________________
२३६
गच्छाचार-प्रकिर्णकसूत्रम् ७५ पृथ्वीकायः सव्यवहारसचित्तः, उदुम्बरादिक्षीरद्रुमाणामधः पथि चमिश्रः, हलकृष्टोयः सतत्क्षणादेवा ऽशुष्कः कचिन्मिश्रः २, शीतोष्णक्षारक्षत्राग्निलवणौषधकाञ्जिकस्नेहशस्त्ररभिहतोऽचित्तः३।
तथाऽप्कायोऽपित्रिधा, घनोदधिधनवलयकरकाः समुद्रमध्ये द्रहमध्येच यः सनिश्चयतः सचित्तः, शेषोऽगडादीनां व्यवहारतः सचित्तः१.अनुदृत्ते त्रिदण्डे मिश्रं वर्षे पतितमात्रं च मिश्र चाउलोदकं यावद्वहु प्रसन्न निर्मलं न स्यात्तावन्मिश्रं २, बहुप्रसन्ने त्वचित्तमेवेति ३ ।
तथेष्टकापाकादिमध्यगो विधुदादिकश्च नैश्चयिकः अङ्गारादिको व्यावहारिकः सचित्तः १, मुर्मुरादिको मिश्रः २, ओदनव्यञ्जनाचाम्लावश्रवणादिकोऽचित्ताग्निकायः३।
तथाघनतनुवाता निश्चयतः सचित्ताः, अतिहिमपातेयो वायुः अतिदुर्दिनेचस नैश्चयिकः सचित्तः, प्राच्यादिवायुर्व्यवहारतः सचित्तः, क्षेत्रतोवायुभृतोद्दतिर्जले एकहस्तशतगतश्चेदचित्तः, द्वितीयहस्तशतप्रारम्भे मिश्रः, तृतीयहस्तशतप्रारम्भे सचित्तः, कालतः वायुपूरितो वस्ति स्निग्धे उत्कृष्टमध्यमजघन्ये त्रिविधेऽपि काले अकद्वित्रिपौरुषीभिर्द्वित्रिचतुःपौरुषीभिस्त्रिचतुःपञ्चपौरुषीभिश्च यथाक्रममचित्तः मिश्रः सचित्तः स्यात्, रूक्षे त्रिविधेऽपि काले एकद्वित्रिभिर्द्वित्रिचतुर्भिस्त्रिचतुःपञ्चभिर्दिनैर्यथाक्रममचित्तः मिश्रः सचित्तः स्यात् ।।
तथा सर्व एवानन्तवनस्पतिकायो निश्चयतः सचित्तः शेषः प्रत्येकवनस्पतिर्व्यवहारतः सचित्तः १, प्रम्लानफलकुसुमपर्णानि मिश्राणि, लोट्टस्य मिश्रकालो यथा॥१॥ "पणदिण मीसो लोट्टो अचालिओसावणे य भद्दवए १३
चउ आसोए कत्तिय २ मगसिरपोसेसु तिन्नि दिना ३ ।। ॥२॥ पण पहर माहफग्गुणि ४ पहरा चत्तारि चित्तवेसाहा ५।
जिट्ठासाढे तिपहर ६ अंतमुहुत्तं च चालियओ॥ द्वीन्द्रियाः सकलजीवप्रदेशवन्तः सचित्ताः, विपर्ययादचित्ताः,जीवन्मृता एकत्र संमिलिता मिश्राः, एवं त्रीन्द्रियादयः । यतना यथा पृथिव्युदकयोर्गमने प्राप्ते पृथिव्यां गम्यं उदके पृथ्वीत्रसादिसद्भावात् १, पृथिवीवनस्पत्योः पृथिव्यां गम्यं न वनस्पती तद्दोषस्यापि संभवात् २, पृथिवीत्रसयोस्त्रसरहिते विरलत्रसे वा गम्यं निरन्तरे तु पृथिव्यामेव ३, जलवनस्पतिकायोयोर्वनस्पतिना गम्यं उदके नियमाद्वनस्पतिसद्भावात् ४, इत्यादि ।। . मू. (७६) खजूरिपत्तमुंजेण, जो पमजे उवस्सयं।
नो दया तस्स दीवेसु, सम्मं जाणाहि गोयमा । वृ.खजूरि०॥खर्जूरपत्रमयप्रमार्जन्यामुञमयबहुकर्या वा यः' साधुः उपाश्रीयते-भज्यते शीतादित्राणार्थं यः स उपाश्रयस्तुमुपाश्रयं प्रमार्जयति तस्य मुनेर्जीवेषु ‘दया' घृणा नास्ति हे गौतम ! त्वं सम्यग जानीहीति ॥ मू. (७७) जत्थ य बाहिरपाणिअ बिंदूमित्तंपि गिम्हमाईस।
तण्हासोसिअपाणा मरणेऽवि मुनी न गिण्हति ॥ वृ.जत्थ य०॥हे गौतम! यत् च गच्छे ‘बाह्यपानीयं' तटाककूपवापीनद्यादिसचित्तजलं 'बिन्दुमात्रमपि' जलकणमात्रकमपि, क्व? -ग्रीष्मादिषु कालेषुआदिशब्दाच्छीतवर्षाकालयोः, तृष्णया-द्वितीयपरीषहेणशोषिता-ग्लानिं प्रापिताःप्राणाः-उच्छ्वासादयोयेषां ते तृष्णाशोषितप्राणाः प्राणान्तेऽपि 'मुनयः' साधवो न गृह्णन्ति स गच्छ इति खुड्डुकवत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org