SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ मू०७४ २३५ दृष्टेति गम्यते 'जायते' उत्पद्यते चित्ते-मनसि चमत्कारः-आश्चर्यं चित्तचमत्कारः, केषां ? - देवेन्द्राणामपि यत्रैवंविधा मुनयो भवन्ति स गच्छः। तत्र प्रायश्चित्तं दशधा आहारादिग्रहणोनारस्वाध्यायभूमिचैत्ययतिवन्दनार्थं पीठफलकप्रत्यर्पणार्थंकुलगणसङ्घादिकार्थं चहस्तशताबहिर्निर्गमेआलोचना प्रायश्चित्तं भवति, आलोचना च गुरोः पुरतः प्रकटीकरणं तेनैव शुद्धिः । - समितिगुप्तिप्रमादे गुर्वाशातनायां विनयभङ्गे इच्छाकारादिसामाचार्यकरणेलधुमृषावादादत्तादानमूर्छासु अविधिनाऽऽवासादिकरणे कन्दर्पहास्यविकथाकषायविषयानुषङ्गादिषु प्रतिक्रमणं प्रायश्चित्तं मिथ्यादुष्कृतं, तेनैव शुध्यति न गुरुसमक्षमालोच्यते इति भावः २। ___सहसाऽनाभोगेन वा संभ्रमभयादेर्वा सर्वव्रतातिचारेषुउत्तरगुणातीचारेषुवादुश्चिन्तितादिषु कृतेषु वा मिश्रं प्रायश्चिततं, यद् गुरोः पुर आलोच्य तदादिष्टं मिथ्यादुष्कृतं दत्त इति भावः ३ । पिण्डोपधिशय्यादिकेऽशुद्धे ज्ञाते यद्वा कालातिक्रान्ते क्षेत्रातिक्रान्ते अनुद्गतेऽस्तमिते वा गृहीते करणगृहीते उद्धरिते वा भक्तादिके विवेकः प्रायश्चित्तं, त्यजन् शुद्ध इत्यर्थः ४, नौनदीसन्तारसावधस्वप्नादिषु कायोत्सर्ग प्रायश्चित्तं ५ । पृथ्व्यादीनां संघट्टादौ तपः प्रायश्चित्तं ६। यः षण्मासक्षमकोऽन्योवा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवतियथा किंममानेन प्रभूतेनापितपसा क्रियत इति तपःकरणासमर्थो वा ग्लानाऽसहबालवृद्धादितथाविधतपःश्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वाभवतितस्यछेदः प्रायश्चित्तं, अहोरात्रपञ्चदशकादिक्रमेण पर्यायच्छेदः क्रियत इति भावः ७। ___आकुट्टया पञ्चेन्द्रियवधे दर्पण मैथुने उत्सन्नविहरे इत्यादौ मूलंप्रायश्चित्तं, पुनव्रतारोपणमिति भावः, भिक्षोनवमदशमप्रायश्चित्तापत्तावपि मूलमेव दीयते ८। स्वपक्षे परपक्षे वा निरपेक्षप्रहारिणि करादिघातके वा अर्थादाने इत्यादी अनवस्थाप्यार्ह प्रायश्चित्तं, यावदुत्कृष्टं तपो नाचीर्णं तावद्वतेषुनस्थाप्यते पश्चात्तुस्थाप्यत इति भावः, एतआयश्चित्तमुपाध्यायस्यैव दीयते ९ तीर्थकरादीनांबहुश आशातनाकारिणि नृपघातके नपानमहिषीप्रतिसेवकेस्वपरपक्षकषायविषयप्रदुष्टे स्त्यानाद्धिनिद्रावति पाराश्चिकप्रायश्चित्तं, स त्वव्यक्तलिङ्गधारी जिनकल्पिवत् क्षेत्राद्वहिस्थाप्यते द्वादशवर्षाणि, यदि प्रभावनां करोति तदाशीघ्रमेवप्रवेश्यते गच्छे शुद्धत्वात्, इदं च प्रायश्चित्तमाचास्यैव दीयते १०। तत्रानवस्थाप्यस्तपःपाराश्चितकश्च प्रथमसंहननचतुर्दशपूर्वधरे गतौ, शेषाः पुनर्लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिता यावत्तीर्थं तावद्भविष्यन्तीति॥ अथ जीवरक्षादिद्वारेण गच्छस्वरूपमाहमू. (७५) पुढविदगअगणिमारुअ वाउवणस्सइतसाण विविहाणं। मरणंतेऽविन पीडा कीरइ मणसा तयं गच्छं। वृ. पुढ० ॥ पृथ्वीदकाग्निमारुतानां वाशब्द एषां भेदसूचकः तुशब्दस्तु यतनासूचकः, वनस्पतित्रसाणां विविधानां मनसाऽपि मरणान्तेऽपि यत्राबाधा न क्रियते स गच्छः । तत्र पृथ्वीकायस्त्रिधा-सचित्ताचित्तमिश्रभेदात्, सचित्तो द्विधा-निश्चयव्यवहाराभ्यां, रत्लशर्कराप्रभृतीनांमहापर्वतानां हिमवदादीनांच बहुमध्येयः सनिश्चयतः सचित्तः १ शेषोऽरण्यादौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003364
Book TitleAgam Sutra Satik 30 Gachchhachar PainngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages74
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_gacchachar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy