________________
मू० ४९
पू. (५९)
वेअण १ वेयावच्चे २ इरिअट्टाए अ ३ संजमट्ठाए ४ ॥ तह पाणवत्तिआए ५ छटुं पुण धम्मचिंताए ६ ।. वृ. वे अण० ॥ क्षुद्वेदनोपशमनाय भुङ्क्ते, यतो नास्ति क्षुत्सध्शी वेदना, उक्तञ्च119 11 "पंथसमा नत्थि जरा, दारिद्दसमो परिभवो नत्थि ।
२२९
मरणसमं नत्थि भयं, छुहासमा वेयणा नत्थि ।।"
अतस्तव्प्रशमनार्थं भुञ्जीत 9, बुभुक्षितः सन् वैयावृत्यं कर्तु न शक्नोति, अतो गुरुग्लानशैक्षादिवैयावृत्यकरणाय भुञ्जीत २, 'ईर्यार्थ' ईर्यासमित्यर्थं ३, संयमः -प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारस्तत्पालनार्थं, बुभुक्षित एनं कर्तुं न शक्नोतीतिकृत्वा ४ ।
तथा प्राणा- जीवितं तेषां वृत्यर्थं - रक्षार्थं परिलापननिमित्तमित्यर्थ ५, षष्ठं पुनर्धर्मचिन्तार्थम्, सूत्रार्थानुचिन्तनादिलक्षणं शुभचित्तप्रणिधानं, एतदपि बुभुक्षितः क्तुं न शक्नोतीतिकृत्वा भुञ्जीतेति शेषः ६ ॥ मू. (६०)
जत्थय जिट्ठकनिट्ठो जाणिजइ जिट्ठवयणबहुमाणो । दिवसेणवि जो जिट्टो न य हीलिजइ स गोअणा ! गच्छो ।
वृ. जत्थ य० ॥ यत्र गणे 'ज्येष्ठः ' व्रतपर्यायेण वृद्धः 'कनिष्ठः ' दीक्षापर्यायेण लघुः, चशब्दान्मध्यमपर्यायोऽपि ज्ञायते अयं ज्येष्ठः अयं लघुः अयं मध्यमः इत्येवं प्रकटत्वेन विज्ञायते, कस्मात् ज्ञायते ? - ज्येष्ठवचनं तस्य तस्मिन् वा बहुमानं सन्मानं यत् पूज्यैः प्रतिपादितं तत्तथेत्येवं ज्ञायत इति ।
तथा यत्र दिवसेनापि यो ज्येष्ठः स न हील्यते वचनोल्लङ्घनसम्मुखजल्पनमर्मोद्घाटनादिप्रकारेण चकाराद् यत्र पर्यायेण लघुतरोऽपि गुणवृद्धो न हील्यते वज्रं प्रति सिंहगिरिशिष्यरत्नवृन्दवत् हे गौतम! स गच्छ इति ॥ अथाऽऽर्याधिकारमाह
मू. (६१)
जत्य य अज्जाकप्पो पाणच्चाएवि रोरदुब्भिक्खे । न य परिभुंजइ सहसा गोयम ! गच्छं तयं भणियं ॥
वृ. जत्थ य० ॥ यत्र च गणे आर्याकल्पः साध्व्यानीतं रोरदुर्भिक्षे प्राणत्यागेऽपि 'सहस' त्ति सिद्धान्तोक्तविधिमकृत्वा न परिभुज्यते, यद्वा यत्र च गणे आर्याकल्पः साध्ध्यानीतमशनादिकमित्यर्थः सहसेत्युत्सर्गमार्गेण न परिभुज्यते, अपवादे तु परिभुज्यते, जङ्घाबलक्षीणश्रीअन्यकापुत्राचार्यादिवत्, हे गौतम! 'गच्छः ' गणः 'तयं' ति सः मया भणितः, आर्षत्वादत्र विभक्तिपरिणामः । अस्य गाथाया व्याख्यानमन्यदपि जिनाज्ञापूर्वकं कर्त्तव्यमिति ।। अथोत्सर्गेण जल्पनपरिचयादिकं निवारयन्नाह
मू. (६२)
जत्थ य अजाहिं समं थेरावि न उल्लवंति गयदसणा । न य झायंति थीणं अंगोवंगाई तं गच्छं ॥
बृ. जत्थ य० । । यत्र गणे 'आर्याभिः' साध्वीभिः 'समं' सार्द्धं चकाराद्रण्डागतकान्तादिभिः स्त्रीभिः सार्द्धंच तरुणाः साधव आस्तां स्थविरा अपि 'नोल्लपन्ति' न निष्कारणमालापसंलापादिकं कुर्वन्तीत्यर्थः, स्थविरास्त्रिधा, तत्र षष्टिवर्षजाता जातिस्थविराः १ समवायधराः श्रुतस्थविराः २ विंशतिवर्षपर्यायाः पर्यायस्थविरा:, ३ किंभूताः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org