________________
उद्देशक : ३, मूलं ९५, [भा. ४३५० ]
अबलाओ पगइभ्यालुगाउ रक्खा अतो इत्थी ।
बृ- 'अन्यस्यापि ' पुरुषादेः 'सन्देहम्' आपदं दृष्ट्वा याः स्त्रयः पवनसम्पर्कतो लता इव कम्पन्ते, याश्चाबलाः प्रकृत्या स्वभावेनैव च “भयालुयाउ” त्ति भयबहुलाः, अतस्ताः स्त्रयः प्रथमं रक्षणीयाः ॥ आह- साधु-साध्वीनां निस्तारणे किमेष एवाचार्य-प्रवर्त्तिन्यादिकः क्रमः ? उतान्यथाऽप्यस्ति ? उच्यते-अस्तीति ब्रूमः । तथा चाह
[ भा. ४३५१] जंपुन संभावेमो, भाविणमहियममुकातो वत्थूओ । तत्थुक्कमं पि कुणिमो, छेओदइए वणियभूया ॥
वृ- 'यं पुनः क्षुल्लकादिकमपि 'अमुकाद्' आचायदिर्वस्तुनः सकाशात् प्रवचनप्रभावनादि-' भिर्गुणै: 'अधिकं' सातिशयं 'भाविनं' भविष्यन्तं सम्भावयामः तत्र वयम् 'उत्क्रममपि' यथोक्तक्रमोलमपि कुर्महे, क्षुल्लकादिकमपि प्रथमं तारयाम इत्यर्थः । कथम्भूताः ? इत्याहछेदश्च व्यय औदयिकश्च लाभः छेदौदयिकं तत्र वणिग्भूताः सन्तः । किमुक्तं भवति ? - यथावणिग् यदेव प्रभूतलाभमल्पव्ययं वस्तु तस्य ग्रहणं करोति, एवं वयमपि यत्र विशिष्टपात्रभूते वस्तुनि गृहीते प्रवचनप्रभावना तीर्थाव्यवच्छेदादिको भूयान् लाभः समुज्ज्रम्भते स्वल्पश्चेतरपरित्यागलक्षणो व्ययः तं क्षुल्लकादिकमपि गृह्णीम इति ॥
एवं तावदुदकविषयं ग्रहणमभिहितम्, अथाग्नि- स्तेनादिविषयं तदेवातिदिशन्नाह[ भा. ४३५२] अगनी सरीरतेने, ओमऽद्धाणे गिलाणमसिवे य ।
४८१
सावयभय राभए, जहेव आउम्मि गहणं तु ।।
वृ- अग्निसम्भ्रमे शरीरस्तेनभये अवमे अध्वनि ग्लानत्वे अशिवे श्वापदभये राजभये च यथैवापकाये ग्रहणमभिहितं तथैवैतेष्वपि सचित्त-मिश्रभेदाद् द्विविधमपि वक्तव्यम् ॥
अथाचित्तग्रहणमभिधित्सुराह
[मा. ४३५३] अच्चित्तस्स उ गहणं, अभिनवगहणं पुराणगहणं च । उवठावणाए गहणं, तह य उवठ्ठाविए गहणं ॥
बृ- अचित्त-वस्त्र-पात्रादिकमुपकरणं तस्य ग्रहणं द्विधा अभिनवग्रहणं पुराणग्रहणं च । तत्राभिनवं प्रथममेव यद् वस्त्रादेर्ग्रहणं तदभिनवग्रहणम्, पुराणस्य प्राग्गृहीतस्य चोलपट्टकादेः कूर्परादिना ग्रहणं पुराणग्रहणम् । तच द्विधा - उपस्थापनायां ग्रहणम् उपस्थापिते ग्रहणं च । तत्रोपस्थापनायां विधीयमानायां हस्तिदन्तोन्नवकारहस्तादिभिर्यद् रजोहरणादि गृह्यते तद् उपस्थापनाग्रहणम् । उपस्थापितस्य-छेदपस्थापनीयचारित्रं प्रापितस्य यद् उपधेर्धारणं परिभोगो वा तद् उफस्थापितग्रहणम् ।।
एनामेव गाथां व्याख्यानयति
[ मा. ४३५४ ] ओहे उवग्गहम्मिय, अभिनवगहणं तु होइ अचित्ते । इयरस्स वि होइ दुहा, गहणं तु पुराणउवहिस्स ||
वृ- अचित्तस्य वस्त्र - पात्रादेरभिनवग्रहणं द्विधा - ओघोपधिविषयम् औपग्रहिकोपधिविषयं च | 'इतरस्यापि ' पुराणोपधेर्ग्रहणं द्विधा, उपस्थापनाग्रहणमुपस्थापितग्रहणं चेत्यर्थः ॥
19 31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org