SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Page Text
________________ ४८८ बृहत्कल्प-छेदसूत्रम् -२-३/९६ [भा.४३८०] मुत्तनिरोहे चबुं, वञ्चनिरोहेम जीवियं चयइ उद्दनिरोहे कोटुं, गेलन्नं वा भवे तिसुवि ।। कृ-मूत्रस्य निरोधे विधीयमानेचक्षुरुपहन्यते।वर्च-पुरीषं तस्य निरोधेनजीवितं परित्यजति, अचिरादेव मरणं भवतीत्यर्थः । ऊर्ध्व-वमनंतस्यन निरोधे कुष्ठं भवति । 'ग्लान्यं वा सामान्यतो मान्धं त्रिष्वपि' मूत्र-पुरीष-वमनेषु निरुध्यमानेषु भवेत्।। यत एते दोषा अतः[भा.४३८१] पढम-बिइयाए तम्हा, गमनं पडिलेहणा पवेसो य । पुव्वठियाऽसइ गच्छं, ठवेत्तु बाहिं इमे तिनि ॥ कृतस्मात्प्रथमायां द्वितीयस्यां वा पौरुष्यां विवक्षितग्रामे गमनं कृत्वाततो वसतेः प्रत्युपेक्षणा प्रवेशश्च तस्यां कर्तव्यः । कथम् ? इत्याह-यदि तत्र केऽपि साधवः पूर्वस्थिताः सन्ति तदा सर्वेऽपि प्रविशन्ति । अथ न सन्ति पूर्वस्थिताः ततो गच्छं कचिद् वृक्षादेरधो बहि स्थापयित्वा 'इमे' ईशास्त्रयः साधवो ग्रामं प्रविशन्ति । [भा.४३८२] परिणयवय गीयत्था, हयसंका पुंछ चिलिमिली दोरे । तिनि दुवे एक्को वा, वसहीपेहट्ठया पविसे ॥ कृये गीतार्था परिणतवयसोअतएव 'हतशकाः' अशङ्खनीयाः तेगुरुमापृच्छय दण्डप्रोञ्छनकं चिलिमिलीं दवरकांश्च गृहीत्वा त्रयोजनास्तदभावे द्वौ जनौ तदप्राप्तावेको वा वसतिप्रत्युपेक्षणार्थं ग्रामं प्रविशन्ति । ततो वसतिं गृहीत्वा प्रमृज्य च चिलिमिलिकां च दत्त्वा सबालवृद्धमपि गच्छं तत्र प्रवेशयन्ति॥ अथ 'विकालवेलायां न प्रवेष्टव्यम्' इति यदुक्तं तदपवदन्नाह[भा.४३८३] बिइयं ताहे पत्ता, पए व पत्ता उवस्मयं न लभे । सुन्नघर देउले वा, उज्जाने वा अपरिभोगे ।। वृ-द्वितीयपदमत्राभिधीयते-'तदानीं विकालवेलायामेव प्राप्ताः, यद्वा 'प्रगे' प्रभाते प्राप्ताः परमुपाश्रयं न लभन्ते ततो विकालेऽपि प्रविशेयुः । प्रभातप्राप्ताश्च दिवा शून्यगृहे देवकुले वा उद्याने वा 'अपरिभोग्ये' जनोपभोगरहिते तिष्ठन्ति, तत्रैवच समुद्देशनं कुर्वन्ति ।। [भा.४३८४] आवाय चिलिमिणीए, रन्ने वा निब्मये समुद्दिसणं । सभए पच्छन्नाऽसइ, कमढग कुरुया य संतरिया ॥ वृ-अथ शून्यगृहादौ सागारिकाणामापातो भवति ततश्चिलिमिलिकां दत्त्वा समुद्देष्टव्यम् । अरण्यं व यदि निर्भयं ततस्तत्र गत्वा समुद्दिशन्ति । अथारण्यं सभयं ततो वसिमसमीपे एव यः प्रच्छन्नः प्रदेशस्तत्रसमुद्देशनंकर्तव्यम्। अथप्रच्छन्नस्थानं नास्ति ततस्तत्रैवशून्य गृहादौ 'कमठकेषु' शुक्ललेपेन सबाह्याभ्यन्तरंलिप्तेषु कांस्यकरोटकाकारेषुसमुद्दिशन्ति, 'कुरुकुचाच' समुद्देशनानन्तरं पादप्रक्षालनादिका बहुना द्रवेण कर्त्तव्या, समुद्दिशन्तश्च ‘सान्तराः' सावकाशा बृहदन्तराला उपविशन्ति। एवं भुक्त्वा बहिरेवसंज्ञादि व्युत्सृज्य ततो ग्रामं प्रविशन्ति ।प्रविष्टाश्च या पूर्वंभिक्षां हिण्डमानैर्वसति प्रत्युपेक्षिता तस्यां वसन्ति । __कथम् ? इत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy