SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ २१६ गच्छाचार-प्रकिर्णकसूत्रम् १८ अथ कथं प्रमादिनं गुरुं बोधयति? इत्याहमू. (१९) तुम्हारिसावि मुनिवर ! पमायवसगा हवंति जइ पुरिसा । तेणऽनो को अम्हं आलंबण हुन्ज संसारे ॥ वृ, तुम्हा०॥युष्माध्शा अपि हे 'मुनिवर !' श्रमणश्रेष्ठ 'प्रमादवशगाः' प्रमादपरवशा भवन्ति 'यदि' चेत् 'पुरुषाः' पुमांसः तेन कारणेन 'अन्यः पूज्यव्यतिरिक्तः कः 'अस्माकं' मन्दभाग्यानामकृतपुण्यानांप्रमादपरवशानां भवच्चरणारविन्दचञ्चरीकाणां त्यक्तपुत्रगृहगृहिणीनां आलम्बनं सागरे नौरिव भविष्यति भयङ्करे पीडाकरे शोकभरे दुःखाकरे अपारसंसारे चतुर्गत्यात्मके पततामिति॥ मू. (२०) नाणमिदंसणंमिय चरणमि यतिसुवि समयसारेसु। __ चोएइ जो ठवेउं गणमप्पाणं च सो अगणी ।। वृ. नाणं०॥ ज्ञाने' अष्टविघज्ञानाचारे दर्शने' अष्टविधदर्शनाचारे च ‘चरणे' अष्टविधचारित्राचारे च त्रिष्वपि समयसारेषु, चशब्दात्तपआचारे वीर्याचारे च, 'चोएइ'त्ति प्रेरयति यो 'गणी' सूरि, किं कर्तुं ?-स्थापयितुं, कं ?-“गणं' कुलसमुदायरूपं 'आत्मानं च' स्वयं च, चशब्दात् श्रोतृवर्गं च, सच 'गणी' आचार्य कथितो गणधरादिभिः ।। मू. (२१) पिंडं उवहिं सिजं उग्गमउप्पायणेसणासुद्धं । चारित्तरखणट्ठा सोहिंतो होइ स चरित्ती।। वृ.पिंडं० ॥ पिण्डं' चतुर्विधाहारलक्षणं । 'उपधिं' औधिकौपग्रहिकलक्षणं, तत्रौधिकस्त्रिधा-मुखवस्त्रिका १ पात्रकेशरिका २ गुच्छकः ३ पात्रप्रस्थापनं ४ चेति चतुर्विधो जघन्यः, पटलानि १ रजस्त्राणं २ पात्रबन्धः ३ चोलपट्टः ४ मात्रकं ५ रजोहरणं ६ चेति षड्विधो मध्यमः, पतद्ग्रहः १ कल्पत्रयं ४ चेति चतुर्विध उत्कृष्टः, औपग्रहिकोपधिरपिदण्डासनक १ दण्डक र पुस्तका ३ दिभेदेन त्रिधा स्यात्, विशेषतो जीतकल्पटीकादिभ्यो ज्ञेयमुषधिस्वरूपमिति।। _ 'शय्यां' आचाराङ्गोक्तवसतिलक्षणां, एतत्रयमुद्गमोत्पादनैषणादोषशुद्धं । तत्रोद्गमः-पिण्डस्योत्पत्ति तद्विषया आधाकर्मिकादयः षोडश दोषा उद्गमदोषाः, एते च प्रायेण गृहिभ्यः समुत्पद्यन्ते, प्रायेणेत्युक्ते स्वद्रव्यक्रीतस्वभावक्रीतलोकोत्तरप्रामित्यलोकोत्तरपरिवर्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति १६ । उत्पादना-मूलतः शुद्धस्यापिपिण्डस्य धात्रीत्वादिभिरुपार्जनं तद्विषयाः षोडश दोषाः, साधुसमुत्थाः ते उत्पादनादोषाः, साधुनैव तेषां विधीयमानत्वात् १६। एषणा-शङ्कितादिभिरन्वेषणं तद्विषया गृहिसाधुजन्या दश दोषाः एषणादोषाः, शङ्कितदोषस्य साधुभावापरिणतदोषस्यच साधुजन्यत्वात् शेषाणांचगृहिप्रभवत्वादिति, चारित्ररक्षार्थ' संयमपरिपालनार्थं 'शोधयन्' विशुद्धपिण्डग्रहणार्थमवलोकयन् तदप्राप्तौ गुरुलघुदोषानन्वेषयंश्च भवतिस'चारित्री' चारित्रवानित्यर्थः, गुरुलघुदोषस्वरूपं यथा तत्रसर्वगुरुमूलकर्म, तत्र मूलं १८०। एत स्माचाधाकर्मकं कर्मोद्देशिकचरमत्रिक मिश्रान्त्यद्विकं बादरप्राभृतिका सप्रत्यः www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003364
Book TitleAgam Sutra Satik 30 Gachchhachar PainngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages74
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_gacchachar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy