________________
मू०२१
२१७
पायाभ्याहृतं लोभपिण्डः अनन्तकायाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतच्छर्दितानि संयोजना साङ्गारं वर्तमानभविष्यनिमित्तं चेति लघवो दोषाः, मूलप्रायश्चित्ताच्चतुर्थतपोवत् १ तेभ्यः कम्ौद्देशिकाद्यभेदः मिश्रप्रथमभेदः धात्रीत्वं दूतीत्वं अतीतनिमित्तं आजीवनापिण्डः वनीपकत्वं बादरचिकित्साकरणं क्रोधमानपिण्डौ संबन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डाः प्रकाशकरणं द्विविधं द्रव्यक्रीतं आत्मभावक्रीतं लौकिकप्रामित्यपरावर्तिते निष्प्रत्यपायपरग्रामाभ्याहृतं पिहितोद्भिन्नं कपाटोद्भिन्नं उत्कृष्टमालापहृतं सर्वमाच्छेद्यं सर्वमनिसृष्टं पुरःकर्म पश्चात्कर्मगर्हितम्रक्षितं संसक्तम्रक्षितं प्रत्येकाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतच्छर्दितानि प्रमाणोल्लङ्घनं सधूमं अकारणभोजनं चेति लघवो दोषाः ।
चतुर्थादाचाम्लमिवर एतेभ्योऽप्यध्यवपूरकान्त्यभेदद्वयंकृतं भेदचतुष्टयं भक्तपानपूतिकं मायापिण्डः अनन्तकायव्यवहितनिक्षिप्तपिहितादीनि मिश्रानन्ताव्यवहितनिक्षिप्तानि चेति लघवः, आचाम्लादेकभक्तमिव ३ एतेभ्योऽप्योघोद्देशिकमुद्दिष्टभेदचतुष्टयमुपकरणपूतिकं चिरस्थापितं प्रकटकरणं लोकोत्तरं परावर्तितं प्रामित्यं च परभावक्रीतं स्वग्रामाभ्याहृतं दर्दरोद्भिन्नं जघन्यमालापहृतंप्रथमाध्यवपूरकः सूक्ष्मचिकित्सा गुणसंस्तवकरणं मिश्रकर्दमेन लवणसेटिकादिना च प्रक्षितं पिष्टादिम्रक्षितं किञ्चिद्दायकदुष्टं प्रत्येकपरम्परस्थापितादीनि मिश्रानन्तरस्थापितादीनि चेति लघवः, एकभक्तात्पुरिमार्द्धमिव ४ एतेभ्योऽपि त्वित्वरस्थापितं सूक्ष्मप्राभृतिका सस्निग्धसरजस्कम्रक्षितं प्रत्येकमिश्रं परम्परस्थापितादीनि चेति लघवः, पुरिमार्द्धानिर्विकृतिकमिवेति ५
विशेषस्तु छेदग्रन्थादवसेय इति॥ मू. (२२) अपरिस्सावी सम्म समपासी चेव होइ कजेसुं।
सो रक्खइ च पिव सबालवुझउलं गच्छं ।। वृ.अप०॥नपरिश्रवति-नपरिगलतीतिअपरिश्रावी,आचाराङ्गोक्ततृतीयभङ्ग (ह्रद)तुल्य इत्यर्थः,तद्यथा-एकोहदः परिगलच्छ्रोताः पर्यागलच्छ्रोताश्च, शीताशीतोदाप्रवाहहदवत्, यतस्तत्र जलं निर्गच्छत्यागच्छति च १ अपरस्तु परिगलच्छोताः नो पर्यागलच्छोताः पद्महदवत्, पद्महदे तुजलंनिर्गच्छतिन त्यागच्छति २ तथा परोनो परिगलतश्रोताः पर्यागलत-श्रोताच, लवणोदधिवत्, लवणे आगच्छति जलं न तु निर्गच्छति ३ अपरस्तु नो परिगलतश्रोता नो पर्यागलतश्रोताच, मनुष्यलोकाहिः समुद्रवत्, तत्र नागच्छतिन च निर्गच्छति।।तत्राचार्य श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्यदानग्रहणसद्भावात् १ साम्परायिककमपिक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावः कायोत्सर्गादिना क्षपणापत्तेश्च, साम्परायिककर्मतु कषायकर्म २ आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनायाः अप्रतिश्रावित्वात् ३ कुमार्गप्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात् ४ ।।
यद्वा केवलं श्रुतमाश्रित्य धर्मभेदेन भङ्गा योज्यन्ते, तत्र स्थविरकल्पिकाचार्या प्रथमभङ्गपतिताः १ द्वितीयभङ्गपतितास्तु तीर्थकृत् २ तृतीयभङ्गकास्त्वाहालन्दिकाः, तेषां च क्वचिदर्थापरिसमाप्तावाचार्यादेर्निर्णयसद्भावात् ३ प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः ४, कथं ?, सम्यक्-सर्वप्रकारेण, तथा समा–अविपरीता पासीति-द्दष्टिदर्शनवलोकनं यस्यासौ समष्टिर्भवति, क्व ? - सर्वकार्येषु' आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः ‘सः' पूर्वोक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org