SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ २१२ गच्छाचार-प्रकिर्णकसूत्रम् ११ सा च नवमपूर्वात्त तीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्रामृतात् तत्राप्योघप्राभृतात्रियूंढेति । पदविभागसामाचारी जीतकल्पकनिशीथादिच्छेदग्रन्थोक्ता, साऽपि नवमपूवदिव २ । चक्रवालसमाचारी तु अभ्यर्थनैव तावत्साधूनां न कल्पते, कारणे तु यद्यभ्यर्थयेत् परं तत्रेच्छाकारः कार्य, यद्वा तस्य कुर्वतः किञ्चित् कश्चिन्निर्जरार्थीब्रूते, यथा-तव कार्यमहं विधास्ये, तत्रापीच्छाकारोनबलात्कारः,दुर्विनीते बलात्कारोऽपि १, कल्पाकल्पे ज्ञानविष्ठांप्राप्तस्यसंयमतपोभ्यामादयस्य गुरोनिर्विकल्पं वाचनादौ यद्यूयं वदत तत्तथेति वाच्यं २, संयमयोगेऽन्यथाऽऽचरिते सति मिथ्याकारः ३, गुरुणा पूर्वनिषिद्धेनावश्यकार्यत्वात्प्रतिपृच्छा, पूर्वनिरूपितेन वा करणकाले पुनः प्रतिपृच्छा७, पूर्वगृहीतेनाशनादिना छन्दनम् आह्वानं साधूनां कार्यम् ८,अटनार्थ गच्छता निमन्त्रणं ९, ज्ञानाद्यर्थमन्यगुरोराश्रयणमुपसंपत् १०-३। अन्या वा निशीथोक्ता दशधा सामाचारी, यथा प्रातःप्रभृति क्रमशः प्रतिलेखना उपधेः १,ततःप्रमार्जना वसतेः२, भिक्षा कार्या ३, आघतैरीर्याप्रतिक्रम्या ४,आलोचनंकार्यगृहानीतानां ५,असुरसुरंतिभोक्तव्यं ६, कल्पत्रयेण पात्रकाणांधावनं कार्य७, विचारः संज्ञोत्सर्गार्थं बहिर्यानं ८, स्थण्डिलानि 'बारस २ तिन्नि यत्ति २७ कार्याणि ९ प्रतिक्रमणं कार्यं १० इत्यादि । विशेषतस्तु पञ्चवस्तुकद्वितीयद्वारेज्ञेया, तस्या विराधको-भञ्जकस्तं सामाचारीविराधकं, नित्यं यावज्जीवमित्यर्थः, दत्ता-अर्पिता आलोचना-स्वपापप्रकाशनरूपा येन स दत्तालोचनोन दत्तालोचनः अदत्तालोचनस्तमदत्तालोचनं स्वपापाप्रकाशकमित्यर्थः, महानिशीथोक्तरूपीसाध्वीवत्, आलोचनाग्रहणं किञ्चिद् यथा-प्रथमं स्वकीयाचार्यपार्श्वे आलोचयितव्यं १ तदभावे स्वोपाध्याये २ तदभावे स्वप्रवर्तके ३ तदभावे स्वस्थविरे ४ तदभावे गणावच्छेदिनि ५, अथ स्वगच्छे पञ्चाना-मप्यभावे परगच्छे सांभोगिके आचार्यादिक्रमेणालोचयितव्यं, सांभोगिके गच्छे पञ्चानामप्यभावे संविग्नेऽसांभोगिके पश्चाचार्यादिक्रमेणालोचयितव्यं, संविग्नासाम्भोगिकानामप्यभावगीतार्थ-पार्श्वस्थसमीपे तदभावे सारूपिके संयतवेषगृस्थेतदभावे गीतार्थपश्चात्कृते त्यक्तचारित्रवेषगृहस्थेतदभावेसम्यक्त्वभावितदेवतायां, यतोदेवता महाविदेहादी जिनानापृच्छय कथयत्यतः, तदभावेजिनप्रतिमापुरतः, तदभावे पूर्वाभिमुकोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तविधि स्वयमेव प्रायश्चित्तं प्रतिपद्यते, एवं प्रतिपद्यमानः शुद्ध एवेति । तथा नित्यं-सदा सर्वत्र विरुद्धा कथा विकथा, तत्र स्त्रीकथा १ भक्तकथा २ देशकया ३ राजकथा ४ मृदुकारुणिकाकथा ५ दर्शनभेदिनीकथा ६ चारित्रभेदिनीकथा ७ रूपा सप्तधा, आद्याश्चतम्र:-कण्ठ्याः , श्रोतृहृदयमार्दवजननान्मृद्वीसाचासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकरुणिका, यथा॥१॥ "हा पुत्त ! २ हा वच्छ ! २ मुक्काऽसि कहमणाहाऽहं । एवं कलुणपलावा जलंतजलणेऽज्ज सा पडिया।" दर्शनभेदिनी ज्ञानाधतिशयतः कुतीर्थिकनिवप्रशंसारूपा६यस्यां कथायांकय्यमानायां कृतचारित्रमनसः प्रतिपन्नव्रतस्य वा चारित्रं प्रति भेदो भवति ७ अथवा विविधरूपा परपरिवादादिलक्षणा कथा विकथा तस्यां परायण ति भृशं तत्परमित्यर्थः, भुवनभानुकेवलि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003364
Book TitleAgam Sutra Satik 30 Gachchhachar PainngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages74
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_gacchachar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy