________________
४७८
बृहत्कल्प-छेदसूत्रम् -२-३/९५
अथ यदुक्तम्-‘एकैकं पञ्चविधं ग्रहणं भवति तत्र पुरुषविषयं तावदाह[भा.४३३६] आयरिए अभिसेगे, भिक्खू खुढे तहेव थेरे य ।
गहणं तेसिं इणमो, संजोगगमंतु वोच्छामि ।। - आचार्य गच्छाधिपति अभिषेकः सूत्रा-ऽर्थ-तदुभयोपेत आचार्यपदस्थापनाह 'भिक्षुः' प्रतीतः 'क्षुल्लकः' बालः स्थविरः' वृद्धः, एतेषांपञ्चानामपि ग्रहणम् इदम्' अनन्तरमेव वक्ष्यमाणं 'संयोगगमं संयोगतो गमाः-प्रकारा यस्य तत् तथा वक्ष्यामि ।।
प्रतिज्ञातमेव निर्वाहयति[भा.४३३७] सव्वे वितारणिज्जा, संदेहाओ परक्कमे संते।
- एक्सेकं अवणिज्जा, जाव गुरू तत्थिमो भेदो॥ - 'पराक्रमे' शक्ती सत्यां 'सर्वेऽपि' आचार्यादयः ताशात् ‘सन्देहाद्' नध्याधुदकनिमजनलक्षणा तत्तारणीयाः। अथ नास्ति ताशः पराक्रमस्ततः स्थविरवर्णाश्चत्वारस्तारणीयाः, तत्राप्यशक्ती क्षुल्लक स्थविरवस्त्रियः, तत्राप्यसामर्थ्य आचार्या-अभिषेकौ द्वौ, तत्राप्यशक्ती एक एव आचार्यस्तारयितव्यः । __ आह च-“एकेछ" इत्यादि, सर्वान् तारयितुमशक्तौ स्थविरादिक-मेकैकमपनये यावद् 'गुरु' आचार्य ।तत्र चायं वक्ष्यमाणो भेदो भवति ।। [भा.४३३८] तरुणे निष्पन्न परिवारे, सलद्धिए जेय होति अब्भासे ।
अमिसेगम्मि यचउरो, सेसाणं पंचचेव गमा॥ -इह द्वावाचार्यो-एकस्तरुणोऽपरः स्थविरः। यद्यस्तिशक्तिस्ततो द्वावपि तारणीयौ । अथ नास्तिततस्तरुणो निस्तारणीयः । अथ द्वावपितरुणीततोयस्तयोः निष्पन्नः सम्यक्सूत्रार्थकुशलः स तारयितव्यः । अथ द्वावपि निष्पन्नावनिष्पन्नौ वा ततो यः सपरिवारः स तारणीयः । अथ द्वावपि सपरिवारावपरिवारौवा ततो यातत्र 'सलब्धिकः' लब्धिसम्पन्नस्तं तारयेत्। अथ द्वावपि सलब्धिकावलब्धिको वा ततो यः 'अभ्यासे आसन्ने स्थितः स निस्तारणीयः । अत्रायं विशेषसम्प्रदायः-द्वयोरभ्यासस्थितयोर्यस्तरीतुमशक्तः स तारणीयः । एवमेते आचार्यस्य पश्च गमा अभिहिताः । अभिषेकस्तु नियमाद् निष्पन्नो भवति, अन्यथा तत्त्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः। ततस्तस्मिन्नभिषेके निष्पन्ना-ऽनिष्पनगमाभावात् शेषाश्चत्वारोगमाएवमेव वक्तव्याः। शेषाणां' भिक्षु-क्षुल्लक स्थविराणां पञ्चापिगमा भवन्ति, ते चाचार्यवद् वक्तव्याः। नवरं वालस्य निष्पत्रता श्री वज्रस्वामिन इव भावनीया, तरुणता तुप्रथमकुमारत्वे वर्तमानस्थावसातव्या।एवंस्थविरस्यापिजघन्यवृद्धत्वे वर्तमानस्य तरुणता, शेषस्यतु वृद्धतामन्तव्या। त्रयाणामपिचभिक्षुप्रभृतीनांपरिवारोगुरुप्रदत्तोमाता-पितृ-भातृ-भगिनीप्रभृतिप्रव्रजितस्वजनवर्गो वा द्रष्टव्यः॥
अथ स्त्रीविषयं पञ्चविधं ग्रहणमुपदर्शयति[मा.४३३९] पवत्तिनि अभिसेगपत्ता, थेरी तह भिक्खुणी यखुटीय।
गहणं तासिं इणमो, संजोगक(क)मंतु वोच्छामि ॥ वृ-'प्रवर्तिनी' सकलसाध्वीनां नायिका, 'अभिषेकप्राप्ता' प्रवर्तिनीपदयोग्या, 'स्थविरा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org