SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ मू०८ २११ सूरी जं होइ गच्छस्स, तम्हा तंतु परिक्खए।। - वृ. मेढी० ॥ 'मेढी'त्ति मेदि-पशुबन्धार्थं खलमध्ये स्थूणा, यथा तया बद्धानि बलीवर्दादिवृन्दानि मर्यादया प्रवर्तन्ते, 'आलम्बनं' यथा गर्तादौ पतज्जन्तोर्हस्ताद्याधार आलम्बनं तथा भवगर्तायां पततां भव्यानामाचार्य आलम्बनं, कामातुरस्वशिष्यं प्रति नन्दिषेणवत्, 'खंभ' यथा स्तम्भोगृहाधारो भवति तथाऽऽचार्य साधुसंयमगृहाधारः मेघसंयमगृहं प्रति श्रीवीरवत्, दिट्ठी ति नेत्रं यथा नेत्रेण हेयोपादेयं विलोक्यते तथाऽऽचार्यरूपनेत्रेण हेयोपादेयं ज्ञायते प्रदेशिवत्, 'यानं यानपात्रंयथा अच्छिद्रंयानपात्रंसत्संयोगे तीरंप्रापयति तथाऽऽचार्योऽपिभवतीरंप्रापयति ___जम्बूस्वामिनंप्रति श्रीसुधर्मस्वामिवत्, 'सुउत्तिम मिति सुष्टु-अत्यर्थं सुद्धा गुप्तिःनवब्रह्मचर्यरूपाअस्यास्तीति सुगुप्तिमान्, यद्वा सुठु-अतिशायिनीकुमतकर्कशप्रसतरटङ्कणायमाना सङ्घपद्मचन्द्रायमाना युक्तिरस्यास्तीति सुयुक्तिमान्, अथवा 'सुउत्तम मिति पाठे तु सुष्टु-अतिशयेनाचार्यगुणैरुत्तमः 'यत्' यस्मात् एवंविधः 'सूरि' आचार्यो भवति 'गच्छस्य' गणस्य योग्यस्तस्मात् 'तं' आचार्य 'परिक्खए'त्ति तस्य परीक्षां कुर्यादित्यर्थः । सन्मागस्थिताचार्यस्वरूपं किञ्चिद्दर्शितं, अथैतद्विपरीतस्वरूपं प्रश्नयनाहमू. (९) भयवं! केहिं लिंगेहिं, सूरि उम्मग्गपट्ठियं । वियाणिज्जा छउमत्थे, मुणी! तं मे निसामय ।। वृ.भय० ॥ हे भगवन्!' हे पूज्य! कैः लिङ्गः लक्षणैः सूरिं उन्मार्गप्रस्थित विरुद्धमार्गव्यवस्थितं विजानीयात् छद्मस्थः' केवलज्ञानकेवलदर्शनशून्यः?, इति परप्रश्ने सति गुरुराह-'हे मुने हे भिक्षो! 'तत्' उन्मार्गप्रस्थिताचार्यचित्रं मे ममकथयतस्त्वं निसामय'त्ति शृणु-आकर्णय मू. (१०) सच्छंदयारिंदुस्सीलं, आरंभेसु पवत्तयं । पीढयाइपडिबद्धं, आउक्कायविहिंसगं ।। वृ. सच्छन्द० ॥ स्वच्छन्देन-स्वाभिप्रायेण न तु जिनवचनेन चरति स्वपूजार्थं मुग्धकुमतिपातनार्थं च यः स स्वच्छन्दचारी तं स्वच्छन्दचारिणं दुष्टं-जिनगुर्वाज्ञाभञ्जकत्वेन शीलम्-आचारः पञ्चाचारलक्षणोयस्यस दुःशीलस्तंदुःशीलं, अथवा दुरिति कुत्सितः-परवञ्चनाऽनाचारसेवनादिलक्षणः शीलं-स्वभावो यस्य स दुःशीलस्तं दुःशीलं, 'आरंभेसु'त्ति बहुचनात्संरम्भसमारम्भयोर्ग्रहणं । तत्रारम्भः-पृथिव्यादिजीवोपघातः १ संरम्भो-वधसङ्कल्पः २ समारम्भः-परितापः ३ तेषु प्रवर्तकं, वर्षाकालं विनेति शेषः, पीठम्-आसनमुपवेशनार्थं, आदिशब्दात्पट्टिकदयस्तेषुप्रतिबद्धं कारणं विना सेवनतत्परमित्यर्थ, आपो-जलमेव कायः-शरीरं यस्य सोऽप्कायः- अप्रासुकजलं तस्य विविध-अनेकधा पदक्षालनपात्रक्षालनादिप्रकारेण हिंसकं-घातकं अप्कायविहिंसकम्॥ मू. (११) मूलुत्तरगुणब्भटुं, सामायारीविराहयं । ___ अदिन्नालोयणं निचं, निच्चं विगहपरायणं । वृ. मूलु०॥ चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः-प्राणातिपातविरमणादयो मूलगुणाः, मूलगुणापेक्षया उत्तरभूता गुणाः-पिण्डविशुद्धयादयोवृक्षस्य शाखाइवोत्तरगुणास्तेभ्यो भ्रष्टं-सर्वथा तत्राप्रवर्तकं, 'सामायारीविराहयंति त्रिधा सामाचारी-ओघनियुक्तिजल्पितं सर्वमोघसामाचारी, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003364
Book TitleAgam Sutra Satik 30 Gachchhachar PainngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages74
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_gacchachar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy