________________
२३०
गच्छाचार-प्रकिर्णकसूत्रम् ६२ गताः-प्रनष्टा दशना-दन्तायेषांतेगतदशनाः, 'नध्यायन्ति नसरागदृष्ट्या चिन्तयन्तीत्यर्थः 'स्त्राणां नारीणां, कानि?-- अङ्गोपाङ्गानि तत्र अङ्गान्यष्टौ बहाद्य २ ऊरुद्वय ४ पृष्ठि ५ शिरो६ हृदयो७दर ८ लक्षणानि, उपाङ्गानि-कर्णनासिकादीनि, चकारान्न विलोकयन्तिकदाचिदृष्टाऽपि नान्यस्मिन् वर्णयन्ति स गच्छ इति ॥ किञ्चमू. (६३) वजेह अप्पमत्ता अासंसग्गि अग्गिविससरिसं।
अजानुचरो साहू लहइ अकित्तिं खु अचिरेण ।। वृ. वज्जे० ।। 'वर्जयत' मुञ्चत ‘अप्रमत्ताः' प्रमादवर्जिताः सन्तोयूयं, कं? -'आर्यासंसर्ग' एकान्तसाध्वीपरिचयादिकमित्यर्थः, किंभूतं ? -'अग्निविषसध्शं' यथाऽग्निना सर्वं भस्मसास्यात्तथाऽऽसां संयोगे चारित्रं भस्मसाद्भवति, यथा च तालपुटविषं जीवानां प्राणनाशकरं भवति तथाऽऽसां परिचयश्चारित्रप्राणनाशकरः, कूलवालुकवत्।
तथा आर्यानुचरः' आर्या-साध्वीतस्या अनुचरः-किकरः,कः? -'साधुः' मुनि ‘लभते' प्राप्नोति 'अकीर्ति' असाधुवादं यथा अहो साधुत्वं अहो तपोधनत्वं अहो त्यक्तगृहगृहिणीसङ्गत्वं अहो शिवमार्गसाधकत्वं अहो इन्द्रियबाधकत्वमित्याद्यवर्णवादरूपंखुयस्मादर्थे अचिरेण इति स्तोककालेन, अतो हे मुनयः! आर्यासंसर्ग वर्जयतेति ।। मू. (६४) रस्स तवस्सिस्स व बहुस्सुअस्स व पमाणभूयस्स।
अज्जासंसग्गीए जनजपणयं हविजाहि ॥ वृ. थेर०॥ स्थविरस्य' वृद्धस्य 'तपस्विनो वा' अष्टामादितपोयुक्तस्य वा बहुश्रुतस्य' अधीतबहागमस्य वा 'प्रमाणभूतस्य' सर्वजनमान्यस्य एवंविधस्य सादोरपि 'आर्यासंसर्गेण' बहुतमसाध्वीपरिचयेन 'जनजंपणयंति लोकमध्येऽपकीर्तिलक्षणं भवेत् यथा एष सुलक्षणो नेति॥ मू. (६५) किं पुण तरुणो अबहुस्सुओ अ नयवि हु विगिकृतवचरणो।
अज्जासंसगीए जनजंपणयं न पाविजा ।। वृ.किं पुण०॥किं पुनः 'तरुणः' युवा, किंभूतः ? -'अबहुश्रुतः' आगमपरिज्ञानरहितः, चकारान्न देशादौ मुख्यत्वेन प्रवृत्तः,नचापिहुविकृष्टतपश्चरणो-नदशमादितपःकर्ता, एवंविधो मुनि 'आर्यासंसर्या' निष्कारणं मुण्ड्या सह विकथापरिचयादिकरणेन ‘जनवचनीयता' लोकापवादलक्षणां किं न प्राप्नुयात् ?, अपितु प्राप्नुयादित्यर्थः ॥ मू. (६६) जइवि सयं थिरचित्तो तहावि संसग्गिलद्धपसराए।
अग्गिसमीवे व घयं विलिज चित्तं खु अजाए। वृ. जइ० ॥ यद्यपि स्वयं' आत्मना 'स्थिरचित्तः' ढाध्यवसायः साधुस्तथाऽपि तस्य मुनेः संसर्या-गमनागमनादिरूपया लब्धः-प्राप्तः प्रसरः--अवसरोघटीद्विघट्यादिवार्तालापादिरूपो यया सा तया आर्यया अग्निसमीपे घृतवत् विलीयते रागवद्भवतीत्यर्थः 'चित्तं' साधोः साध्व्यध्यवसानरूपं 'खु' निश्चयेनेति॥ मू. (६७) सव्वत्थ इस्थिवग्गमि अप्पमत्तो सया अवीसत्यो।
नित्याइ बंभचेरं तब्विवरीओ न नित्थरइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org