________________
उद्देशक : ३, मूलं - ९५, [ भा. ४३१३]
४७३
अदाणे गुरु लहुगा, सेसे लहुओ इमे होंति ।
वृ- वस्त्रेषु समानीतेषु ये वृषभास्ते यथारत्नाधिकं तत्र वस्त्रणि प्रयच्छन्ति । यदि तत्र गुरुणां प्रथमतो वस्त्रदानं न कुर्वन्ति तदा चतुर्लघुकाः । शेषाणां यथारत्नाधिकं विभज्य न प्रयच्छन्ति लघुमासः । ते च रत्नाधिकाः 'इमे' वक्ष्यमाणा भवन्ति ।। तत्र गुरुणां याध्शानि वस्त्राणि दीयन्ते तदेतत् प्रतिपादयति
[ भा. ४३१४] विदुक्खमा जे य मनानुकूला, जे योवजुचंति असंथरंते । गुरुस्स सानुग्गहमप्पिणत्ता, भाएंत सेसाणि उ झंझहीणा ॥
- साधुभिर्यथाविधि गृहीत्वा भूयांसि वासांसि वृषभाणां समर्पितानि, ततो वृषभा "विदु” त्ति 'विदित्वा' सुन्दरा-ऽ सुन्दरताविभागं विज्ञाय यानि 'क्षमाणि' ध्ढानि यानि च 'मनोऽनुकूलानि' गुरुणां मनसोऽभिरुचितानि यानि चाऽ संस्तरति गच्छे गुरुपरिभुक्तान्यपि शेषसाधूनामुपयुज्यन्ते तानि गुरो: 'सानुग्रहं' सविशेषं यथा भवति एवमर्पयित्वा शेषाणि वस्त्राणि झञ्झा- कलहस्तेन हीना:- विरहिताः सन्तो यथारत्नाधिकं परिभाजयन्ति ॥
अथ तानेव रत्नाधिकानाह
[भा. ४३१५] उवसंपज गिलाणे, परित्त सुत सोअव्वए य जाती य । तव भासा लद्धीए, ओमे दुविहस्स अरिहा उ ।।
वृ- " उवसंपज्ञ्ज" त्ति यः तत्प्रथमतया उपसम्पदं प्रतिपद्यते । 'ग्लानः' मन्दः, स च द्विधाआगाढोऽनागाढश्च । 'परीत्तः' परिमितोपधि । “सुत" त्ति बहुश्रुतः । " सोअव्वए" त्ति यो व्याख्यानमण्डल्या उत्थितानां सूत्रार्थे श्रोतव्ये ज्येष्ठतया व्यवह्रियते । "जाइ” त्ति जातिस्थविरः षष्टिवर्षपर्यायः । “तव” त्ति तपस्वी । “भासं" त्ति यः अभाषिकः - तद्देशभाषायामनभिज्ञः । "लद्धीए" त्ति यस्य लब्ध्वा वस्त्राणि लभ्यन्ते ।
एतेषामुपसम्पद्यमानादीनां यथाक्रमं दत्वा ततो यो यः पर्यापरत्नाधिकः स स प्रथमं गृह्णाति, ‘“ओमि” त्ति अवमरात्निकः पश्चाद् गृह्णाति ।
एते यथाक्रमं 'द्विविधस्य' ओघोपधेरौपग्रहिकोपधेश्च ग्रहणे 'अर्हा' योग्या मन्तव्याः || [ मा. ४३१६] एएसि परुवणया, जा य विना तेहिं होति परिहानी ।
अहवा एक्केकस्स उ, अड्डोकंतीकमो होति ॥
वृ- 'एतेषाम्' उपसम्पद्यमानादीनां 'प्ररूपणा' व्याख्या कर्त्तव्या, सा चानन्तरमेव कृता । यद्येतेषां यथाक्रमं वृषभा न प्रयच्छन्ति ततो या तेषां 'तैः' वस्त्रैर्विना 'परिहानि संयमविराधनादिका भवति तन्निष्पन्नं प्रायश्चित्तम् । अथवा 'एकैकस्य' उपसम्पद्यमानादेः प्रत्येकं ग्लानादिविषयोऽयमर्द्धापक्रान्तिक्रमो भवति ।। तद्यथा
[ भा. ४३१७] उवसंपज गिलाणो, अगिलाणो वा वि दोन्नि वि गिलाणा । तत्थ वि य जो परित्तो, एस गमो सेसगेसुं पि ॥
वृ- उपसम्पद्यमानो द्विविधः-ग्लानोऽ ग्लानश्च । तत्र यो ग्लानस्तस्य दातव्यम् । अथ द्वावपि ग्लानावग्लानौ वा ततो यस्तत्र परीत्तोपधिस्तस्मै दातव्यम् । एवमेषः 'गमः' प्रकार: 'शेषेष्वपि ' बहुश्रुतादिपदेषु मन्तव्यः, तद्यथा द्वावपि परीत्तोपधी अपरीत्तोपधी वा ततो यो बहुश्रुतस्तस्मै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org