________________
४६६
बृहत्कल्प-छेदसूत्रम् -२-३/९४
उच्यते यद्यभिवर्धितोऽसौ संवत्सरस्ततो विंशतिरात्रिन्दिवानि, अथ चान्द्रोऽसौ ततः सविंशतिरात्रं मासं यावदनभिगृहीतं कर्तव्यम् । __"तेनं"ति विभक्तिव्यत्ययात् 'ततः परं' विंशतिरात्रात् सविंशतिरात्रमासाच्च ऊर्ध्वम् 'अभिगृहीतं' निश्चितं कर्तव्यम् ‘गृहिज्ञातंच' गृहस्थानां पृच्छतां ज्ञापना कर्तव्या, यता-वयमत्र वर्षाकालं स्थिताः । एतच्च गृहिज्ञातं कार्तिकमासं यावत् कर्तव्यम्।।
किं पुनः कारणम् इयति काले व्यतीत एव गृहिज्ञातं क्रियते ? नार्वाग् ? इति अत्रोच्यते. [भा.४२८३] असिवाइकारणेहिं, अहवण वासं न सुटू आरद्धं ।
अभिववियम्मि वीसा, इयरेसु सवीसती मासे ।। काचित्तत्र क्षेत्रेऽशिवं भवेत्, आदिशब्दादाजद्विष्टादिकंवाभयमुपजायेत, एवमादिभिः कारणैः; अथवा तत्र क्षेत्रे नासुठुवर्षं वर्षितुमारब्धं येनधान्यनिष्पत्तिरुपजायते, ततश्चप्रथममेव 'स्थिता वयम्' इत्युक्ते पश्चादशिवादिकारणे समुपस्थते यदि गच्छन्ति ततो लोको ब्रूयात्-अहो ! एते आत्मानं सर्वज्ञपुत्रतया ख्यापयन्ति परं न किमपिनते, मृषावादं वा भाषन्ते, 'स्थिताः स्मः' इति भणित्वा सम्प्रति गच्छन्ति इति कृत्वा । ___ अथाशिवादिकारणेषु सातेष्वपि तिष्ठन्ति तत आज्ञादयो दोषाः । अपि च 'स्थिताः स्मः' इत्युक्तेगृहस्थाश्चिन्तयेयुः-अवश्यंवर्ष भविष्यतियेनैते वर्षारात्रमत्र स्थिताः; ततोधान्यंविक्रीणीयुः गृहं वा छादयेयुः हलादीनि वा सस्थापयेयुः ।
यत एवमतोऽभिवर्धितवर्षे विंशतिराने गते 'इतरेषु च' त्रिषु चन्द्रसंवत्सरेषु सविंशतिरात्रे मासे गते गृहिज्ञातं कुर्वन्ति॥ [भा.२८४] एत्य उपनगंपनगं, कारणिगं जा सवीसती मासो। . .
सुद्धदसमीठियाणव, आसाढीपुत्रिमोसरणं॥ इ- 'अत्र' इति आषाढपूर्णिमायां स्थिताः पश्चाहं यावद् दिवा संस्तारक-डगलादि गृहन्ति, रात्री च पर्युषणाकल्पं कथयन्ति, ततः श्रावणबहुलपञ्चम्यांपर्युषणं कुर्वन्ति । अथाषाढपूर्णिमायां क्षेत्रं न प्राप्तास्तत एवमेव पञ्चरात्रं वर्षावासप्रायोग्यमुपधिं गृहीत्वा पर्युषणाकल्पं च कथयित्वा दशम्यां पर्युषणयन्ति । एवं कारणिकं रात्रिन्दिवानां पञ्चकं पञ्चकं च वर्धयता तावद् नेयं यावत् सविंशतिरात्रोमासः पूर्णः। __ अथवा ते आषाढशुद्धदशम्यामेव वर्षाक्षेत्रे स्थितास्ततस्तेषां पञ्चरात्रेण डगलादौ गृहीते पर्युषणाकल्पेच कथिते आषाढपूर्णिमायां समवसरणं' पर्युषणंभवति, एष उत्सर्गः। शेषं कालं पर्युषणमनुतिष्ठतां सर्वोऽप्यपवादः । अपवादेऽपि सविंशतिराबाद मासात् परतो नातिक्रमयितुं कल्पते । यघेतावत्यपि गते वर्षाक्षेत्रं न लभ्यते ततो वृक्षमूलेऽपि पर्युषणयि-तव्यम् ॥
अथ पञ्चकपरिहणिमधिकृत्य ज्येष्ठकल्पावग्रहप्रमाणमाह[भा.२८५] इय सत्तरी जहन्ना, असिती नउई दसुत्तर सयं च ।
जति वासति मग्गसिरे, दस राया तिन्नि उकोसा।। वृ-'इति' उपप्रदर्शने।ये किल आषाढपूर्णिमायाः सविंशतिरात्रे मासे गतेपर्युषणयन्ति तेषां सप्ततिदिवसानिजघन्यो वर्षावासावग्रहो भवति भाद्रपदशुद्धपञ्चम्याअनन्तरंकार्तिकपूर्णिमायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org