________________
बृहत्कल्प-छेदसूत्रम् - २-३/९५
देयम् । अथ द्वावपि बहुश्रुतौ ततो यश्चिन्तनिकाकारकस्तस्य दातव्यम् । अथ द्वावपि चिन्तनिकाकारक ततो यस्तत्र जातिस्थविरस्तस्य दातव्यम् । अथ द्वावपि जातिस्थविरौ ततो यस्तपस्वी तस्य दातव्यम् । अथोभावपि तपस्विनौ ततो योऽभाषिकस्तस्मै दातव्यम् । अथ द्वावप्यभाषिकौ भाषिक वा ततो यो लब्धिमान् तस्मै प्रदातव्यम् ।
प्रकारान्तरेण यथारत्नाधिकपरिपाटीमाह
[भा. ४३१८ ] आयरिए य गिलाणे, परित्त पूया पवत्ति धेर गणी । सुत भासा लद्धीए, ओमे परियागरातिनिए ।
वृ- आचार्यस्य पूर्वं विशिष्टानि वस्त्राणि दत्वा ततो ग्लानस्य दातव्यानि । ततः परीत्तोपधेः, ततः पूय” त्ति चूर्ण्यभिप्रायेण 'पूजनार्हस्य' उपाध्यायस्य बृहद्भाष्याभिप्रायेण तु 'पूजनार्हस्य' गुरुसम्बन्धिपितृ-पितृव्यादेः, ततः प्रवर्त्तिनः, तदनन्तरं स्थविरस्य, ततः "गणि” त्ति गणावच्छेदिकस्य, ततः श्रुतसम्पन्नस्य, ततोऽभाषिकस्य, ततो लब्धिमतो यथाक्रमं दातव्यम् । अर्द्धापक्रान्तिचारणिका प्राग्वत् कर्त्तव्या । तदनन्तरं यो यः पर्यायरालिकस्तस्य तस्य प्रथमम्, अवमरानिकस्य तु पश्चाद् यथाक्रमं दातव्यम् ॥
૪૭૪
एवं तावत् सङ्घाटकेनानीतानां विधिरुक्तः । अथ वृन्देनानीतानां यो विधिस्तमभित्सुराह[भा. ४३१९] नेगेहिं आनियाणं, परित्त परियाग खुभिय पिंडेत्ता ।
आवलिया मंडलिया, लुद्धस्स य सम्मता अक्खा ॥
वृ- अनेकैः साधुभिरानीतानां वस्त्राणां परिभाजने विधिरुच्यते- आचार्यादिक्रमेण परीत्तोपधीनां यावद् दत्त्वा ततो ये पर्यायरानिकास्तेषामहिण्डमानानामपि प्रथमतो दातव्यम् । तत्र च यैस्तानि वस्त्राणि समानीतानिं ते 'पिण्डित्वा' सम्भूय 'क्षुभितं' क्षोभं कुर्वीरन्, कलहमिति यावत् । कश्चितु ब्रूयात्-आवलिकया मण्डलिकया वा विभजनं विधीयताम् । “लुद्धस्स य सम्मता अक्ख" त्ति कस्यापि पुनर्लुब्धस्याक्षान् पातयित्वा वस्त्रविभजनमभिमतम् । एष सङ्ग्रहगाथासङ्क्षेपार्थः ॥ साम्प्रतमेनामेव विवरीपुराह
[मा. ४३२०] गेण्हंतु पूया गुरवो जदिडं, सच्चं भणामऽम्ह वि एयदिनं । अणुण्हसंवट्टियऽकक्कसंगा, गिण्हति जं अन्नि न तं सहामो ||
वृ- अहिण्डमानानां वस्त्रषु दीयमानेषु ये वस्त्रणामानेतारस्ते ब्रवीरन्-यद् 'इष्टं' मनोऽनुकूलं वस्त्र गुरवो गृह्णन्ति तत् ते सकलगच्छस्वामितया पूज्या इति कृत्वा गृह्णन्तु, यद् गुरुणामुत्कृष्टं वस्तु दीयते तत् 'सत्यम्' अवितथमिति वयमपि भणामः, न केवलं वचसैव भणामः किन्तु मनसाऽप्यस्माकमेतदिष्टमेव, परमनुष्णेन - भिक्षापरिभ्रमणाभावादुष्णलगनाभावेन संवर्त्तितानिवर्तुलीभूतानि अत एवाकर्कशानि अङ्गानि पाणि-पाद- पृष्ठोदरप्रभृतीनि येषां तेऽनुष्णसंवर्त्तिताककशाङ्गा एवंविधाः सन्तो यद् 'अन्ये' अहिण्डमानाः प्रथमं गृह्णन्ति न तद् वयं सहामहे || आगंतुगमादीनं, जइ दायव्वई तो किणा अम्हे ।
[ भा. ४३२१]
कम्मारभिक्खुयाणं, गाहिज्जामो गइमसग्धं ॥
वृ- आगन्तुकाः- उपसम्पत्तारस्तैषाम् आदिशब्दाद् ग्लानादीनां च यदि दातव्यानि वस्त्राणि ततः " किण' त्ति केन कारणेन वयं 'कर्मकारभिक्षुकाणां' देवद्रोणीवाहकभिक्षुविशेषाणां गतिम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org