SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २३४ गच्छाचार-प्रकिर्णकसूत्रम् ७२ नन्नत्थ गाढेसुवा रोगायंकेसु" नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा अन्योऽन्यस्य-परस्परस्य मोकं-मूत्रमापातुं वा आचमितुं वा, किं सर्वथैव ?, नेत्याह-गाढा-अहिविषविशूचिकादयः अगाढाश्च ज्वरादयो रोगातकास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पते इत्यर्थः इति, एवंविधाः साधवो यत्र भवन्ति स गच्छः ।। मू. (७३) मउए निहुअसहावे हासद्दवविवजिए विगहमुक्के । असमंजसमकरते गोयरभूमट्ट विहरंति॥ वृ.मउए०॥द्रव्यभावभेदान्मृदुका द्विधा, तत्र द्रव्यमृदुका अर्कतूलादिकाः भावमृदुकाः सिद्धान्तयथोक्तकथकाः जिनोक्ते निशादिस्वभावावा निभृतस्वभावाः' अपवादापवादागमश्रवणेगुरुणा विद्यामन्त्रादिरहस्ये कथितेऽपि गम्भीरस्वभावाः गुदिनाताडिता अपिगुरुकुलावासे निश्चलचित्तावा हास्यद्रवविवर्जिताः' तत्रहास्तं-सामान्येनहसनं द्रवः-परोपहासः, यद्वा हास्यदन्तोद्घाटनादिना हसनं द्रवः कर्करादिना क्रीडादिकरणं 'विगहमुक्के' विकथाविमुक्ताः 'असमञ्जसं गुर्वाज्ञाभङ्गाद्यन्यायमकुर्वन्तः गोरिवचरणंगोचरस्तस्य भूमिर्गोचरभूमिस्तदर्थं विहरन्ति, अयं भावः-ज्ञानादिप्रयोजने भ्रमन्तिननिष्प्रयोजनमिति।यद्वा गोचरभूमि-अभिग्रहस्य द्वितीयो भेदस्तस्याष्टौ भेदास्तदर्थं विचरन्ति, उपलक्षणादन्येऽपि ग्राह्याः।। सचाभिग्रहोद्रव्यक्षेत्रकालभावभेदाच्चतुर्दा, तत्र लेपकृतंजगारिप्रमुखमलेपकृतंवा वल्लादिकं द्रव्यमहं ग्रहीष्यामि, अमुकेन वा दर्वीकुन्तादिना दीयमानमहं ग्रहीष्येऽयं द्रव्याभिग्रहः १।। क्षेत्राभिग्रहेऽष्टौ गोचरभूमयो, यथा यस्यामेकां दिशमभिगृह्योपाश्रयानिर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षार्थं परिभ्रमन् ताव याति यावत्पङ्क्तौ चरमगृहं, ततो भिक्षामगृह्णनेवापर्याप्तेऽपिप्राजलयैव गत्या प्रतिनिवर्तते साऋज्वी १, यत्र पुनरेकस्यां गृहपङ्क्ती परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्यां गृहपङ्क्तौ भिक्षामटति सा गत्वाप्रत्यागतिकार, यस्यांतुवामगृहाद्दक्षिणगृहेदक्षिणगृहाच्च वामगृहेभिक्षांपर्यटति सा गोमूत्रिका ३, यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका ४। यस्यां तु साधुः क्षेत्रं पेटावच्चतुरन विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा ५, अर्द्धपेटाऽप्येवमेव नवरमर्द्धपेटासशसंस्थानयोटिंगद्वयसंबद्धयोर्गृहश्रेण्योरत्रपर्यटति, ६तथा शम्बूकः-शास्तद्वत्यावीथिसा शम्बूका, सा द्वेधा-यस्यां क्षेत्रमध्यभागात् शङ्कावर्तया परिभ्रमणभङ्ग्या भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति साऽभ्यन्तरशम्बूका ७, यस्यां तु क्षेत्रबहिर्भागात्तथैव भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका ८। तथा श्रीवीरस्योदुमबरविषयोऽन्योऽपि स्वपरग्रामे गृहसङ्ग्याविषयः क्षेत्राभिग्रहः २, अमुकवेलायां मया भिक्षार्थं गन्तव्यमिति कालाभिग्रहः ३ । ___ तथा गायन् रुदन् अपसरणं कुर्वन् संमुखमागच्छन् पराङ्मुखः अलङ्कृतोऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्ययं भावाभिग्रह: ४ इति ।। मू. (७४) मुणिणं नानाभिग्गह दुक्करपच्छित्तमनुचरंताणं । जायइ चित्तचमक्कं देविंदाणंपितं गच्छं।। मुणिणं० ॥ मुनीन्’ साधून 'नानाऽभिग्रह' पूर्वोक्तलक्षणं दुष्करप्रायश्चित्तं चानुचरतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003364
Book TitleAgam Sutra Satik 30 Gachchhachar PainngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages74
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_gacchachar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy