________________
बृहत्कल्प-छेदसूत्रम् -१. पद्मोत्पलप्रतिच्छन्नाः" इत्यादिलक्षणोपेताः कुम्भादयः, आदिशब्दात् स्थालादिपरिग्रहः, तद् द्रव्यमङ्गलं भवति । यथा लोकेऽष्टौ मङ्गलानि ।।
[भा.१०/१] नेगंतियं अनचंतियं च दव्वे उ मंगलं होइ।
वृ. तत्पुनरनन्तरोक्तं द्रव्यमङ्गलमनैकान्तिकमनात्यन्तिकंच भवति।तथाहि-नपूर्णकलश एकान्तेन सर्वेषां मङ्गलम्, येन चौरस्य कर्षकस्य च शकुनतया रिक्तं घटप्रशंसन्ति शकुनविदः, गृहप्रवेशे पुनः पूर्णम् ॥ उक्तं च
चोरस्स करिसगस्स य, रित्तं कुड्यंजनो पसंसेइ।
गेहपवेसे मन्नइ, पुन्नो कुंभो पसत्यो उ ।। तत एवमनैकान्तिकम् । नाप्यात्यन्तिकम्, यथा कोऽपिशोभनैर्द्रव्यमङ्गलैर्विनिर्गतः, तेन चाग्रेकिञ्चिदशोभनंदृष्टम्, येनतानि सर्वाण्यपिप्राक्तनानिप्रतिहतानि, तत एवमनात्यन्तिकमिति। उक्तं द्रव्यमङ्गलम्, अधुना भावमङ्गलमाह
(भा. १०/२] तव्विवरीयं भावे, तंपियनंदी भगवती उ॥
वृ-'तद्विपरीतम्' ऐकान्तिकमात्यन्तिकं च 'भावे' भावविषयं मङ्गलम् । तथाहि-न तद् भावमङ्गलं कस्यचिद्भवति कस्यचिन्न भवति, किन्तु सर्वस्याविशेषेण भवतीत्यैकान्तिकम् नच केनाप्यन्येन प्रतिहन्यतइत्यात्यन्तिकम् । 'तच्छ' भावमङ्गलं भगवान नन्दिर्वक्ष्यमाणोऽवगन्तव्यः। गाथायांस्त्रत्वंप्राकृतत्वात्।।आहयथा नामादीनि चत्वारिमङ्गले समवतारितानितथाकिमन्येष्वप्यवतार्यन्ते ? किं वा न ? इति, उच्यते-अवतार्यन्त, सर्वस्यापि चतुःप्रत्यवतारान्तर्गतत्वात् ।। एतदेवाह[भा.११] जह इंदो त्ति य एत्थं, तु मग्गणा होति नाममादीणं।
सव्वानुवायि सन्ना, ठवणादिपया उ पत्तेयं ।। वृ-यथा इन्द्र इति उक्ते 'अत्र' इन्द्रे नामादीनां चतणां मार्गणा भवति । तथाहि-किमनेन नामेन्द्र उक्तः ? उत स्थापनेन्द्रः ? उत स्थापनेन्द्रः? आहोस्वि द्रव्येन्द्रः ? उताहो भावेन्द्रः ? इति । तथा सर्वत्रापि द्रष्टव्या । उक्तंच
जत्थ य जंजाणिज्जा, निक्खेवं निखिवे निरवसेसं ।
जत्थ वि य न जाणिज्जा, चउक्कयं निक्खवे तत्था ।। कृतत्र संज्ञा' नामसर्वेषु-नाम-स्थापना-द्रव्य-भावेषुअनुपाति-अनुवर्तनशीलम्।तथाहिनामेन्द्रऽपि स्थापनेन्द्रोऽपि द्रव्येन्द्रोऽपि भावेन्द्रोऽपि च इन्द्र इत्यभधानेनाविशेषत उच्यते । स्थापनादीनि तु पदानि 'प्रत्येकं' स्वस्वव्यवस्थितानि, न परस्परमनुगमनशीलानि, ततो न नामप्रवृत्तिमात्रदर्शनतो नामेन्द्रप्रतिपत्तयः किन्तु भिन्नलक्षणवशात् । अतस्तल्लक्षणमाह[भा.१२] अत्ताभिप्पायकया, सन्ना चेयणमचेयणे वा वि ।
ठवणादीनिरविक्खा, केवल सन्ना उनामिंदो॥ वृ-चेतनेऽचेतने वा द्रव्ये या आत्माभिप्रायेण-स्वेच्छया इन्द्रप्रभृति संज्ञा कृता, साऽपि स्थापनादिसापेक्षा स्यादत आह-स्थापनादीनां-स्थापना-द्रव्य-भावानां निरपेक्षा, किमुक्तं भवति?-यत्र स्थापनादीनामेकमपि नास्ति किन्तु केवला' एका संज्ञातदर्थनिरपेक्षासनामेन्द्रः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org