________________
२१८
गच्छाचार प्रकिर्णकसूत्रम् २२
आचार्य 'रक्षति' धत्ते कुमार्गे पतितमिति शेषः, कं ? - 'गच्छं' गणं, किंभूतं ? सबालाश्च ते वृद्धाश्च सबालवृद्धास्तैराकुलः - सङ्कीर्णस्तं सबालवृद्धाकुलं, किमिव ?, चक्षुरिव, यथा चक्षुर्गर्त्तादी पतन्तं जन्तुगणं धत्ते तथाऽयमिति ।। अथाधमाचार्यस्वरूपं गाथाद्वयेनाहसीयावेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ । सो नवरि लिंगधारी संजमजोएण निस्सारो ।।
पू. (२३)
वृ. सीया० ॥ सीयावेइ' त्ति शिथिलत्वं प्रापयति मुनीनामिति शेषः, कं प्रति ? - विहारं प्रति, अथवा 'सीयावेइ' त्ति स्वयमलसो भवति, क्व ? - विहारे, अत्र "सप्तम्या द्वितीये " ति प्राकृतसूत्रेण सप्तम्यर्थे द्वितीयेति, अत्र विहारस्वरूपं बृहत्कल्पादिभ्यो यथा--साधूनां ग्रामनगरराजधान्यादिषु वृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गृहपद्धतिरहितेषु एकं मासं यावद्वस्तुं कल्पते कारणं विना हेमन्तग्रीष्मयोः, कारणे तु पाटकपरावर्त्तनं क्रियते, तदभावे गृहपरावर्त्तनं, तदभावे वसतावेद स्थानपरावर्त्तनं, न त्वेकस्थानवसनमिति, ग्रामादिषु वृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गुहपद्धतियुक्तेषु मासद्वयं यावद्वस्तुं कल्पते हेमन्तग्रीष्मयोः, मासमेकमन्तः बहिरेकं च, यत्रैव वसति तत्रैव भिक्षाचर्या भवति, एवं साध्वीनामपि, नवरं यत्र साधूनां मासकल्पस्तत्र साध्वीनां मासद्वयं यावद्वस्तुं कल्पते
तथा सुखशीलस्य - साताभिलाषिणो गुणाः पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैर्य 'अबुद्धीओ' त्ति तत्वज्ञानरहितः, यद्वा 'सुहसीलगुणेहिं'ति, इत्यत्र सप्तम्यर्थे तृतीया, सुखं चउपशमसन्तोषलक्षणं शीलं च- मूलगुणलक्षणं गुणाश्च - उत्तरगुणरूपास्तेषु यः, न विद्यते बुद्धि:अन्तः करणभावरूपा यस्यासौ अबुद्धिः अबुद्धिरेवाबुद्धिकः भावशून्य इत्यर्थः- यद्वा सुखे - मोक्षलक्षणे शीलं --स्वभावो येषां ते सुखशीलाः-जिनास्तेषां गुणाः - केवलज्ञानकेवलदर्शनादिरूपास्तेषु यः 'अबुद्धीओ' ति अत्र नञ् कुत्सार्थे कुत्सिता- विरुद्धप्ररूपणरूपा बुद्धि:मतिर्यस्यासी अबुद्धिकः, 'स' पूर्वोक्तः 'नवरं' केवलं लिङ्गं साधुनेपथ्यरूपं धरतीत्येवंशीलो लिङ्गधारी, द्रव्यलिङ्गधारत्यर्थः ।
तथा संयमः पृथिव्यादि सप्तदशलक्षणः, यथा पृथिवी १ भू२ वह्नि ३ वायु ४ तरु ५ द्वि ६ त्रि ७ चतुः ८ पञ्चेन्द्रियाणां ९ मनोवाक्कायैः करणकारणानुमतिभि संरम्भसमारम्भारम्भवर्जनमिति जीवसंयमः, पुस्तकादीन् प्रतिलेखनापूर्वकं धारयतोऽजीवसंयमः १०, प्रेक्ष्य चक्षुषा शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः ११, पार्श्वस्थादीनामुपेक्षणमुपेक्षासंयमः १२, सचित्ताचित्तमिश्ररजोऽवगुण्डितपादादीनां प्रमार्जनं प्रमार्जनासंयमः १३, अनुपकारकं वस्तु विधिना परिष्ठापयतः परिष्ठापना संयमः १४, द्रोहेर्ष्यादिभ्यो निवृत्तिर्धर्मध्यानादिषु प्रवृत्तिर्मनः संयमः १५, एवं वाक्काययोरपि १६ १७, तस्य योगः प्रतिलेखनादिव्यापारस्तेन निस्सारश्चर्वितताम्बूलवदिति, यद्वा 'संजम ० ' निर्गतं सारं स्वर्गापवर्गफलं यस्य स निस्सारः, केन ? - संयमश्च योगश्च योगोद्वहनं संयमयोगं तेन, बाध्यसंयमयोगोद्वहनहेतुत्वादिति ॥
मू. (२४)
कुलगामनगररज्जुं पयहिय जो तेसु कुणइ हु ममत्तं ।
सो नवरि लिंगधारी संजमजोएण निस्सारो ॥
वृ. कु० ॥ कुलं - गृहं ग्रामं - सकरं नकरं - गो १ महिषी २ उष्ट्र ३ च्छाग ४ च्छगली ५ तृण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International