________________
४८६
बृहत्कल्प-छेदसूत्रम् -२-३/९५ ततश्चभाजनभेदादयो दोषाः । अथ मण्डल्यांरचितायांसागारिकाः समागच्छन्तिततोमहान्तमुड्डाई कुर्युः ।। अमुमेवार्थ सविशेषमाह[भा.४३७२] भत्तट्टण सज्झाए, पडिलेहण रत्तिगेण्हणे जं च ।
पुदण्हम्मि उ गहणे, परिहरिया ते भवे दोसा ।। - "भक्तार्थनं' मण्डल्या भोजनं स्वाध्यायं प्रत्युपेक्षणां वा क्रियमाणां विलोक्य ते उड्डाई उड्डश्चकान् वा कुर्वीरन्, तत्रापि तथैवासाडदोषः । अथ ते सागारिकाः प्रद्विष्टाः सन्तो वसतिं न प्रयच्छन्ति ततोऽपरं ग्रामं गच्छेयुः, तत्र च विकाले प्राप्ताः सन्तो रात्री वसतिग्रहणं कुर्वन्तो यद् दोषजालमापद्यन्ते तन्निष्पन्नं प्रायश्चित्तम्, अतः पूर्वाहे एव वसतेर्ग्रहणं कर्त्तव्यम् । ततश्च 'ते' पूर्वोक्ता दोषाः परिहृता भवन्ति ।। किञ्च[मा.४३७३] कोतूहल आगमनं, संखोहेणं अकंठगमणादी ।
...तेचेवऽसंखडादी, वसहिं च न देतिं जंचऽनं ।। वृ-मण्डल्यां सागारिकाः कौतूहलेनागमनं कुर्युतत्र कस्यापि संयतस्य संक्षोभेण भक्त-पानस्य 'अकण्ठगमनादिकम्' अश्रोतोगमनप्रभृतिकं भवेत् । अथवा कोऽप्यसहिष्णुर्च्यात्-किमेवं प्रलोकयथ?; ततस्तएवासझाडादयो दोषाः । अथ 'सागारिकम्' इति कृत्वा अभुक्ता एव भक्तपानव्यग्रहस्ता ग्रामं प्रविशन्ति तत्र च यैः सममसङ्खडं कृतं ते वसतिं न प्रयच्छेयुः, अन्यानपिच ददतो निवारयेयुः। “जंचऽनं"तिवसतावप्राप्यमाणायां यदन्यदोषजातमापद्यन्ते तन्निष्पन्नम्।
अथ वसत्यभावदकृतभोजना एवान्यं ग्रामं गच्छेयुः तत इमे दोषाः[भा.४३७४] भारेण वेयणाए, न पेहई खाणुमाइए दोसे।
इरियाइ संजमम्मी, परिगलमाणे य छकाया ।। कृ-भक्त-पानस्योपकरणस्य चसम्बन्धिना भारेणवेदना या भवेत्तयाचस्थाणु-कण्टकादीन् दोषान् न प्रेक्षते, ततश्चात्मदिराधना । यत् पुनरीया अशोधनं सा संयमविराधना । परिगलति च भक्त-पाने षट्कायविराधना ।।
तत्रप्राप्तानां दोषानभिधिसुराह-- [भा.४३७५] पविसण मग्गण ठाणे, वेसित्थि दुगंछिए य सुन्ने य।
सज्झाए संथारे, उच्चारे चेव पासवणे ।। दृ-अन्यस्मिन् ग्रामे विकालवेलायां प्रवेशे कृते वसतेर्गिणे परस्परस्फिटितानामाकारणेन महानधिकरणदोषो भवति । वेश्यास्त्रपाटके चर्मकरादिस्थाने वा जुगुप्सिते तिष्ठतां वक्ष्यमाणं दोषजातं 'शून्यगृहादौ च' अप्रत्युपेक्षितायां वसती स्वाध्यायं संस्तारकमुच्चारं प्रश्रवणं च कुर्वतामकुर्वतां च बहवो दोषा भवन्तीति द्वारगाथासमासार्थः॥
अथैनामेव विवृणोति[भा.४३७६] सावय तेना दुविहा, विराधना जा य उवहिणा उ विना ।
. गुम्मिय गहणा-ऽऽहणणा, गोणादी चमढणा रत्तिं॥ कृ-विकाले प्रविशतांश्वापदभयं भवति । 'स्तेना द्विविधाः' शरीरापहारिण उपकरणापहरिणश्च, ते तदानीमभिद्रवन्ति । उपघातपहृते या तेन विना तृणग्रहणा-ऽग्निसेवनादिका संयमविराधना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org