________________
२१०
गच्छाचार - प्रकिर्णकसूत्रम् २
स्थिते एवंविधे 'गच्छे' साध्वाभासगणे 'संवसित्ताणं' ति उषित्वा 'भ्रमन्ति' परिभ्रमणं कुर्वन्तीत्यर्थः, कां ? - भवस्य - चतुर्गतिलक्षणस्य परम्परा-परिपाटी तां भवपरम्पराम् ॥
अथ किञ्चित्प्रमादवतामपि सन्मार्गस्थिते गच्छे वसतां गाथापञ्चकेन फलं दर्शयतिमू. (३) जामद्ध- जाम-दिन- पक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्टि गच्छे, संवसमाणस्स गोयमा ।।
वृ. 'जामे' त्यादिगाथापञ्चकम् ॥ 'यामार्द्ध' प्रहरार्द्ध 'यामं' प्रहरं 'दिनं' अहोरात्रं 'पक्ष' मासार्द्धं 'मासं' पक्षद्वयं 'संवत्सरं' प्रतीतं, अपिशब्दाद् वर्षद्वयादिकं यावत्, वाशब्दो विकल्पार्थः, 'सन्मार्गप्रतिष्ठिते' जिनोक्तवचने यथाशक्ति स्थिते 'गच्छे' सत्साधुगणे 'संवसमानस्य' निवासं कुर्वाणस्य साधोर्वक्ष्यमाणलक्षणस्येतिशेषः हे गौतम ॥ किंभूतस्य । लीला अलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविक्खाइ अण्णेसिं, महाणुभागाण साहूणं ॥
मू. (४)
वृ. लीलया - सुखत्वेन 'अलसमाणस्स' त्ति आलस्यं कुर्वाणस्य 'निरुत्साहस्य' निरुद्यमस्य 'वीमणं' ति षष्ठ्यर्थे द्वितीया 'विमनस्कस्य' शून्यचित्तस्य 'पिक्खविक्खाइ 'त्ति पश्यतः साधूनां 'महानुभागानां' प्रौढप्रभावाणाम् ।
भू. (५)
उज्जमं सव्वथामेसु, घोरवीरतवाइयं । लज्जं संकं अइक्कम्म, तस्स विरियं समुच्छले ॥
1
वृ. 'उद्यमं' अनालस्यं 'सर्वस्थामसु' सर्वक्रियासु, किंभूतमुद्यमं ? - 'घोरवीरतवाइअं' ति घोरं - दारुणमल्पसत्वैर्दुरनुचरत्वात् 'वीर' न्ति वीरे - कर्मरिपुविदारणसमर्थे भवं वैरं, एवंविधं तप आदिर्यत्र तम्, आदिशब्दाद्दुष्करगुर्वादिवैयावृत्यं, 'लज्जा' व्रीडां 'शङ्कां' जिनोक्ते गुरुवचने च संशयरूपां 'अतिक्रम्य' सर्वथा परित्यज्य 'तस्य' सुखशीलादिदोषयुक्तस्यापि साधोः 'वीर्य' जीवोत्साहरूपं समुच्छलेत्, अहमपि जिनोक्तक्रियां करोमि येन दुष्टदुःखसागरान्मुञ्चामीत्यर्थः, षष्ठाङ्गोक्त शेलकाचार्यवत् ॥ पू. (६)
वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा । जम्मंतरकए पावे, पाणी मुहुत्तेण निद्दहे ॥
वृ. वीर्योच्छलने फलमाह - वीर्येण तु जीवस्य समुच्छलितेन हे गौतम! 'जन्मान्तरकृतानि' बहुभवोपार्जितानि 'पापानि' ज्ञानावरणादिदुष्कर्माणि 'प्राणी' आसनमोक्षकः 'मुहूर्तेन' अन्तर्मुहूर्तमात्रेण 'निर्दहेत्' भस्मसात्कुर्यादित्यर्थः, स्कन्धकाचार्यशिष्यध्ढप्रहारिमरुदेव्यादिवदिति ॥ तम्हा निउणं निहालेडं, गच्छं सम्मग्गपट्ठियं ।
मू. (७)
वसिज तत्य आमचं, गोयमा ! संजए मुणी ।।
वृ. यस्मादालस्यवतामपि सद्गणे एते गुणास्तस्मात् 'निपुणं' आत्ममोक्षत्रकरं यथा स्यात्तथा 'निभालय' ज्ञानचक्षुषाऽवलोक्य 'गच्छं' गणं 'सन्मार्गप्रस्थितं' जिनोक्तमार्गव्यवस्थितं 'वसेत्' गुर्वाज्ञापूर्वकं निवासं कुर्यादित्यर्थः, 'तत्र' सद्गणे जन्म मर्यादीकृत्य 'आजन्म' यावज्जीवमित्यर्थः 'हे गौतम! ' 'संयतः' षड्जीवपालनतत्परः 'मुनि' गुर्वभिप्रायागमवेत्ता ॥
अथ सद्गणः सदाचार्येणैव भवत्यतः सदाचार्यलक्षणमाहमेढी आलंबणं खंभ, दिट्ठी जाणं सुउत्तिमं ।
मू. (८)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org