________________
बृहत्कल्प-छेदसूत्रम् -१. कल्पे मासकल्पे वर्षाकल्पे वा कारणमन्तरेण परिपूर्ण कारणवशत ऊनमतिरिक्तं वा, अथवा कल्पे स्थविरकल्पे जिनकल्पे वाऽधिवसतीति कल्पः ॥ तथा विधिवद् अवहरणाद् व्यवहारः, यदि वा विधिवद्वपाद् हरणाच्च व्यवहारः; यस्य नाऽऽभवति तस्य हायपति, यस्याऽऽभवति तस्मै ददाति व्यवहाराध्ययनवेत्तेति व्यवहार इत्यर्थः उक्तं च
अत्थिय-पच्चस्थीणं, हाउं एकस्स ववति बीयस्स।
एएण उ ववहारो, अहिगारो एत्य उ विहीए ।। तदेवं कल्पस्य व्यवहारस्य व पृथग विभिन्नं निरुक्तमिति महान् प्रतिविशेषः ।। "वक्खाणविहि" इत्यस्य व्याख्यानम् अनुयोग इति॥
तत्र तमेव व्याख्यानविधिमभिधातुकाम इदमाह[भा.३] नंदी य मंगलट्ठा, पंचग कुग तिग दुगे य चोइसए।
अंगगयमनंगगए, कायव्व परूवणा पगयं ।। अनुयोगारम्भाय प्रशमतोमङ्गलार्थनन्दिर्वक्तव्यः । सत्तु "पंचग"त्ति ज्ञानपच्चकात्मानः। ज्ञानपमकं द्विकेन भेदेन व्यवस्थितम्, तद्यथा-प्रत्यक्षं च परोक्षंच। प्रत्यक्षस्य त्रिको भेदोऽवधिन्मपर्याय-केवलमेदात्, परोक्षस्य द्विक भेदः आभिनिबोधिकश्रुतभेदात् । तत्र श्रुतस्य चतुर्दशको भेदः । तथा कुतोऽपि विशेषात् श्रुतं 'अङ्गगतमनङ्गगतं' अङ्गप्रविष्टमङ्गवाहयं चेत्यर्थः । एतेषां पदानांप्ररूपणा कर्तव्या। ततः प्रकृतमभिधातव्यम्।।तत्र "नंदीयमंगलट्ठा' इत्यस्य भावनार्थमाह[भा.४] नंदी मंगलहेडं, न यावि सा मंगलाहि वइरित्ता।
कज्जाभिलप्पनेया, अपुढो य पुढो य जह सिद्धा ।। वृ-'नन्दि' ज्ञानपञ्चकरूपः ‘मङ्गलहेतोः' मङ्गलनिमित्तं वक्तव्यः ।आह यदि मङ्गलनिमित्तं नन्दिर्वक्तव्यः ततः स मङ्गलादेकान्तेन भिन्नःप्राप्तः, अन्यथा तदुत्पादननिमित्तं तस्योपादान मिति व्यवहारानुपपत्तेः; उपादानं हि तस्य सिद्धस्य सतो भवंति, उत्पाद्यं चाद्याप्यसिद्धम्, ततः कथमनयोरभेद:? किन्तुभेद एव;तत आह-न चापि सः' नन्दिर्मङ्गलाद्व्यतिरिक्तः, अपिशब्दाद् व्यतिरिक्तोऽपि स्यादव्यतिरिक्त इत्यर्थः । कथमेतच्छ्रद्धेयम् ? इति चेत्, अत आह- "कजे" त्यादि । यथा कार्या-ऽभिलाग्य-ज्ञेयानि कारणा-ऽभिलाप-ज्ञानेभ्यः पृथक्त्वा-ऽपृथक्त्वसिद्धानि तथा नन्देमङ्गलमपि।तथाहि-कार्यं पटः, कारणतन्तवः, तत्र तन्तवएवपुरुषव्यापारम-पेक्ष्याऽऽतानवितानभावेन परिणममानाः पटकार्यरूपतया परिणमन्ते, तेषुचतथापरिणतेषुसत्सुनकार्यकारणयोर्भेदः किन्तु अभेदः; एवमिहापि नन्दिनिपञ्चकाभिधानरूप उत्तरत्तरशुभाध्यवसायविशेषसम्भवसव्यपेक्षतर-तमभावेन परिणममानो वाञ्छिताधिगतिलक्षणमङ्गलरूपतया परिममत इति नन्दि-मङ्गलयोरभेदः । प्राचीनां त्ववस्थामपेक्ष्यभेदः, यथातन्तुभ्यः पटस्य । तथाऽभिलापशब्देन कदाचिदमिलाप्यस्याभिलाप्यमानता उच्यते, 'अभिलपनमभिलापः' इति व्युत्पत्तेः; कदाचित् तद्वाचकशब्दः, अभिलाप्यतेवस्त्वभिलाप्यमनेने तिव्युत्पादनात्। तत्रयधाऽभिलाप्यमानतोच्यते तदाऽभिलापा-ऽभिलाप्ययोस्भेदः, धर्म-धर्मिभावात्; यदा तु तद्वाचकशब्दस्तदा भेदः, शब्दाऽर्थयोर्भिन्नदेशस्थत्वाद् भिन्नस्वरूपत्वाच्च । ज्ञानशब्देनापि क्वचिद् ज्ञेयस्य ज्ञानमत्तोच्यते, 'ज्ञातिज्ञान मिति भावे व्युत्पादनात्; कदाचिदात्मधर्म, 'ज्ञायतेऽनेनेति ज्ञान'मिति करणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org