________________
४८०
बृहत्कल्प-छेदसूत्रम् -२-३/९५ अथ यदुक्तम् ‘बाल-वृद्धादयो लोकेऽप्यनुकम्पनीयाः' तितत्परिहारायलौकिकमेव दृष्टान्तमाह[भा.४३४६] दुग्धासे खीरवती, गावी पुस्सइ कुडुंबभरणट्ठा।
मोतु फलदं च रुक्खं, को मंदफला-ऽफले पोसे ॥ वृ-दुग्रसिं-दुर्भिक्षंतत्र यथा 'क्षीरवती' भूग्निमतुप्रत्ययविधानाद्बहुक्षीरा गौः कुटुम्बभरणार्थ 'पोष्यते' चारीप्रदानादिना पुष्टि नीयते, एवमस्माकमपि य आचार्यादिस्तरुणादिगुणोपेततयाऽऽत्मनः परेषां चोपग्रहं कर्तुसमर्थस निस्तार्यते।तनिस्तारणे हि बहूनां बाल-वृद्धादीनामपि तदाश्रितानामनुकम्पा कृता भवति । अथ तं परित्यज्य क्षुल्लक-स्थविरादिस्तस्या आपदस्तार्यते ततो बहवो बालादयस्तदाश्रिताः परित्यक्ता भवन्ति । अपि च-'फलदं' प्रभूतफलदायिनं वृक्षं मुक्त्वा को नाम मन्दफलान् अफलान् वा वृक्षान् 'पुष्णीयात्' सारणीसलिलसेचनादिना पुष्टिं प्रापयेत् ? न कोऽपीत्यर्थः । उपनययोजना प्राग्वद् द्रष्टव्या ।।
उक्तं सचित्तग्रहणम् । अथ मिश्रग्रहणमाह[भा.४३४७] एमेव मीसए वी, नेयव्वं होइ आनुपुव्वीए।
वोच्चत्ये चउगुरुगा, तत्थ वि आणाइणो दोसा ।। वृ-एवमेव मिश्रविषयमपि ग्रहणम् 'आनुपूर्व्या' आचार्य-प्रवर्त्तिन्यादिपरिपाट्या ज्ञातव्यं भवति । अथ यथोक्तक्रममुल्लक्ष्य विपर्यासेन पुरुषाणांस्त्रीणांवाग्रहणं करोति ततश्चतुर्गुरुकाः। तत्रापि चाज्ञादयो दोषा भवन्ति॥
अथ मिश्रग्रहणं कीशंप्रतिपत्तव्यम् ? इति उच्यते[भा.४३४८]मीसगगहणं तत्थ उ, विनिवाओ जो सभंड-मत्ताणं। .
अहवा वि मीसयं खलु, उभओपक्खऽचओ घोरो॥ इह यः सभाण्डमात्राणां पान-मात्रकाधुपकरणसहितानांसाधूनांसाध्वीनांवा विनिपातः' उदकवाहके निमज्जनं 'तत्र' तद्विषयं यद्ग्रहणं तद् मिश्रग्रहणमुच्यते । अथवा यद् उभयोरपिसाधु-साध्वीलक्षणयोः पक्षयोः 'घोरः' रौद्रो युगपदुदकवाहकेनापहरणलक्षणः 'अत्ययः' प्रत्यपायस्ततो यद् ग्रहणं तद् मिश्रग्रहणमिति मन्तव्यम् ।।
अथामुमेव द्वितीयव्याख्यानपक्षमङ्गीकृत्य निस्तारणविधिमाह[भा.४३४९] सब्बत्थ वि आयरिओ, आयरियाओ पवत्तिनी होइ।
तो अभिसेगप्पत्तो, सेसेसु तु इस्थिया पढमं ॥ -द्वयोरपि पक्षयोरुदकेन हियमाणयोर्यद्यस्ति शक्तिस्ततो युगपद् निस्तारणं कार्यम् । अथ नास्ति युगपद् निस्तारणसामर्थ्य ततः सर्वत्रापि प्रथममाचार्यों निस्तारणीयः । आचार्यानन्तरं प्रवर्तिनी तारयितव्या भवति । ततः' प्रवर्त्तिन्या अनन्तरमभिषेकपदप्राप्तः । ततः शेषेषु तु' भिक्षुप्रभृतिषु पदेषु प्रथमं स्त्री निस्तारयितव्या, ततः पुरुषः । तथाहि-भिक्षु-भिक्षुण्योर्मध्ये प्रथम भिक्षुणी ततो भिक्षुस्तारणीयः, क्षुल्लक-क्षुल्लिकयोर्मध्ये प्रथमं क्षुल्लिका ततः क्षुल्लकः, स्थविरस्थविरयोः प्रथम स्थविरा ततः स्थविर इति॥
अथ किमर्थमेषु प्रथमं स्त्र निस्तार्यते? इत्याह[भा.४३५०] अनस्स वि संदेहं, दटुं कंपंति जा लयाओ वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org