________________
पीठिका - [भा. ४]
व्युत्पत्तेः । तत्र यदा ज्ञायमानता तदा ज्ञान-ज्ञेययोरभेदः, धर्म-धर्मभावात्; यदा त्वात्मधर्मस्तदा भेदः, भिन्नस्वरूपत्वात् । एवमिहापि नन्दिशब्दो यदा भाववचनः 'नन्दनं नन्दि'रिति तदा नन्दनंसमृद्धीभवनं वाञ्छितस्याधिगतिरित्यनान्तरम्, मङ्गलमपि चैवंस्वरूपमिति परस्परम भेदः; यदा तु प्राचीनावस्थामपेक्ष्य करणसाधनो नन्दिशब्दः 'नन्येतेऽनेनेति नन्दि'रिति तदा भेदः, कालभेदेन भेदादिति ।। सम्प्रति नन्देर्मङ्गलस्य च प्ररूपणा कर्तव्या, तत्र मङ्गलशब्दोच्चारणमिति स्पष्टं मङ्गलबुद्धिहेतुर्भवतीति प्रथमतो मङ्गलशब्दस्य प्ररूपणामाह[भा.५] नाम ठवणा दविए, भावम्मि य मंगलं भवे चउहा।
एमेव होइ नंदी, तेसिं तु परूवणा इणमो।। कृमङ्गलं चतुर्धा' चतुःप्रकारं भवति, तद्यथा-नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलंभावमङ्गलं च । 'एवमेव' नानादिभेदेन चतुःप्रकारो भवति नन्दि ! 'तेषां च' नाममङ्गलादीनाम् ‘इयं' वक्ष्यमाणस्वरूपा प्ररूपणा । तामेवाह[भा.६] एगम्मि अनेगेसुव, जीवद्दब्वे वे तब्विवक्खे वा।
___मंगलसन्ना नियता, तं सन्नामंगलं होइ ।। वृ. एकस्मिन् जीवद्रव्ये 'तद्विपक्षे वा' अजीवद्रव्ये अनेकेषु वा जीवद्रव्येष्वजीवद्रव्येषु वायामङ्गलमितिसंज्ञा 'नियता' नियमिता तद्नाम-नामवतोरभेदोपचारात् ‘संज्ञामङ्गलं' नाममङ्गलं भवति ।। उक्तं नाममङ्गलम्, स्थापनामङ्गलमाह[भा.७] जा मंगल त्ति ठवणा, विहिता सब्भावतो व असतो वा ।
तत्थ पुण अस्भावे, मंगलठवणागतो अक्खो। वू. या मङ्गलमिति स्थापना 'सद्भावतो वा' सद्भूताकारनिवेशनेन 'असतो वा' सद्भूताकारस्याभावतो विहिता सा स्थापनामङ्गलम् । तत्र पुनरसद्भावे स्थापना मङ्गलस्थापनागतोऽक्षः, उपलक्षणमेतद्, वराटकादिर्वा । इयमत्र भावना-अक्ष-वराटकादिषुया मङ्गलमिति स्थापना विहिता, न तत्र कश्चिन्मङ्गलानुगत आकार इत्यसद्भावतः स्थापनामङ्गलम् [भा.८] जे चित्तमित्तिविहिया, उ घडादी ते य हुंति सब्भावे ।
तत्थ पुन आवकहिया, हवंति जे देवलोगेसु।। वृ. ये तु चित्रमित्तौ-चित्रकुड्ये विहिता घटादयः, आदिशब्दात् स्थालादिपरिग्रहः, ते 'सद्भावे' सद्भावतः स्थापनामङ्गलानि भवन्ति । तत्र ये देवलोकेषुचित्रमित्तौ विहिता घटादयस्ते स्थापनामङ्गलानि यावत्कथिकानि भवन्ति, अर्थादापन्नं यानि मनुष्यलोके तानीत्वराणि । यावत्कथिकानि नाम शाश्वतिकानि, इत्वसण्यशाश्वतानि ।। द्रव्यमङ्गलमाह[भा.९] उत्तरगुणनिफना, सलक्खणाजे उ होति कुंभाई।
तंदव्वमंगलं खलु,जह लोए अट्ठ मंगलगा।। वृ-इह उत्तरगुणनिष्पन्नत्वं मूलगुणनिष्पन्नापेक्षया, ततः प्रथमतस्तद् भाव्यते-मूलो नाम पृथिवीकायादिजीवः, तस्य गुणात्-प्रयोगात् पुद्गलानां द्रव्यादित्वेन व्यापारणाद् निष्पन्न मूलगुणनिष्पन्नं मृद्रव्यादि । तस्मादुत्तरगुणेन-परापरप्रयोगेण चक्र-दण्ड-सूत्रोदकादिपुरुषप्रयत्नेनेत्यर्थः, ये निष्पन्नाः ‘सलक्षणाः' लक्षणसम्पन्नाः “अच्छिद्रा अखण्डा वारिपूर्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org