________________
४८९
उद्देशकः ३, मूलं-९६, [भा. ४३८५] [भा.४३८५] कोट्ठग सभा व पुव्वं, काल-वियाराइभूमिपडिलेहा।
पच्छा अतिति रत्तिं, अहवण पत्ता निसिं चेव ॥ वृ-'कोष्ठकः' आवासविशेषः 'सभा' प्रतीता, एवमादिकं यत् पूर्व भिक्षांपर्यटभिप्रत्युपेक्षितं तत्र कालग्रहणयोग्यां भूमिं विचारस्य च-संज्ञाया आदिशब्दात् कायिक्याश्च भूमि सूर्येध्रियमाण एव प्रत्युपेक्षन्ते । ततः पश्चात् सर्वेऽपि वसतौ 'रात्रौ' प्रदोषसमये 'अतियन्ति' प्रविशन्ति । "अहवण"ति अथवा ते साधवस्तत्र निशायामेव प्राप्ता भवेयुः॥
ततः को विधिः? इत्याह[भा.४३८६]गोम्मिय भेसण समणा, निब्भय बहि ठाण वसहिपडिलेहा ।
सुन्नघर पुव्वभणिए, कंचग तह दारुदंडे य॥ वृ-गुल्मेन-समुदायेन चरन्तीति 'गौल्मिकाः' स्थानरक्षपालाः ते यदि 'भेषणं' वित्रासनं कुर्वन्ति ततो वक्तव्यम्-श्रमणा वयं न स्तेनाः । यदि च स सन्निवेशो निर्भयो भवति तदा "बहि ठाण"ति बहिरेव गच्छस्तावदवस्थानं करोति, वृषभास्तु वसतिप्रत्युपेक्षणार्थं ग्रामं प्रविशन्ति । तत्र च शून्यगृहं पूर्वभणितेन विधिना प्रत्युपेक्ष्य सर्पादिपतनभयाद् गोपालकञ्चुकंपरिधाय 'दारुदण्डेन' दण्डप्रोञ्छनकेन वसतिमुपरि प्रस्फोटयन्ति, ततो गच्छः प्रविशति॥
अथ संस्तारकग्रहणविधिमाह[भा.४३८७] संथारगभूमितिगं, आयरिए सेसगाण एक्कक्कं ।
रुंदाए पुष्फकिन्ना, मंडलिया आवली इतरे। वृ- "आयरिए"त्ति षष्ठी-सप्तम्योरर्थं प्रत्यभेदादाचार्यस्य योग्य संस्तारकभूमित्रयं प्रथमतो निरूपणीयम्-तत्रैका निवाता संस्तारकभूमि, अपरा प्रवाता, अन्या निवात-प्रवाता । शेषाणां साधूनां योग्यामेकैकां संस्तारभूमिमन्वेषयेत् । इहचवसतिस्त्रिधा-विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता च। तत्र रुन्दा नाम-विस्तीर्णा घनशालादिरित्यर्थः तस्यां 'पुष्पावकीर्णा पुष्पप्रकरवदवकीर्णाअनियतक्रमा अयथायथं स्वपन्ति येन सागारिकाणामवकाशो न भवति । अथ क्षुल्लिका ततो मध्ये पात्रकाणि कृत्वा मण्डलिकाकारेण पार्श्वतः शेरते । ‘इतरा नाम' प्रमाणयुक्ता तस्याम् 'आवल्या' पङ्क्त्या स्वपन्ति ।।
अत्रैव विधिविपर्यासे प्रायश्चित्तमाह[भा.४३८८] सीसं इतो य पादा, इहं च मे वेंटिया इहं मज्झं।
जइ अगहियसंथारो, भणाइ लहुगोऽहिकरणादी ।। वृ-इतो मे शीर्ष भविष्यति, इह मे पादौ भविष्यतः, इहच मे वेण्टिकाभाजनानि वा स्थास्यन्ति, एवं यद्यगृहीतसंस्तारको आत्मीयया इच्छया भणति विण्टिकादिकं च स्थापयति तदा लधुमासः प्रायश्चित्तम् अधिकरणादयश्च दोषा भवन्ति । अधिकरणंनाम-द्वितीयोऽपि साधुरेवमेव ब्रूयात्ममाप्यत्रैव शीर्षादि भविष्यतीति; ततश्चास्थिभङ्गादयो दोषाः ।।
यत एवमतः[भा.४३८९] संधारग्गहणीए. वेंटियउक्खेवणं तु कायव्वं ।
संथारो घेत्तब्बो, माया-मयविप्पमुक्केणं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org