह्णाति तस्य किमर्थं स्थविरादिभ्यः प्रथमं संस्तारको दीयते ? उच्यते[भा.४००] कामं सकामकियो, अभिग्गहो न उ बलाभिओगेणं ।
तनुसाहारणहेतुं, तह वि निवाएण्हि ठावेंति ॥ वृ- 'कामम्' अनुमतमिदम्-स्वकामेन-स्वकीययैव इच्छया कृत्यः कर्तव्यो अभिग्रहो न तु बलाभियोगेन, परंतथापि 'तनुसाधारणहेतोः' शरीरस्य शीतोपद्रवसंरक्षणनिमित्तं निवाते प्रदेशे तंस्थापयन्ति।
कुतः? इति चेद् इत्याह[भा.४४०१] अन्नोन्नकारेण विनिजरा जा, न सा भवे तस्स विवजयेणं ।
हा तवस्सी धुणते तवेणं, कम्मं तहा जाण तवोऽनुमंता ।। -अन्योन्यकारो नाम-परस्परं वैयावृत्यकरणं तेन या 'विनिर्जरा' विशिष्टकर्मक्षयरूपा सा 'तस्य' अन्योन्यकारस्य 'विपर्ययेण' व्यतिरेकेण न भवति । यथा किल तपस्वी तपसा 'कम ज्ञानावरणादि धुनोति तथा यस्तस्य साहाय्यकरणेन तदीयतपसो अनुमन्ता तमपि तथैव कर्मक्षयकारिणं जानीहि । अकतो युक्तमेवापावृताभिग्रहिकस्यानुग्रहविधानम् ॥
अथ यदुक्तम्-'अमून् त्रीन् मुक्त्वा इति तस्य व्याख्यानार्थमाह[भा.४४०२] बीभेत एव खुड़े, वेयावच्चकरे सेहे जस्स पासम्मि।
विसमऽप्पे तिन्नि गुरुणो, इतरे गहियम्मि गिण्हंति॥ वृक्षुल्लकः स्वभावादेव बिभ्यन् भवति, ततो बहि स्थाप्यमानः कूजित-रुदितादि कुर्यात्, अतो यस्तं परिवर्तयति तस्य समीपे स्थाप्यते। 'वैयावृत्यकरः' ग्लानस्य प्रतिचरकः सग्लानस्वैय पार्वे क्रियते । शैक्षो यस्य पार्वे शिक्षां गृह्णाति तस्यान्तिके स्थापनीयः । तथा विषमे वा अल्पे वा' सङ्कीर्णे प्रतिश्रये त्रीन् संस्तारकान् गुरूणां द्वा ततः 'इतरे' उपसम्पन्नादयो गुरुभिर्गृहीते सति संस्तारकत्रये यथोक्तक्रमेण गृह्णन्ति । एष सङ्ग्रहगाथासमासार्थः॥
अथास्या एव पूर्वार्धं बिभावयिषुराह[भा.४४०३]बीभेज बाहिं ठवितो उखुड्डो, तेनाइगम्मो य अजग्गिरो य ।
सारेइजो तं उभयं च नेई, तस्सेव पासम्मि करेंति तंतू॥ वृक्षुल्लको बहि स्थापितः सन् बिभियात्, स्तेनादिगम्यो वा भवेत्, 'अजागरणशीलश्च' असौ बहि सुप्तः सरन् केनाप्यनुत्थापितः प्रतिक्रमणवेलायामपिनजागृयात्, ततो यः 'त' क्षुल्लकं सारयति'
www.jainelibrary.org
Jain Education International
Fo
For Private & Personal Use Only