SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मू०१०८ २४७ इण हरिजा उड्डाहं वा करंति, पच्छन्नं वा रायाई भममाणो संकिजा-का एसा?, चोराविअवहरंति, वत्थाईयं वा गिण्हति, अहवा कयाई गुरुणीए फरुसंचोयणं संभरमाणी पुबकीलियं वा रयणीए विसेसओ संभरइ तो एगागिणी कत्थवि गच्छिज्जा, इच्चाइ दोसमूलं नाऊण रयणीए एगागिणीए समणीए उवस्सयाओ बाहिंसया न गंतव्वं"ति॥ मू. (१०९) जत्थ य एगा समणी एगो समणो य जंपए सोम । नियबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं ।। .जत्यय०॥यत्र चोत्सर्गेणैकाकिनी श्रमणी-मुण्डीएकाकिना निजबन्धुनाऽपिसार्द्ध जल्पति, यद्वा एकाकी साधुनिजभगिन्याऽपि सार्द्ध जल्पति हे सौम्य ! हे गौतम ! तं गच्छं गच्छगुणहीनं जानीहि । यत एकाकिन्या सार्द्ध जल्पनेन बहुदोषोत्पत्तिर्भवति, कामवृत्तिमलिनत्वादिति। तथा च साध्वीनां जल्पनेन प्रीत्यादयो भवन्ति, उक्तञ्च॥१॥ “संदंसणेण पीई १ पीईउरई २ रईउ वीसंभो ३। वीसंभाओ पणओ४ पणयावि अभवइ पडिबंधो ५॥" साध्वीनां संदर्शनेन साधूनां प्रीतिरुत्पद्यते १, प्रीत्या चित्तसमाधानं २, ततो विश्रम्भो-विश्वासः ३, विश्वासाप्रणयः-स्नेहः ४, तस्मा प्रतिबन्धः ५ ॥ ॥१॥ “जह जह करेसि नेहं तह तह नेहो अ वड्डइ तुमंसि। तेण नडिओमि बलियं जंपुच्छसि दुब्बलतरोसि ।। हे साध्वि! यथा यथा त्वं मम स्नेहं संपादयसि तथा २ मम त्वयि स्नेहो वर्द्धते, तेन स्नेहेन नटितोऽस्मि यत्वं पृच्छसि दुर्बलतरोऽसि ।। ॥१॥ "इय संदसणसंभासणेण संदीविओमयणवण्ही। बंभाई गुणरयणे डहइ अनिच्छेवि पमयाओ।" इति, स्त्रीणां रण्डाकुरण्डादीनांसाध्वीनांमुण्डीवेषधारणीनां साधुसंयमनृपविषकन्यकानां च संदर्शनसंभाषणेन संदीपितो मदनवह्निर्ब्रह्मचर्यादीन् गुणरलान् प्रमादात् अनिच्छतोऽपि साधोर्दहतीति ।। मू. (११०) जत्थ जयारमयारं समणी जंपइ निहत्थपञ्चक्खं । पञ्चक्खं संसारे अजा पक्खिवह अप्पाण।। जथ०।। यत्र यकारं जकारं वा मकारं च, तत्र यकारजकारे यथा-दुष्टस्तवयोनिर्येन त्वमुत्पन्ना, याहि शठेन सार्द्ध-योगिनी भव, किं तव लग्नो यक्षः?, त्वां याकिनी भक्षयति ?, तव जननी मृता तवजनको मृतः रे? जोषं कुरु किं जन्मान्तरे यक्षणी भविष्यसि?, मकारं यथा प्रियतां मरिष्यति तव गुरुणी मृतस्तव गुरु मुखं मा दर्शय दुष्टं मुखं कृष्णं कुरु तव मुखे विष्ठा पतिष्यति चिन्तां मा कुरु मुखं लात्वा गच्छ इतः । इत्यादिवचनपूर्वकं श्रमणी' श्रीजिनप्रवचनदमनी जल्पति' बाढस्वरेण कुत्सितंवक्तीत्यर्थः 'गृहस्थप्रत्यक्षं' गृहस्थानां श्रवणंयथा स्यात्तथा प्रत्यक्ष साक्षात् भवपरम्पराकोटिसङ्घले संसारे' चतुर्गत्यात्मके 'आर्या' साध्व्याभासवेषा वेषविडम्बिका 'प्रक्षिपति' पातयतीत्यर्थः 'आत्मानं' स्वयमिति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003364
Book TitleAgam Sutra Satik 30 Gachchhachar PainngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages74
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_gacchachar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy