________________
२४८
गच्छाचार - प्रकिर्णकसूत्रम् ११०
जत्य यगित्यभासाहिं भासए अजिआ सुरुट्ठावि । तं गच्छं गुणसायर! समणगुणविवज्जियं जाण ।।
मू. (999)
बृ. जत्थ० ॥ यत्र गणे च 'गृहस्थभाषाभिः ' सावद्यरूपाभिर्भाषते, गृहस्थानां यथा-तव गृहं ज्वलतु तव पुत्रो यमगृहे गच्छतु त्वं तवाम्बाऽपि शाकिन्यौ स्तः, साध्वीनां यथा तव शबं कर्षयामि तव दन्तपङ्क्तिं पातयामि तव चरणौ कर्त्तयामि तव जठरेऽग्निक्षेपं कुरु रे शाकिनि ! रे रण्डे ! इत्यादि भाषते, आर्यिका - अधमा मुण्डी सुरुष्टा - अतिशयेन क्रोधाग्निना ज्वलिता, अपिशब्दात् स्वभावस्थाऽपि गृहस्थभाषाभिर्भाषते - तव गृहं पतितं दृश्यते कथं तत्रोद्यमं न कुरुषे ? -
तव पुत्री वृद्धाऽस्ति वरगवेषणं कुरु त्वं, त्वया सुष्ठु कृतो विवाहः तव पुत्रवघूटी भव्याऽस्ति तव गृहे महिषी दुर्बलाऽस्ति, यौतकं कथं न ददासि ? वध्वा आणकं कथं न क्रियताम् ? इत्यादिरूपामिति, तं गच्छं हे गुणसागर ! श्रमणगुणविवर्जितं 'जानीहि ' अवगच्छ, अन्यत् किं कथ्यत इति ॥ मू. (११२)
गणिगोअम ! जा उचियं, सेयं वत्थं विवज्जिउं ।
सेवए चित्तरूवाणि, न सा अज्जा वियाहिया ।।
वृ. गणिगो० || हे गणिगौतम ! 'या' आर्या उचितं श्वेतं साध्वीयोग्यं 'वस्त्र' वसनं 'विवर्ज्य' परित्यज्य सेवते 'चित्ररूपाणि' विविधभरतादियुक्तानि वस्त्राणि यद्वा चित्राणिआश्चर्यकराणि रूपाणि-गुल्लकुद्दद्विकाकमलादीनि येषां तानि चित्ररूपाणि बहुमूल्यवस्त्राणि साध्व्ययोग्यानि न सा 'आर्या' साध्वी 'व्याहृता' मया, न कथितेत्यर्थः, किन्तु सा जिनप्रवचनोड्डाहकारिणीति ।। मू. (११३)
सीयणं तुण्णणं भरणं, गिहत्याणं तु जा करे। तिल्लउच्चट्टणं वावि, अप्पणो य परस्स य ॥
वृ. सीव० ।। याऽऽर्या सीवनं खण्डितवस्त्रादेः तुन्ननं जीर्णवस्त्रादेः भरणं कञ्चुकटोपिकाकुञ्चिकादीनां भरतभरणं गृहस्थानां तुशब्दाद्गृहस्थगृहद्वारादिरक्षणानि करोति, तथा च या तैलेन उपलक्षणत्वात् घृतदुग्धतरिकादिना 'उद्वर्त्तनं' अङ्गोपाङ्गानां मर्दनं तैलोद्वर्त्तनं अपिशब्दादङ्गक्षालनविविधमण्डनादिकं करोति सुभद्राऽऽर्यादिवत् 'आत्मनश्च' स्वस्य 'परस्यच' गृहस्थबालकादेः सा ‘“पासत्था पासत्थविहारणी उसन्ना उसन्नविहारणी कुसीला कुसीलविहारणी" त्यादिदोषान्विताऽवगन्तव्येति ॥
मू. (११४)
गच्छइ सविलासगई सयमीअं तूलीअं सबिब्बोअं । उव्वट्टेइ सरीरं सिणाणमाईणि जा कुणइ ॥
वृ. गच्छइ० || 'गच्छइ सविलासगई 'त्ति अत्रापि बिब्बोकशब्दस्य परामर्श, या आर्या बिब्बोकपूर्वकं यथा स्यात्तथा 'सविलासगतिर्गच्छति' विलाससमन्वितया गत्या राजमार्गादौ पण्याङ्गनावत् परिभ्रमतीत्यर्थः, बिब्बोकविलासयोर्लक्षणं यथाः
119 11
Jain Education International
“इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः ।
स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः ॥
For Private & Personal Use Only
www.jainelibrary.org