________________
२५१
मू० १२१ मू. (१२२) बहुसो उच्छोलिंती मुहनयणे हत्थपायकक्खाओ।
गिण्हेइरागमंडल सोइंदिय तह य कब्बडे ॥ वृ.बहु० ॥ बहुशः' कारणं विना वारंवारं 'उच्छोलिंती'तिक्षालयन्तीत्यर्थः 'मुखनयेन' वक्राक्षिणी हस्तपादकक्षाश्च । तथा च याऽऽर्या 'गिण्हेइ'त्ति परेभ्यो रागज्ञेभ्यो 'गुह्णन्ति' शिक्षन्ते 'रागमण्डलं' श्रीराग १ गऊडी २ मल्हार ३ केदारउ ४ मालवीगुढउ ५ सिन्धुउ ६ देशाख ७ आसाउरी ८ (अधरस७ काल्हेरउ ८) भूपाल ९ सामेरी १० मारऊणी ११ मेवाडउ १२ रामगिरी १३ केदारगउडी १४ मधुराग १५ प्रभाती १६ सबाब १७ वेलाउली १८ वसंत १९ नाट २० धन्यासी २१। ___इत्यादिकं रागसमूह 'तहय'त्ति च पुनस्तद्रागमण्डलं गृहीत्वा 'तथा' तेन प्रकारेण करोति यथा 'कब्बडे'त्ति प्राकृतत्वाद्विभक्तिपरिणामः, तरुणपुरुषाणां, यद्वा 'कब्बडे'त्ति समयभाषया बालकास्तेषामपि ‘सोइंदिय'त्ति श्रोत्रेन्द्रियं श्रवणेन्द्रियं परमसन्तोषं प्राप्नोति।
___ यद्वा 'गिण्हइत्ति गृह्णन्ति करचालनेन तथा वादयन्ति रागमण्डलं चाङ्गप्रमुखं यथा बालतरुणादीनां श्रवणेन्द्रियं तोषं यातीति, यद्वा रागमण्डलं श्रोत्रेन्द्रियेण गृहन्ति, तथा च गृहस्थबालकान् क्रीडार्थ गृह्णन्तीति । यत्रोत्तरार्धे पाठान्तरं यथा-"गिण्हइ रामणमंडणं भोयंति य तह य कब्बडे"त्ति, अस्यार्थ:-'कब्बडे'त्ति गृहस्थबालकान् स्नेहाद् गृह्णन्ति तेषां 'रामणे ति क्रीडां कारयन्ति मण्डनं' शरीरभूषणां कुर्वन्ति, तथा तान् भोजयन्तीति ता आर्या केन कथ्यन्ते न केनापीति ।। मू. (१२३) जत्थ य थेरी तरुणी थेरी तरुणी अअंतरे सुयइ।
गोअम! तं गच्छवरं वरनाणचरित्तआहारं। वृ. जत्थ य०॥यत्र च गणे 'स्थविरा' वृद्धा तरुणीच-युवती साध्वी स्थविरा च तरुणी चकारान्मध्यमा तरुणी तरुणीमध्यमा च अन्तरे' अन्तराले स्वपिति, अन्यथा तरुणीनां निरन्तरशयने परस्परं जङ्घाकरस्तनपादादिस्पर्शने सति मन्मथचिन्ता पूर्वस्मरणादिकं भवति अतः स्थविरान्तरिताः स्वपन्ति हे गौतम! तं गच्छवरंजानीह, किंभूतं ?-वरज्ञानचारित्राधारमिति॥ मू. (१२४) धोइंति कंठिआउ पोयंती तहय दिति पोत्ताणि।
गिहकज्जचिंतगीओ नहु अज्जा गोअमा! ताओ। . वृ.धाइ०॥धावति' कारणं विना नीरेण क्षालयतीत्यर्थः ‘कण्ठिकाः' गलप्रदेशान्तथा 'पोयंतीति आभरणमुक्ताफलचीडकादीनि 'प्रोतयन्ति' रन्ध्रे सूत्रादिकं सञ्चारयन्तीत्यर्थः गृहस्थानामिति गम्यते, तथा 'ददति' अर्पयन्ति 'पोत्ताणि' बालकार्थं वस्त्रखण्डानि, चकाराद् दुग्धौषधजटिकादिकमपि ददति, यद्वा शरीरे पोतानि' मलस्वेदादिस्फोटनाय जलार्दीकृतवस्त्राणि 'ददति' घर्षयन्तीत्यर्थः, 'गृहकार्यचिन्तिकाः' अगारिगृहव्यापारकरणतत्पराः, नैव ता आर्या हे गौतम!, किन्तु कर्मकर्म्य इत्यर्थः॥ मू. (१२५) खरघोडाइट्ठाणे वयंति ते वावि तत्थ वच्चंति।
वेसत्थी संसग्गी उवस्सयाओ समीवंमि ।। वृ. खरघो० ।। खरघोटकादिस्थाने व्रजन्ति साध्व्यः, तत्र खरशब्देन दासप्रायः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org