________________
२१३
मू०११ पूर्वभवरोहिणीश्राविकावत् । यद्वा कथाचतुर्धा यथा-आक्षिप्यते मोहात्तत्वं प्रत्याकृष्यते श्रोता यया साऽऽक्षेपणी १, विक्षिप्यते कुमार्गविमंखो विधीयते श्रोता यया सा विक्षेपणी २ संवेद्यतेमोक्षसुखाभिलाषी विधीयते यया सा संवेदनी ३, निर्वेद्यते-संसारनिर्विण्णो विधीयते यया सा निर्वेदिनी ४, तद्विपरीता विकथातस्यां तत्परस्तं, हे सौम्य! एवंविधं सूरिमुन्मार्गगामिनं जानीहीति
पूर्वदोषवतामदत्तालोचनानांदोषवत्वमुक्तम्, अथ किं गुणवतामालोवनास्वरूपवेत्तणां सा गृहीता विलोक्यते न वा? इत्याहमू. (१२) छत्तीसगुणसमण्णागएण तेणवि अवस्स कायव्या।
परसक्खिया विसोही सुदृवि ववहारकुसलेण ।। __वृ.छत्ती० ॥देशकुलादयः षट्त्रिंशद्गुणा यथा-आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् १, पैतृकं कुलं, सुकुलोद्भवो यथोत्क्षिप्तभारोद्वहने न श्राम्यति २, मातृकी जातिस्तत्संपन्नो विनयान्वितः स्यात् ३, रूपवान्आदेयवाक्यः स्याद् आकृतौ गुणा वसन्तीति४, संहननयुतो व्याख्यानादिषुन श्राम्यति५,धृतिः-चित्तावष्टम्भस्तद्युतो गहनेष्वप्यर्थेषुन भ्रमंयाति६,अनाशंसी न श्रोतभ्यो वस्त्राद्याकाङ्क्षते७, अविकत्थनो न बहुभाषी स्यात् ८, अमायी-शाठ्यत्यक्तः ९, स्थिरपटिपाटिः, तस्य हि सूत्रमर्थश्च न गलति१०, गृहीताक्योऽप्रतिघातवचनः स्यात्११,जितपर्षत् परप्रवादिक्षोभ्यो न स्यात् १२,जितनिद्रोऽल्पनिद्रः १३, मध्यस्थः सर्वशिष्येषु समचित्तः१४, देश १५ काल १६भाव १७ज्ञः सुखेन विहरति १७आसनलब्धप्रतिभः परतीर्थिकादीनामुत्तरदाने समर्थः१८ । नानाविधदेशभाषाज्ञो नानादेशजविनेयान् सुख्खन शास्त्रणि ग्राहयति १९,
पञ्चविधाचारयुतः श्रद्धेयवचनः स्यात् २४, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपकः स्यात् २५, आहरणदृष्टान्तः २६, हेतुर्द्विधा-कारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्यञ्जकः प्रदीपः २७, उपनयः--उपसंहारो दृष्टान्तहष्टस्यार्थस्य प्रकृते योजनमिति भावः, क्वचित् कारणं-निमित्तं २८, नया-नैगमादयस्तेषु निपुणः २९, सहि श्रोतारमपेक्ष्यतातिपत्यनुरोधतः क्वचिद् दृष्टान्तोपन्यासं २६क्वचिद्धेतूपन्यास २७ क्वचिदधिकृतमर्थमुपसंहरति २८, नयप्रस्तावे नयानवतारयति २९, ग्राहणाकुशलः प्रतिपादनशक्तियुक्तः३०, स्वसमयं परसमयं वेत्ति, परेणाक्षिप्त उभयं निर्वाहयति ३१।३२ । गम्भीरः-अतुच्छस्वभावः ३३, दीप्तिमान् परवादिनामक्षोभ्यः ३४, शिवोमारिरोगाधुपद्रवविघातकृत् ३५, सौम्यः शान्त- दृष्टितया प्रीत्युत्पादकः ३६।
तैःसमन्वागतेन-संयुक्तेनतेनापि, अन्यआस्ताम्, अवश्यं-निश्चयेन कर्त्तव्या,का? -परेषामाचार्याणां साक्षिकी परसाक्षिकी विशेषेण-निर्मायत्वेन शुद्धि-दोषमलकर्षणं विशुद्धिरालोचनेत्यर्थ, पुनः किंविशिष्टेनतेन?-सुष्ठवपि ज्ञानक्रियाव्यवहारकुशलेन-सुविहितेनेति, यद्वा सुष्ठवपि व्यवहारेषु पञ्चप्रकारेषुआगम १ श्रुता२ ज्ञा३ धारणा ४ जीतलक्षणेषु ५ कुशलोनिपुणस्तेन, तत्राऽऽगम्यन्ते-परिच्छिद्यन्ते पदार्था अनेनेत्यागमः स च केवलिमनःपयज्ञान्यवधिज्ञानिचतुर्दशपूर्विदशपूर्वनवपूर्विणां भवति।
तत्र यदि केवली प्राप्यते तदा तस्यैवालोचना दीयते तदभावे परेषां १, निशीषकल्पव्यवहारदशा श्रुतस्कन्धप्रमुखं सर्वमपिश्रुतव्यवहारः २, देशान्तरस्थिते गुरौशिष्योगूढपदानि लिखित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org