________________
२२०
गच्छाचार-प्रकिर्णकसूत्रम् २८ उम्मग्गठिओ सूरी ३ तित्रिवि मग्गं पणासंति।। वृ.भट्ठा०||भ्रष्टः-सर्वथाशिथिलीभूतः आचारो-ज्ञानाचारादिर्यस्यस भ्रष्टाचारः 'सूर' अधर्माचार्य १ भ्रष्टाचाराणां-मुक्तसंयमव्यापाराणांमुनीनामुपेक्षकः,प्रमादप्रवृत्तसाधुसाध्वीवृन्दान् न निवारयतीत्यर्थः, 'सूरिः' मन्दधर्माचार्यः २ 'उन्मार्गस्थितः' उत्सूत्रादिप्ररूपणे प्रवृत्तः 'सूरि अधमाधमो नामाचार्य ३ एते त्रयोऽपि मार्ग' ज्ञानादिरूपं पन्थानं 'प्रणाशयन्ति' भृशं विनाशयन्तीत्यर्थः । एतान् यः सेवते तस्य फलं दर्शयन्नाहमू. (२९) उम्मग्गठिए सम्मग्गनासए जो उ सेवए सूरि।
निअमेणं सो गोयम! अप्पं पाडेइ संसारे ।। वृ. उम्म० । 'उन्मार्गस्थितान्' आगमविरुद्धप्ररूपकान् ‘सन्मार्गनाशकान्' जिनोक्तमार्गदूषकान् 'यः' भव्यसत्वः सेवते, तदुक्तमनुष्ठानं कुरुत इत्यर्थः,तुशब्दात्तदुक्तमनुष्ठानं कारयति अनुमोदयति च, 'सूरि मिति 'सूरीन्' आचार्यान् प्राकृतत्वादेकवचनं, 'नियमेन' निश्चयेन स हे गौतम ! आत्मानं स्वयं पातयति 'संसारे' भवान्धकूपे क्षिपतीत्यर्थः ।। किञ्चमू. (३०) उम्मग्गठिओ एक्कोऽवि नासए भव्वसत्तसंघाए ।
तंमग्गमणुसरंतं जह कुत्तारो नरो होइ ।। वृ.उम्म०॥ एकोऽपि' अद्वितीयोऽपिसूरि साधुर्वा उन्मार्गस्थितः कुमतिकदाग्रहग्रस्तो नाशयति, संसारसागरे पातयतीत्यर्थः भव्सत्वसङ्घातं' भवसिद्धिकजन्तुसमूहं तन्मार्ग अनुसरन्त' आश्रयन्तं, यथेति दृष्टान्तोपदर्शने 'कुतारः' कुत्सिततारको नरो भवति स बहून् पृष्ठलग्नान् जन्तुसमूहान् नद्यादौ बोलयति आत्मानमपि च बोलयतीति ।
अथोन्मार्गपरम्परालग्नानामाचार्याणां मुनीनां च किं फलं भवति? इत्याहमू. (३१) उम्मग्गमग्गसंपडिआण साहूण गोअमा! नूनं ।
संसारो अअणंतो होइ य सम्मग्गनासीणं॥ वृ. उम्म० ॥उन्मार्गा-गोशालकबोटिकनिह्नवादयस्ते तेषां मार्ग-परम्परा तस्मिन् यद्वा उन्मार्गरूपोयोमार्गस्तस्मिन् स्थितानां साधूनां' मुनिवेषाभासकानांउपलक्षणत्वात्तदाचार्याणामपि हे 'गौतम!' हे इन्द्रभूते! 'नूनं निश्चितं 'संसारः' चतुर्गत्यात्मकः न विद्यतेऽन्तः-पर्यन्तो यस्यासावनन्तो भवति, चकारस्तद्गतानेकदुःखसूचकः, किंभूतानां ? – सन्मार्गनाशिनां' जिनोक्तपथाच्छादकानां, महानिशीथोक्तमुनिचन्द्रसाधुवत् ।।
अथ कोऽपि कदाचिप्रमादपरत्वेन न जिनोक्तक्रियां करोति परन्तु भव्यानां यथोक्तं जिनमार्ग दर्शयति स कस्मिन् मार्गे आत्मानं स्थापयति?, तदविपरीतश्च कीशो भवति?, इत्याहमू. (३२) सुद्धं सुसाहुमग्गं कहमाणो ठवइ तइअपक्खंमि ।
अप्पाणं इयरो पुण गिहत्यधम्माओ चुक्कत्ति। वृ.सुद्धं०॥'शुद्धं आज्ञाशुद्धिसंयुक्तं सुसाधुमार्ग' सुविहितपथं कथयन्' आकाङ्क्षाऽभावेन प्ररूपयन् 'स्थापयति' रक्षयति 'आत्मानं' स्वयं, क्व ? -साधुश्रावकपक्षद्वयापेक्षया 'तृतीयपक्षे' संविग्नपाक्षिके, संविग्नानां-मोक्षाभिलाषिसुसाधूनां पाक्षिकःसाहाय्यकर्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org