________________
४७२
बृहत्कल्प-छेदसूत्रम् - २-३/९५
दोषा न भवन्तीति । अनेन सम्बन्धेनायातस्यास्य व्याख्या कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'यथारानिक' यो यो रात्निकः- भावरनैरधिकस्तदनतिक्रमेण चेलानि प्रतिग्रहीतुमिति सूत्रार्थः ।। अथ नियुक्तिविस्तरः[मा. ४३०९]
संघाऽएण एक्कतो, हिंडती वंदएन जयणाए । साधारणऽ नापुच्छा, उ अदत्तं एकओ भागा ।।
वृ- सङ्घाटकेन 'एकतः' एकस्यां दिशि साधवो वस्त्रग्रहणार्थं हिण्डन्ते । अथ सङ्घाटकेन न प्राप्यते ततो वृन्देनापि यतनया पर्यटन्ति । अथ 'साधारणं' बहूनामाचार्याणां सामान्यं तत् क्षेत्रं ततो यदि तत्रापरेषामाचार्याणामनापृच्छया गृह्णन्ति तवा "अदत्तं" ति साधर्मिकस्तैन्यं भवति, अतस्तानापृच्छ्य ग्रहीतव्यानि, गृहीत्वा च तेषां वस्त्रणाम् 'एकतः' एकसध्शा भागाः कर्तव्यान विसध्शा इति सङ्ग्रहगाथासमासार्थः ॥
साम्प्रतमेनामेव विवृणोति[मा. ४३१०]
निस्साधारण खेत्ते, हिंडतो चेद गीतसंघाडो ।
उप्पादयते वत्थे, असती तिगमादिवंदेनं ॥
खू-'निस्साधारणे' एकाचार्यप्रतिबद्धे क्षेत्रे गीतार्थसम्राटको भिक्षां हिण्डमान एव वसत्रण्युत्पादयति । अथ सङ्घाटकेन हिण्डमाना न प्राप्नुवन्ति ततः 'त्रिकादिवृन्देन' त्रिचतुःपञ्चादिसाधुसमूहेन पर्यटन्त उत्पादयन्ति ॥
साधारणक्षेत्रे पुनरयं विधिः
[ मा. ४३११] दुगमादीसामन्ने, अणपुच्छा तिविह सोधि नवमं वा । संभोइयसामन्ने, तह चेव जहेक्कगच्छम्मि ||
कृद्विकादीनां द्वित्रिप्रभृतीनामाचार्याणां सामान्ये क्षेत्रे तेषामनापृच्छ्या गृह्णतस्त्रिविधा 'शोधिः’ प्रायश्चित्तम्- जधन्ये पञ्चकम्, मध्यमे मासिकम्, उत्कृष्टेः; 'नवमं वा' सूत्रादेशेनानवस्थाप्यम् । ते चाचार्या परस्परं साम्भोगिका असाम्भोगिका वा । तत्र साम्भोगिकसामान्ये क्षेत्रे वस्त्रग्रहणे तथैव विध्यवसातव्यो यथा एकस्मिन् गच्छे सङ्घाटकादिक्रमेण अनन्तरगाथायामुक्तः ॥
असाम्भोगिकेषु विधिमाह[मा. ४३१२]
अमणुन्नकुलविरेगे, साही पडिवसभ-मूलगामे य । अहवा जो जं लाभी, ठायंति जधासमाधीए ॥
वृ- अमनोज्ञाः - असाम्भोगिकास्तैः सह यत् क्षेत्रं साधारणं तत्र कुलादीनां विरेकः- विभजनं कर्त्तव्यम्, यथा-एतेषु कुलेषुयुष्माभिर्वस्त्राणि ग्रहीतव्यानि, एतेषु पुनरस्माभि, यद्वाऽस्यां साहिकायांगृहपङ्क्तिरुपायां भवद्भिः अस्यां पुनरस्माभिः अथवा प्रतिवृषभग्रामेषु यूयं ग्रहीष्यथ, वयं मूलग्रामे ग्रहीष्यामः; मूलग्रामे वा यूयं वयं प्रतिवृषभग्रामेषुः अथवा यो यद् वस्त्र कुलादौ पर्यटन् "लाभी" लप्स्यते तेन तस्य ग्रहणं कर्त्तव्यम् । एतेषामन्यतमेन प्रकारेण व्यवस्थां स्थापयित्वा यथासमाधिना तत्र तिष्ठन्ति ॥
एवमसाधारणे वा क्षेत्रे वस्त्राणि गृहीत्वा किं कर्त्तव्यम् ? इत्याह -
[भा. ४३१३] वत्थेहि आनितोहिं, देति अहारातिणिं तहिं वसभा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org