________________
उद्देशक : ३, मूलं ९५, [भा. ४३३१]
वस्त्राणि यतीनां प्रयच्छत । ततो गुरुभिरसावुच्यते स्वयमेव त्वमभूनि अम्बराणि देहि यस्तवात्र संयतः 'रोचते' वस्त्रदानयोग्यतया रुचिगोचरीभवति । 'इति' अमुना प्रकारेण 'छन्दित - प्रेषितः ' पूर्वं छन्दितः यस्य रोचते तस्मै दातव्यानीत्येवमनुज्ञातच्छन्दः ततः प्रेषितः मुत्कलितः सन् स क्षपकस्तत्रावसरे ऋषीणामम्बराणि प्रयच्छति । इह सर्वत्रापि रकारस्य लकारादेशः 'र- सोर्ल-शौ' इति मागधमाषालक्षणवशात् ॥ ततश्च
[मा. ४३३२] खमएण आनियाणं, दिचंतेगस्स वारणावयणं । गहणं तुमं न याणसि, वंदिय पुच्छा तओ कहणं ॥
वृक्षपकेणानीतानां तेनैव दीयमानानां वस्त्राणम् 'एकस्य' कस्यचिद् लुब्धस्य वारणावचनम्, 'एवममीषां रत्नाधिकानां दीयमानानि मां यावद् न समागमिष्यन्ति' इति बुद्ध्या वस्त्रग्राहकसाधून् 'मा आर्याः ! गृह्णीध्वम्' इत्येवं कोऽपि निवारितवानिति भावः ।
ततः क्षपकः प्राह- किं मदीयानि वस्त्राणि न गृह्यन्ते ? इतरः प्राह-ग्रहणमेव तावत् त्वं न जानीषे । क्षपको ब्रवीत जानामि । इतरो भणति यद्येवं ततः कीध्शम् ? | क्षपक आह-वन्दित्वा विनयेन पृच्छ येनाहं कथयामि । ततस्तेन क्षपको वन्दित्वा पृष्टः सन् कथयितुमारब्धवान् ।। [भा. ४३३३] तिविहं च होइ गहणं, सचित्ताऽचित्त मीसगं चेव । एएसिं नाणत्तं वोच्छामि अहानुपुब्बीए ॥
४७७
वृ-त्रिविधं च भवति ग्रहणम्, तद्यथा - सचित्तग्रहणमचित्तग्रहणं मिश्रग्रहणं चेति । एतेषां त्रयाणामपि नानात्वं यथाऽऽनुपूर्व्या वक्ष्यामि ॥
तत्र सच्चित्तग्रहणं तावदाह
[मा. ४३३४] सच्चित्तं पुन दुविहं, पुरिसाणं चैव तह य इत्थीणं । एक्केकं पि य इत्तो, पंचविहं होइ नायव्वं ॥
वृ- सचित्तग्रहणं पुनर्द्विविधम्, तद्यथा - 'पुरुषाणां च ' आचार्यादीनां 'स्त्रीणां च ' प्रवर्त्तिनी - प्रभृतीनाम् । एकैकमपि 'इतः' मूलभेदापेक्षया 'पञ्चविधं' वक्ष्यमाणनीत्या पञ्चप्रकारं भवति ज्ञातव्यम् ॥
कुतः पुनस्तेषां पुरुषाणां स्त्रीणां वा ग्रहणं क्रियते ? इत्याह
[भा. ४३३५ ] उदगाऽगनि तेनोमे, अद्धाण गिलाण सावय पदुट्टे । तित्थानुसज्जणाए, अइसेसिगमुद्धरे विहिणा ।।
वृ- उदके वाहकेन आचार्यादयो नेतुमारब्धाः, "अगनि" ति महानगरप्रदीपनके वा दाहस्तैषां समुपस्थितः, "तेन" त्ति शरीरस्तेना आचार्यादीन् व्यपरोपयितुमिच्छन्ति, अवमं दुर्भिक्षं तत्र भक्त - पानला भाभावात् प्राणसंशयस्तेषामुपतस्थे, अध्वा नाम-छिन्नापातं महदरण्यं तं प्रपन्नानामपान्तराले बुभुक्षा-परिश्रमादिभिरग्रतो गन्तुमशक्नुवतां जीवितं संशयतुलामधिरुढम्, “गिलाण " त्तिशूल - विष- विशुचिकादिकमागाढग्लानत्वमुदपादि, श्वापदाः सिंह-व्याधादयस्तैरुपद्रोतुमारब्धोः, प्रद्विष्टः प्रद्वेषमापन्नो राजा साधूनां प्राणापहारं कर्तुमभिलषति। एतेष्वागाढकारणेषु 'तीर्थानुषजनायै' तीर्थस्याव्यवच्छेदेनानुवर्त्तनाय योऽतिशानी - विशिष्टपात्रभूतः प्रवचनाधारः पुरुषस्तं 'विधिना' वक्ष्यमाणनीत्या समुद्धरेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org