________________
४८७
उद्देशक : ३, मूलं-९६, [भा. ४३७६] तनिष्पन्नम् ।अथवा सप्रत्यन्तप्रदेशवर्ती ग्रामः ततस्तत्र बद्धस्थानकाः ‘गौल्मिकाः' आरक्षिकपुरुषाः स्तेनादीनमिलीयमानान् रक्षन्ति, ते विकालवेलायां प्राप्तानां 'स्तेना अमी' इति बुध्या ग्रहणाऽऽहननादिकं कुर्युः।
अथवा विकाले प्रविशन्तो गवादिभिपादप्रहारादिकां चमढनामासादयन्ति । एते रात्री प्राप्तानां दोषाः ॥ किश्च[भा.४३७७] फिडियऽनोन्नाऽऽगारण, तेनय रत्तिं दिया व पंथम्मि ।
साणाइवेस कुच्छिय, तवोवनं मूसिगा जंच ।। वृ-विकाले वसतिगवेषणार्थं पृथक् पृथग् गताः, ततः 'स्फिटिताः' परस्परपरिभ्रष्टाः सन्तोऽन्योऽन्यम् आकारणं-व्याहारणं कुर्युः । स्तेनकास्तद्वचनं श्रुत्वा रात्रौ मुषितमभिलषेयुः, दिवा वाद्वितीयेदिवसे पथि' मार्गे गच्छतस्तानस्तेनकामुषेयुः । श्वानादयोवारात्री वसतिगवेषणार्थ पर्यटतस्तान् उपद्रवेयुः । “वेस कुच्छिय"त्ति रात्रौ च वसतमन्वेषयन्तो न जानन्ति किमेतद् गृहं वेश्यापाटकस्य प्रत्यासन्नम्? उतन? इति, यद्वाकिमेतत् चर्मकार-रजकादिजुगुप्सितकुलासन्नम्? आहोश्चिद् न ? इति । एवं चाजानानास्ते वेश्यापाटकासन्ने प्रतिश्रये वसेयुः ततो लोको ब्रूयात्अहो ! तपोवनमध्यासते जितेन्द्रिया अमी महर्षय इति । अथ जुगुप्सितस्थानासन्ने स्थितास्ततो लोको ब्रवीत-स्वस्थानं मूषिकाः समागताः, एतेऽप्येवंजातीया इति भावः । __ “जंच"त्ति यच्च रात्रावन्योऽन्यालपनेऽष्कायानयनादिकमधिकरणंतन्निष्पन्नं प्रायश्चित्तम्। तथा तत्रोपाश्रये रात्री प्राप्ताः सन्तः 'कालभूमी न प्रत्युपेक्षिता' इति कृत्वा यदि स्वाध्यायं न कुर्वन्ति ततः सूत्रा-ऽर्थनाशादयो दोषाः । अथ कुर्वन्ति ततः सामाचारीविराधना ।।
अथ संस्तारकद्वारं व्याख्याति[भा.४३७८] अप्पडिलेहिय कंटा, बिलं व संथारगम्मि आयाए।
छक्कायाण विराधन, विलीण सेहऽनहाभावो । कृ-अप्रत्युपेक्षितायांवसती कण्टका भवेयुः, बिलं वासादिसम्बन्धि, ततः संस्तारकेप्रस्तीर्याणे आत्मनि विराधना भवेत् । पृथिव्यादयो वाषड्कायास्तत्र भवेयुः,तेषां संस्तारकेणाक्रम्यमाणानां विराधना भवति । विलीनं वा जुगुप्सितं सज्ञा-कायिक्यादिकंतत्र भवेत्, ततः शैक्षस्य जुगुप्सया 'अन्यथाभावः' उनिष्क्रमणाभिप्रायो भवेत् ।।
अथोचार-प्रश्रवणद्वारद्वयं युगपदाह[मा.४३७९] खाणुग-कंटग-वाला बिलम्मि जइ वोसिरिज आयाए।
संजमओ छक्काया, गमने पत्ते अइंते य ।। -अप्रत्युपेक्षिते प्रतिश्रये स्थाणु-कण्टक-व्याला भवेयुः, तदाकुले बिलसमाकुले वा प्रदेशे यदि व्युत्सृजति तत आत्मविराधना । अथ पृथिव्यादिषट्कायवति भूभागे व्युत्सृजति ततः संयमविराधना । एते द्वे अपि विराधने “गमने"त्ति संज्ञा-कायिकीव्युत्सर्जनार्थंगच्छतः “पत्ते"त्ति संज्ञाभुवं कायिकीभुवं वा प्राप्तस्य "अइंते अ"त्ति संज्ञां कायिकी वा व्युत्सृज्य भूयोऽपि वसति प्रविशतो यथासम्भवं मन्तव्ये॥ ____ अथ विराधनाभयाद् न व्युत्सृजति तत इमे दोषाः--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org