________________
२५०
गच्छाचार-प्रकिर्णकसूत्रम् ११८ वृ.जो जत्तो।यो यावानिति 'जातः' उत्पत्रस्तं तथा 'नालोचयति' न गुरोः कथयति, तथा दैवसिकं पाक्षिकं वा, अपिशब्दाचातुर्मासिकं सांवत्सरिकं चातीचारं नालोचयति, तथा 'स्वच्छन्दाः' स्वेच्छाचारिण्यः श्रमण्यो महत्तरिकायाः' मुख्यसाध्व्याः आज्ञायां न तिष्ठन्ति स गच्छो मोक्षपदसाधको न, किन्तूदरपूरक एवेति ॥ मू. (११९) विटालियाणि पउंजंति गिलाण सेहीण नेय तेप्पंति।
अनगाढे आगाढं करंति आगाढि अनगाढं। वृ. 'विण्टलिकानि' निमित्तादीनि, यद्वा 'वेण्टलिकानि' यन्त्रमन्त्रादीनि 'प्रयुञ्जन्ति प्ररूपयन्तीत्यर्थःग्लानिकानां' रोगिणीनां सेहीण तिनवदीक्षितसाध्वीनां नेय तप्पंति'त्ति औषधभेषवजवस्त्रपात्रज्ञानाभ्यासादिना चिन्तां न कुर्वन्तीत्यर्थः।।
तथाआगाढम्-अवश्यकर्त्तव्यं सर्पभक्षितविषमूर्छितमरणान्तशूलादिपीडितप्रतिजागरणादिकं न आगाढमनागाढं तस्मिन् अनागाढे कार्ये 'आगाढं' अवश्यकर्त्तव्यमितिकृत्वा कुर्वन्तीत्यर्थः, तथा 'आगाढे' पूर्ववर्णितस्वरूपे कार्ये अनागाढं कार्यं कुर्वन्ति, गो०, यद्वा 'अनगाढे'त्ति आचाराङ्गा-दिअनागाढयोगानुष्ठाने 'आगाढं'ति भगवतीप्रमुमागाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगा-नुष्ठानेऽनागाढयोगानुष्ठानं कुर्वन्ति च ॥ तथामू. (१२०) अजयणाए पकुव्वंति, पाहुणगाण अवच्छला।
चित्तलिआणि अ सेवंति, चित्ता रयहरणे तहा।। वृ.अजय० ॥ अयतनया जीवयतनांविनेत्यर्थः ‘पकुव्वंति'त्ति प्रकर्षण-मनोवाकायेन भिक्षाटनभोजनमण्डल्युद्धरणस्थण्डिलगमनग्रामानुग्रामपरिभ्रमणवसतिप्रमार्जनप्रतिलेखनाऽऽवश्यकादिकं कुर्वन्ति, यद्वा न विद्यते यतना-आचरणेनाथ षट्कायपरिपालना यत्र सा अयतनाकेवलद्रव्यलिङ्गधारणातया प्रकुर्वन्तिजठरपूरणार्थं रामाद्यावर्जनादिकमिति, तथा 'प्राधूर्णकानां' ग्रामान्तरागतानां मार्गश्रमसंयुक्तानां क्षुत्पिपासापीडितानां साध्वीनां 'अवच्छल'त्ति निर्दोषभव्यानपानादिना बहुमानपूर्वकं भक्ति न कुर्वन्तीत्यर्थः ।
तथा 'चित्तलिआणि त्ति चित्रितानि-नानाचित्रसंयुक्तानि वस्त्रकम्बलीपात्रदण्डादीनि, यद्वा 'चीतलिकानि चउकचीतलिकापाचीकासारपासकादीनि सेवन्ते' स्वयं प्रवर्ततयन्तीत्यर्थः, चशब्दाद्धस्ते मिध्यिका चरणेऽलक्तकुड्डमादि कण्ठे हारकादि इत्यादि कामाङ्गानि सेवन्ति, तथा रजोहरणे 'चित्ता' इति चित्राणि बाह्याभ्यन्तरपञ्चवर्णगुल्लादिकर्षणानि कुर्वन्तीति हे गौतम ता अनार्या उच्यन्त इति ॥ मू. (१२१) गइविअमाइएहिं आगारविगार तह पगासंति ।
जह बुदाणवि मोही समुईरइ किंतु तरुणाणं ।। वृ.गइ०॥याऽऽर्या गतिविभ्रमादिकैः' गमनविलासादिकैः आकारश्च-स्थूलधीगम्यदिगवलोकनमुखनयनादिचेष्टा विकारश्च-स्तनकक्षादिप्रदेशे हस्ताङ्गुल्यादिक्षेपणं आकारविकारं तं 'तथा प्रकाशयन्ति तथा प्रकटीकुर्वन्ति यथा 'वृद्धानामपि' स्थविराणामपि 'मोहः वेदोदयः कामानुराग इत्यर्थः 'समुदीरइ'त्ति तत्क्षणएवोत्पद्यते, "तुः पुनरर्थे, किंपुनस्तरुणानांसाधूनामिति, हे सौम्य ! ताः साध्व्यो न, किन्तु नट्य इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org