________________
४७५
उद्देशक : ३, मूलं-९५, [मा. ४३२१) 'अलाध्या' निन्दनीयां ग्रह्यामहे ? । किभुक्तं भवति ? -'यदि नामास्मदानीतानां वस्त्राणामेते आगन्तुकादयः स्वामिभावं भजन्ते ततः किमेवं वयं देवद्रोणीवाहकभिक्षुकवद् मुधैव वस्त्राद्यानयनकर्म कार्यामहे ?' इति वस्त्राण्यानेतारश्चिन्तयेषुः ।। [भा.४३२२] विरिखमाणे अहवा विरिके, खोभं विदित्ता बहुगाण तत्थ ।
ओमेण कारिति गुरु विरेगं, विमज्झिमो जो व तहिं पडू य॥ दृ-एवं 'विरिच्यमाने' विभज्यमानेऽथवा 'विरिक्ते विभक्ते उपकरणे बहूनामनन्तरोक्तं क्षोभं विदित्वा यस्तत्र ‘अवमः' सर्वेषामपि पर्यायलघुः यो वा विमध्यमोऽपि तत्र वस्त्रविभजने 'पटुः कुशलस्तेन गुरवो विभजनं कारयन्ति ॥
अथ कोऽपि लुब्ध एवमप्यपरितुष्यन् ब्रूयात्-आवलिकया मण्डलिकया वा वस्त्राणि विभज्यन्ताम्; ततः को विधिः? इत्याह[भा.४३२३] आवलियाए जतिटुं, तं दाऊणं गुरुण तो सेसं ।
गेण्हंति कमेणेव उ, उप्परिवाडी न पूति॥ वृ-आवलिका नाम-ऋज्वायतश्रण्या वस्त्राणां व्यवस्थापनम्, तथा समभागीकृत्य वस्त्रेषु स्थापितेषु यद् इष्टं वस्त्रं तद् गुरुणां दत्त्वा शेषाणि यथारत्नाधिकं गृह्णन्ति यावदावलिका निष्ठामुपगच्छति।
उत्परिपाट्या तु ग्रहणं न पूजयन्ति' न प्रशंसन्ति, तीर्थकरादय इति गम्यते ॥ [भा.४३२४] मंडलियाए विसेसो, गुरुगहिते सेसगा जहावुहूं ।
भाए समे करेत्ता, गेण्हंति अनंतर उभओ। वृ-मण्डलिकायामप्येवमेव, नवरं तस्यां विशेषोऽयमुपदयते-पूर्वं गुरुभिर्गृहीते ततः शेषाः 'यथावृद्धं' योयः पर्यायवृद्धस्तदनतिक्रमेण समान् भागान् कृत्वा उभयोरपि' आधन्तलक्षणयोः पार्श्वयोः 'अनन्तरम्' अव्यवहितं वस्त्राणि गृह्णन्ति।
इयमत्र भावना-मण्डलिकया वस्त्रेषु स्थापितेषु प्रथममाचार्येण गृहीते ततो यः शेषाणां मध्ये रलाधिकः स मण्डलिकया धुरि स्थापितंवस्त्रंगृह्णाति, अवमरालिकस्तुपर्यन्तस्थापितं-सर्वान्तिकम्, ततोऽपियोऽवमपर्यायः स धुरि स्थापितादनन्तरंगृह्णाति, तदपेक्षया लघुतरः पर्यन्तपादुिपान्त्यं गृह्णाति; एवं तावद् गृह्णन्ति यावद् मण्डलिका निष्ठिता भवति॥
एवमपि विभज्यमाने कोऽपि लोभाभिभूतमानसो ब्रूयात्-अक्षान् पातयित्वा यद् यस्य भागे समायाति तत् तस्य दीयताम्; एवं ब्रुवाणोऽसौ प्रज्ञापयितव्यः। कथम् ? इति चेद् उच्यते[भा.४३२५] जइ ताव दलंतऽगालिणो, धम्मा-ऽधम्मविसेसबाहिला ।
बहुसंजयविंदमज्झके, उवकलणे सि किमेव मुच्छितो॥ वृ-यदि तावदगारिणोधर्मा-ऽधर्मविशेषबाह्या अपि मूर्छा परित्यज्य साधूनामित्वमात्मीयानि वस्त्राणि "दलंति" प्रयच्छन्ति, ततः ‘बहुसंयतवृन्दमध्यके' प्रभूतसाधुजनमध्यभागे त्वमेवैक उपकरणे क्रिमेवं सम्यक्परिज्ञातजिनवचनोऽपि मूछितोऽसि? नैतद्भवतो युज्यत इति भावः।।
एवमप्युक्तो यद्यसौ नोपशाम्यति ततो वक्तव्यम्[भा.४३२६] अजो! तुमं चेव करेहि भागे, ततो नुधेच्छामो जहक्कमेणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org