SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ मू० २४ २१९ ६ पलाल ७ बूरक ८ काष्ठा ९ ङ्गार १० क्षेत्र ११ गृह १२ दूरदेशव्यवसायि १३ बलीवर्द १४ घृत १५ चर्म १६ भोजन १७ सेइमाणाक १८ रूपाष्टादशकररहितं राज्यं सप्ताङ्गमयं, अथवा राज्यमिति सर्वत्र योज्यं, यथा कुलराज्यं ग्रामराज्यं नगरराज्यं, यद्वा कुलग्रामनगराणि यत्रैवंविधं राज्यं 'पयहिय'त्ति त्यक्त्वा पुनरिति शेषः 'यः' साध्वाभासः 'तेषु' कुलादिषु 'करोति' विधत्ते 'हुः ' निश्चितं 'ममत्वं' ममैतदिति मन्यते 'सः' पूर्वोक्तः केवलं 'लिङ्गधारी' वेषमात्रधारी संयमः --पश्चाश्रवविरमण ५ पञ्चेन्द्रियनग्रह १० कषायचतुष्टयजय १४ दण्डत्रयविरति १७ लक्षणस्तस्य योगो - व्यापारस्तेन निस्सारो- गतसार इति ॥ पुनर्गार्थात्रयेणोत्तमाचार्यस्वरूपमाह मू. (२५) वृ. विहि० ।। 'विधिना' आगमोक्तन्यायेन यः आचार्य तुशब्दादुपाध्यायादिकः 'चोएइ'त्ति नोदयति - प्रेरयति नोदनस्मारणवारणप्रतिनोदनादिभि शिष्याणामिति, 'सूत्र' आचाराङ्गादिकं उत्सर्गा १ पवादो २ त्सर्गापर्वादिका ३ पवादौत्सर्गिको ४ सर्वोत्सर्गिका ५ पवादापवदिकात्मकं ६, तथा सूत्रपाठनन्तरं तस्यैव नियुक्तिभाष्यचूर्णिसंग्रहणीवृत्यादिरूपं परम्परत्मकमर्थं 'ग्राहयति' शिक्षयति चकारात् नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढैवंभूतान् सप्त नयान् ज्ञापयति स आचार्य ‘धन्यः’ सूत्रधनदायकत्वात् स च 'पुण्यः' अर्थदानपुण्यकृत्वात् चकाराजिनाज्ञाप्रतिपालकः स बन्धुरिव बन्धुः कुमत्यादिनिवारणेन सन्मार्गे स्थापकत्वात् मुक्ख० ज्ञानेन जीवादिपदार्थपरिज्ञानं तेन संयमे ढत्वं ढत्वेन कर्माभावस्ततो मोक्षदायक इति ॥ पू. (२६) विहिणा जो उ चोएइ सुत्तं जत्थं च गाहई । सो धन्नो सो अ पुन्नो य, स बंधू मुक्खदायगो ॥ स एव भव्वसत्ताणं, चक्खूभू एवियाहिए। दंसेइ जो जिणुद्दि, अणुट्ठाणं जहट्ठियं ॥ , वृ. स ए० ॥ स एव' अनन्तरोक्त एव 'भव्यसत्वानां' मोक्षगमनयोग्यजन्तूनां 'चक्षुर्भूतः' नेत्रतुल्यः 'व्याहतः कथितः जिनादिभि ' दर्शयति' कुमतिपटलनिराकरणेन प्रकटयति 'यः' आचार्यशिरोमणि 'जिनोद्दिष्टं' जिनोक्तं 'अनुष्ठानं' मोक्षपथप्रापकं रत्नत्रयं 'यथास्थितं' या शं स्यात्ताध्शम् ।। पू. (२७) तित्थयरसमो सूरी सम्मं जो जिनमयं पयासेइ । आणं अइक्क मंतो सो काउरिसो न सप्पुरिसो ॥ वृ. तित्थ० ॥ तीर्थं चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कुर्वन्तीति तीर्थकरास्तेभ्यः समः - तुल्यः, देशसमत्वमिदं विज्ञेयं, अन्यथा क्व तीर्थकरत्वंकाचार्यत्वमिति, कः ?सूरि :- अनेकातिशयसंयुक्तो गौतमादिसद्दश आचार्यः 'सम्यगु' इति सर्वशक्त्या यो 'जिनमतं' जगत्प्रभुदर्शनं नित्यानित्यादिस्वरूपवाचकं सप्तनयात्मकं कुमततरुगजायमानं 'प्रकाशयति' भव्यान् दर्शयतीत्यर्थः, 'आज्ञां' पारगतोक्तमर्यादां 'अतिक्रमन्' उल्लङ्घयन् पुनः सः 'कापुरुषः पुरुषाधमः, 'न सत्पुरुषः' न प्रधानपुरुषो, जमालिवदिति ॥ अथ कीशा आचार्या आज्ञातिक्रामका भवन्ति ?, आहभट्टायारो सूरी १ भट्टायाराणुविक्खओ सूरी २ । For Private & Personal Use Only पू. (२८) Jain Education International www.jainelibrary.org
SR No.003364
Book TitleAgam Sutra Satik 30 Gachchhachar PainngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages74
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_gacchachar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy