________________
४६८
बृहत्कल्प-छेदसूत्रम् - २-३/९४
वृ- 'इतरे' पार्श्वस्थादयो वर्षास्वपि वस्त्रणि गृह्णन्ति, नच नियमेनैव चतुर्मासानन्तरं ते विहरन्ति, अतस्तैः शुद्धे अशुधे वा उपकरणे गृहीते यत् शेषं वस्त्रदिकं श्राद्धाः प्रयच्छन्ति तद् मासद्वयमध्येऽपि गृह्णन्ति ॥
[भा. ४२९० ] सक्खेत्ते परखेत्ते वा, दो मासा परिहरेत्तु गेण्हंति । कारणं न निग्गय, तंपि बहिंझोसियं जाणे ।।
दृ- स्वक्षेत्रं यत्रात्मना वर्षाकल्पः कृतः परक्षेत्रं यत्रापरे संविग्ना वर्षाकल्पं स्थितास्तत्र स्वक्षेत्रे परक्षेत्रे वा द्वौ मासौ परिहृत्य तृतीयमासि गृह्णन्ति । अथ चतुर्मासानन्तरं कर्दमादिभि कारणैर्न निर्गतास्ततः 'यं' यावन्तं कालं कारणमपेक्ष्य न निर्गतास्तमपि कालं 'बहिर्जीषितं ' बहिक्षिप्तं 'जानीयाद्' गणयेत्, तावन्तमपि कालं बहिर्निर्गता इव मन्तव्या इति भावः ॥
-कैः पुनः कारणैर्न निर्गताः ? इत्याह
[भा.४२९१] चिक्खल्ल-वास- असिवादिएसु जहि कारणेसु उ न निंति । दिंते पडिसेधेत्ता, गेण्हंति उ दोसु पुत्रेसु ।।
वृ- चिक्खल्लः- कर्दमस्तदाकुलाः पन्थानः, वर्षं वा नोपरमते, अशिव-दुर्भिक्षादीनि वा बहिरुपस्थितानि, एवमादिभि कारणैर्यत्र न निर्गच्छन्ति तत्र यदि केचिद् वस्त्रादिना निमन्त्रयन्ति तदा तानू ददतः प्रतिषिध्य द्वयोस्तु मासयोः पूर्णयोर्वस्त्रदिकं गृह्णन्ति ।।
कुतः ? इत्याह
[भा. ४२९२] भावो उ निग्गतेहिं, वोच्छिज्जइ देंति ताई अन्नस्स । अत्तट्ठेति व ताई, एमेव य कारणमनिंते ।।
वृ- 'ये साधव इह क्षेत्रे वर्षावास स्थितास्तेषां वस्त्रणि दास्यामः' इत्येवं यः श्राद्धानां भावः स निर्गतेषु साधुषु व्यवच्छिद्यते, यानि वा वस्त्राणि दातुं सङ्कल्पितानि तानि 'अन्यस्य' पार्श्वस्थादेः प्रयच्छन्ति स्वयमेव वा 'आत्मार्थयन्ति' परिभुञ्जत इत्यर्थः । अथ चतुर्मासानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये श्राद्धानामभ्यर्थनायामप्यगृह्णानेष्वेवमेव भावो व्यवच्छिद्यते, अतो द्वौ मास परिहृत्य ग्रहीतव्यम् । कारणे तु मासद्वयमध्येऽपि गृह्णीयात् ॥
तदेव दर्शयति
[भा. ४२९३] गच्छे सबाल-वुडे, असती परिहर दिवङ्कुमासं तु । पणतीसा पणुवीसा, पन्नरस दसेव एक्कं च ।।
वृ-सवाल-वृद्धे गच्छे वस्त्रभावे शीतं सोदुमसमर्थे सार्धं मासं 'परिहर' वर्जय, परिहृत्य च तत ऊर्ध्वं गृह्णीयात् । अथ सार्धमासमपि परिहर्तुं न शक्तस्ततः पञ्चत्रिंशतं दिनानि परिहर, अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशतिदिनानि, तथाप्यसंस्तरणे पञ्चदश दिनानि, तथाप्यशक्तौ दश दिवसानू, तथाप्यसामर्थ्य एकमपि दिनं परिहरेदिति सङ्ग्रहगाथासमासार्थः ॥
अथैनामेव विवृणोति
[भा. ४२९४] बाल-Sसहु-वुड - अतरंत-खमग- सेहाउलम्मि गच्छम्मि । सीतं अविसहमाणे, गेहति इमाए जयणाए ॥
वृ- तथाविधवस्त्राभावाद् बालाऽसहिष्णु वृद्ध-ग्लान-क्षपक- शैक्षाकुले गच्छे शीतम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org