________________
मू० ११४
॥२॥
स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥
अन्ये त्वाहुः - "विलास नेत्रजो ज्ञेयः " तथा शयनीयं - मञ्चकादिरूपं करोति, किंभूतं डमरुकमणिन्यायेन सकारोऽत्रापि योज्यः 'सतूलीयं' ति गुप्तदवरकसहितं, पुनः किंभूतं 'सबिब्बोकं ' गल्लोपधानसहितं, उक्तश्च कल्पे - " उभओ बिब्बोयणे' उभयतः -- शिरोऽन्तपादान्तावाश्रित्य 'बिब्बोयणे' त्ति उपधाने गूण्डके यत्रेति, तथा 'उद्वर्त्तयति' पिष्टिकादिना मर्दयतीत्यर्थः ।
'शरीरं' स्ववपुः, स्नानादीनि आदिशब्दाद्विलेपनमङ्गे कण्ठे पुष्पमालादि हस्ते तालवृन्तादिकं धूपनं वस्त्रादेः शोरञ्जनं दन्तकाष्ठमित्यादिकं या करोति सा आर्या नोक्ता श्रीवर्द्धमानस्वामिना, किन्तु वेषविडम्बनी जिनाज्ञाकन्दलीकुठारिका प्रवचनमालिन्यकारिणी अनाचारिणी सम्यक्त्वतरुकरिणी प्रमादसरणि मुनिमनोभङ्गकारिणी सत्साधुयोधवारुणीति ॥ गेहेसु गिहत्थाणं गंतूण कहा कहेइ काहीया ।
मू. (११५)
तरुणा अहिवडते अनुजाणे साइ पडिणीया ॥
वृ. गेहे० ॥ गृहेषु गृहस्थानां गत्वा 'कथा' धर्माभासकथां संसारव्यापारविषयां वा 'कथयति' वचनविलासेन विस्तारयतीत्यर्थः, 'काहीया 'त्ति 'कथिका' कथाकथिकाऽऽर्या । तथा या च तरुणादीन् पुरुषान् 'अहिवडते त्ति 'अभिमुखमागच्छतः ' सन्मुखमागच्छमानान् 'अनुजानाति' आगम्यतां भवतामागमनं भव्यं भव्यमस्मदीयस्थानजातं स्थीयतां, गमनप्रस्तावे पुनरागमनं विधेयं, परत्वं न चिन्तनीयं, अस्मदयोग्यं कार्यं ज्ञाप्यमित्यादिकं वचनाडम्बरं करोतीत्यर्थः सा मुण्डी, इकारः पादपूरणे, प्रत्यनीकमिव-प्रतिसैन्यमिव या सा प्रत्यनीका गुरुगच्छसङ्घप्रवचनस्य प्रतिकूलविधानादिति । किञ्च
मू. (११६)
२४९
बुड्डाणं तरुणाणं रत्तिं अज्जा कहेइ जा धम्मं । सा गणिणी गुणसायर ! पडिनीया होइ गच्छस्स ।।
वृ. बुड्डा० ॥ 'वृद्धानां जराजीर्णानां पुरुषाणां 'तरुणानां' मन्मथवयः प्राप्तानां उपलक्षणत्वान्मध्यमवयः प्राप्तानां 'रत्तिं 'ति रात्रौ निशायां याऽऽर्या कथयति धर्मं सा 'गणिनी' मुख्यसाध्वी है गुणसागर ! प्रत्यनीका भवति गच्छस्य । यदि च गणिन्याः पुंसां रात्रौ धर्मकथने गणस्य प्रत्यनीकत्वं जायते तदाऽन्यसाध्वीनां का कथा ?, ननु विशेषतरं भवति प्रत्यनीकत्वमिति ॥ जत्य य समणीणमसंखडाई गच्छमि नेव जायंति ।
मू. (११७)
तं गच्छ गच्छवरं गिहत्थभासाउ नो जत्थ ||
वृ. जत्य य० ॥ यत्र गणे चात् सङ्घाटकेऽपि 'श्रमणीनां' मोक्षमार्गप्रवृत्साध्वीनां 'असंस्कृ तानि परस्परं गृहस्थसार्द्धं वा स्वगणमुनिसार्द्धं स्वसङ्घाटकमुनिवर्गसार्द्धं वा कलहगालिप्रदानावर्णवादादीनि 'नैव जायन्ते' कदाऽपि नैवोत्पद्यन्ते तं 'गच्छं' गणं 'गच्छवरं' गणप्रधानं, तथा च यत्र गणे 'गृहस्थभाषाः' पूर्वोक्तसावद्यरूपाः, यद्वा मामा आई बाप भाई बाई बेटी" इत्यादिका नोच्यते स गच्छ गच्छवर इति ॥
पू. (११८)
जो जत्ती वा जाओ नालोयइ दिवसपक्खियं वावी । सच्छंदा समणीओ मयहरियाए न ठायंति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org