________________
४६७
उद्देशकः३, मूलं-९४, [भा. ४२८६] सप्ततिदिनसद्भावात् । एवं ये भाद्रपदबहुलदशम्यां पर्युषणयन्ति तेषामशीतिर्दिवसा मध्यमो वर्षाकालावग्रहः, श्रावणपूर्णिमायां नवतिर्दिवसाः, श्रावणशुद्धपञ्चम्यां दिवसशतम्, श्रावणबहुलदशम्यां दशोत्तरं दिवसशतंमध्यम एव वर्षाकालावग्रहो भवति । शेषान्तरेषु दिवसपरिमाणं गाथायामनुक्तमपि इत्थं वक्तव्यम्-भाद्रपदामावास्यां पर्युषणे क्रियमाणे पञ्चससप्ततिर्दिवसाः, भाद्रपदबहुलपञ्चम्यां पञ्चदशोत्तरं शतम्, आषाढपूर्णिमायां तु पर्युषिते विंशत्युत्तरं दिवसशतं भवति । एवमेतेषां प्रकाराणामन्यतरेण वर्षावासमेकक्षेत्रे स्थित्वा कार्तिकचातुर्मासिकप्रतिपदि निर्गन्तव्यम् । अथ मार्गशीर्षे गाढं वर्षं वर्षति कर्दमजलाकुलाश्च पन्थानः ततोऽपवादेनैकं दशरात्रमवतिष्ठन्ते, अथ तथापि वर्ष नोपरमतेततो द्वितीयं दशरात्रं तत्रासते, अथैवमपि वर्षन तिष्ठति ततस्तृतीयमपि दशरात्रमासते, एवं त्रीणि दशरात्राण्युत्कर्षतस्तत्र क्षेत्रे आसितव्यम्, मार्गशिरःपौर्णमासीयावदित्यर्थः । ततऊर्ध्वं यदयपि कर्दमाकुलाः पन्थानः, वर्ष चागाढमनुपरतं वर्षति, यद्यपि च पानीये प्लवमानस्तदानीं गम्यते तथाप्यवश्यं निर्गन्तव्यम् । एवं पाश्चमासिको ज्येष्ठकल्पावग्रहः सम्पन्नः॥
अथ तमेव पाण्मासिकमाह[भा.४२८६] काऊण मासकप्पं, तत्येव ठिताणऽतीते मग्गसिरे।
सालंबणाण छम्मासिओ उजेडोग्गहो होति ॥ वृ-यस्मिन् क्षेत्रे आषाढमासकल्पः कृतस्तद् वर्षावासयोग्यम् अन्यच्च तथाविधं क्षेत्रं नास्ति ततोमासकल्पं कृत्वा तत्रैव वर्षावासंस्थितानांततश्चतुर्मासानन्तरं कर्दम-वर्षादिभिः कारणैरतीते मार्गशीर्षमासे निर्गच्छतां 'सालम्बनानाम् एवंविधालम्बनसहितानां पाण्मासिको ज्येष्ठावग्रहो भवति, एकक्षेत्रेऽवस्थानमित्यर्थः ॥ [भा.४२८७] अह अस्थि पदवियारो, चउपाडिवयम्मि होति निग्गमनं ।
अहवा वि अनिताणं, आरोवण पुब्बनिद्दिष्ठा ।। वृ-अथास्ति कर्दम-वर्षादिकारणाभावात् पदविचारः ततश्चतुणां मासानां पर्यन्ते या प्रतिपत् तस्यां निर्गमनकर्तव्यम्। अथतेपदप्रचारमसम्मवेऽपिन निर्गच्छन्तिततोऽनिर्गच्छता पूर्वनिर्दिष्टा' मासकल्पप्रकृते प्रागभिहिता चतुर्लघुकाख्या आरोपणा मन्तव्या ।।
अथ निर्गतानां सामाचारीमुपदर्शयति[मा.४२८८] पुनम्मिनिग्गयाणं, साहम्मियखेत्तवजिते गहणं ।
संविग्गाण सकोसं, इयरे गहियम्मि गेण्हंति॥ - पूर्णे वर्षावासावग्रहे निर्गतानां यत्र साधर्मिकैवर्षावासः कृतस्तत् क्षेत्रं वर्जयित्वा अन्येषु ग्राम-नगरादिषूपकरणस्य ग्रहणं भवति । ये संविग्नाः साम्भोगिका असाम्भोगिका वा तेषां यद् वर्षाक्षेत्रं तत् सक्रोशयोजनं परिहत्य गृहन्ति । इतरे-पावस्थादयस्तेषां यद् वर्षावासक्षेत्र तत्र तैर्गृहीते उपकरणे पश्चात् संविग्ना गृहन्ति, तेषां च क्षेत्र मासद्वयं न परिहियते ॥
कुतः? इति चेद् उच्यते[भा.४२८९] वासासुवि गिण्हती, नेव य नियमेण इतरे विहरती ।
तहिइंसुद्धमसुद्धे, गहिए गिण्हंतिजं सेसं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org