________________
४८२
. बृहत्कल्प-छेदसूत्रम् -२-३/९५ अथवा अभिनवग्रहणमिदमनेकविधम्[भा.४३५५] जायण निमंतणुवस्सय, परियावनं परिडविय नहुँ।
पम्हट्ट पडिय गहियं, अभिनवगहणं अनेगविहं ॥ इ-याच्या-अवभाषणम्, निमन्त्रणा-गृहस्थानामभ्यर्थना, तत्पुरस्सरं यद् वस्त्रादेर्ग्रहणम्, यचोपाश्रये ‘पर्यापन्नस्य' पथिकादिभिर्विस्मृत्यापरित्यक्तस्य वस्त्रादेग्रहणम्, यच्च परिष्ठापितस्य भूयः कारणे ग्रहणम्, एवं 'नष्ट' हारितं “पम्हुटुं" विस्मृतं 'पतितं' हस्तात् परिभ्रष्टं 'गृहीतं' प्रत्यनीकेन बलादाच्छिद्य स्वीकृतम्। एतेषां पुनर्लब्धानां यद् ग्रहणमेवमादिकमनेकविधमभिनवग्रहणं मन्तव्यम् ॥
अथ याच्या निमन्त्रणाग्रहणयोर्विधिमतिदिशन्नाह[भा.४३५६] जो चेव गभो हेट्ठा, उस्सग्गाई वनिओ गहणे।
दुविहोवहिम्मि सो छिय, कास त्तिय किं ति कीस त्ति ।। पृ-य एव ‘गमः' प्रकारः ‘अधस्तात्' पीठीकायाम् उत्सर्गादिको वस्त्रग्रहणविषयो वर्णितः स एवात्र ‘द्विविधोपधेः' ओधिकौपग्रहिकलक्षणस्य ग्रहणे 'कस्य सत्कमेतद् वस्त्र-पात्रादिकं पूर्वमासीद् ? भविष्यति वा? कस्माद्वा प्रयच्छसि?' इति पृच्छात्रयपरिशुद्धो द्रष्टव्यः । उपाश्रयपर्यायपन्नवस्त्रादिग्रहणविषयस्तु विधिरिहैवोद्देशके पुरस्तादभिधास्यते । परिष्ठापितादेस्तु यथा कारणतो भूयोऽपि ग्रहणं क्रियते तथा व्यवहाराध्ययने मणिष्यते॥
गतमभिनवग्रहणम् । अथ पुराणग्रहणम्, तच द्विधा-उपस्थापनाग्रहणंउपस्थापितग्रहणंच । तत्राचं तावदाह[भा.४३५८] कोप्परपट्टगगहणं, वामकराणामियाए मुहपोत्ती।
रयहरण हत्यिदंतु एहि हत्येहवुवाणं ।। -कूपराभ्यां चोलपट्टकस्य ग्रहणं कृत्वा वामकरसत्कयाऽनामिकया मुखपोतिकां गृहीत्वा रजोहरणं हस्तिदन्तोन्नताभ्यांहस्ताभ्यामादायोपस्थापनकर्तव्यम्, शैक्षस्य व्रतस्थापना विधेयेत्यर्थः॥
अथोपस्थापितग्रहणमाह[मा.४३५८] उवठावियस्स गहणं, अहभावे चेव तह य परिभोगे।
एकेकं पायादी, नेयव्वं आनुपुब्बीए॥ --उपस्थापितस्य यद्उपकरणग्रहणंतद्विधा-यथाभावः परिभोगश्च । अनेन च द्विविधेनापि ग्रहणेनैकैकं पात्रादिकम् 'आनुपूर्त्या परिपाट्या नेत्वयं' ग्रहीतव्य ।।
इदमेव भावयति[भा.४३५९] पडिसामियं तु अच्छइ, पायाईएस होतऽहाभावे।
सहव्व पाण भिक्खा निल्लेवण पाय परिभोगो॥ यत् पात्रादिकं 'प्रतिस्वामितं' विवक्षितसाधुलक्षणेन स्वामिना प्रतिगृहीतं सद् आस्ते न तदानीं परिभुज्यतेएष यथाभावो भवति, स्वपरिग्रहेधारणमित्यर्थः । परिभोगोनाम यत् पात्रादि यस्यां वेलायां परिभुज्यते तत्र सत्-शोभनमाचार्यादिप्रायोग्यं यद् द्रव्यं यद्यपानकं मैक्षं चात्मनो योग्यतत्पात्रे गृह्यतेनिर्लेपनंच-आचमनंच तेन विधीयतेएष पात्रस्य परिभोगः ।इह च पात्रशब्देन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org