________________
२२८
गच्छाचार-प्रकिर्णकसूत्रम् ५६ सति तहत्ति'त्ति तथेति यथा येन प्रकारेण यूयं वदथ तथा तेन प्रकारेणेति 'शिष्याः' सुविनेयाः 'भणन्ति' कथयन्ति यत्र तं गच्छं हे गौतम! त्वं जानीहीति, सिंहगिरिगुरुशिष्यवदिति ॥ मू. (५७) दुरुग्झिय पत्ताइसु ममत्तए निप्पेहे सरीरेऽवि।
जायमजायाहारे (जत्तयमत्ताहारे) बायालीसेसणाकुसले ।। वृ.दूरु०॥ दूरुझिय'त्ति प्राकृत्वाद्विभक्तिलोपः दूरतस्त्यक्तंममत्वं,क्व?-पात्रादिषु, आदिशब्दाद्वस्तुवसतिश्राद्धनगरग्रामदेशादिषु यैरिति शेषः, तथा 'निस्पृहाः' ईहारहिता मेघकुमारादिवत् ‘शरीरेऽपि स्ववपुष्यपि, यात्रामात्राहारकाः तत्र यात्रा-संयमगुरुवैयावृत्यस्वाध्यायादिरूपा मात्रातु तदर्थमेव पुरुषस्त्रीषण्डानांद्वात्रिंशदष्टाविंशतिचतुर्विंशतिक्रमेण कवलप्रमाणमध्यात्परिमिताहारग्रहणमिति।।
कवलप्रमाणंच कुक्कुट्यण्डं,कुक्कुट्या अण्डं कुकुट्टयण्डं, कुकुटी द्विधा-द्रव्यभावभेदतः, द्रव्यकुकुटी द्विधा--उदरकुकुटी १ गलकुकुटी च २, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यून नाप्याघ्रातं स आहार एव उदरकुकुटी, उदरपूरकाहार इत्यर्थः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं, तप्रमाणं कवलस्य १।
गल एव कुकुटी तस्या अन्तरालमण्डकं, अयं भावः-अविकृतास्यस्य पुंसो गलान्तराले यः कवलोऽविलग्नः प्रविशति तप्रमाणं कवलस्य, भावकुकुटी तु येनाहारेण भुक्तेन न न्यून नाप्यत्याघ्रातं स्यादुदरं घृतिं च समुद्वहति तावत्प्रमाण आहारो भावकुकुटीति २।
यद्वा 'जायमजायाहारे'त्ति जाताजाताहारपारिष्ठापनिकायां कुशलाः-निपुणा इत्यर्थः, तत्राधाकर्मणा लोभाद्गृहीतेन विषमिश्रेण मन्त्रादिसंस्कृतेनदोषेणच जातोच्यते, आचार्यग्लानप्राघूर्णकार्थे दुर्लभद्रव्ये सहसालाभे सत्यधिकग्रहणेऽजातोच्यत इति ।
__ अथवा जातो-गुरुग्लानादियोग्य आहार उत्पन्नस्तद्रक्षणे निपुणाः, तत्र वा निस्पृहाः, अजातो-गुरुग्लानादियोग्य आहारः अनुत्पन्नस्तदुत्पादने कुशला इति ।
तथा 'द्विचत्वारिंशदेषणाकुशलाः' तत्रैषणा चतुर्धा, कस्याप्येषणे ति नामेति नामैषणा १, एषणावतः साध्वादेरियमेषणेति स्थापनेति स्थापनैषणा २, द्रव्यैषणा-सचित्ताचित्तमित्रद्रव्यभेदात्रिधा३, भावैषणाऽपिगवेषणा १ ग्रहणैषणा २ ग्रासैषणा ३ भेदात्रिधा, तत्र गवेषणायामाधाकर्मादिधात्र्यादिद्वात्रिंशद्दोषाः, ग्रहणैषणायां शङ्कितादिदशदोषाः, ग्रासैषणायां संयोजनादिपञ्चदोषा विज्ञेया इति॥ मू. (५८) तंपि न रूवरसत्यं न य वण्णत्यं न चेव दप्पत्थं ।
संजमभरवहणत्यं अक्खोवंगं व वहणत्यं ।। वृ.तंपिन०॥'तमपि' आहारं न रूपरसार्थं तत्र रूपं-शरीरलावण्यं रसश्च-भोजनास्वादस्तदर्थं न 'नचवर्णार्थं' नच शीरकान्त्यर्थमित्यर्थ, 'नचैवदर्थ न चानङ्गवृद्धयर्थंभुञ्जीतेति शेषः, किन्तु संयमभरवहनार्थ चारित्रभारवहनार्थं भुञ्जीत, किमिव?-अक्षोपाङ्गमिव वहनार्थम्, एतदुक्तं भवति-यथाऽभ्यङ्गं शकटाक्षे युक्त्या दीयते न चातिबहु न चातिस्तोकं भरवहनार्थ साधूनामाहारः॥
तमपि कारणे भुङ्क्तेऽतः कारणमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org